आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 271, कुल 399 में से
संदर्भ में पढ़ें२६० आपस्तम्बधर्मसूत्रे [(प.८.)क.१८.
अधोनाभ्युपरि जान्वाच्छाद्येति व्याख्यातम् (१.२४.११) त्रिषवण त्रिषु
सवनेषु प्रातर्मध्यन्दिने सायमिति उदकमुपस्पृशन् स्नान कुर्वन् । अनग्नि-
पक्ववृत्ति., वृत्तिः शरीरयात्रा, सा अग्निपक्वेन न कार्या । अग्निग्रहणात्
कालपक्वस्याऽऽम्रादेरदोषः । अच्छाद्योपगतः छायामनुपगच्छन् । स्थानास
निकः स्थानासनवान् । दिवास्थानं रात्रावासनं न कदा चिच्छयनम् ।
एतत् 'विलयनं मथित'मित्यारभ्याऽनन्तरमुक्त सवत्सरं व्रत चरेत् । एत
द्ब्रतमष्टाचत्वारिंशद्वर्षसाध्येन ब्रह्मचारिव्रतेन सम्मित सदृशं यावत्तस्य
फलं तावदस्यापीत्याचक्षते धर्मज्ञाः । न केवल स्मृत्यादिकमेव प्रयो
जनमिति ।
अपर आह—'विलयनं मथित'मित्यादिकं व्रतान्तरं स्मृत्यादिकाम-
स्य । 'अधोनाभी'त्यादिकं तु सम्मितं व्रतमिति । एतच्च ब्रह्मचारि
णो गृहस्थस्य च भवति ।
तथा च बौधायनः—
(१)'अष्टाचत्वारिंशत्समितमित्याचक्षते तस्य सङ्क्षेपः संवत्सरः ।
तं संवत्सरमनुव्याख्यास्यामः—स यदि ब्रह्मचारी स्यान्नियमेव प्रति-
पद्येत । अथ यद्यपि ब्रह्मचारी स्यात् केशाश्मश्रुलोमनखानि वापयि
त्वा तीर्थे गत्वा स्नात्वे'त्यादि ॥ ५ ॥
नित्यश्राद्धम् ॥ ६ ॥
अथाऽहरहः कर्तव्यं श्राद्धमुच्यते । तस्य नित्यश्राद्धमिति नाम ॥ ६ ॥
बहिर्ग्रामाच्छुचयः शुचौ देशे संस्कुर्वन्ति ॥ ७ ॥
तन्नित्यश्राद्धं बहिर्ग्रामात्कर्तव्यं तस्याऽन्नसंस्कारः शुचौ देशे अन्नं
संस्कुर्वन्ति । शुचय इति वचनमाधिक्यार्थम् । आर्याः प्रयता इति पूर्व-
मेव प्रायत्यस्य विहितत्वात् ॥ ७ ॥
तत्र नवानि द्रव्याणि ॥ ८ ॥
तत्र नित्यश्राद्धे द्रव्याणि नवान्येव ग्राह्याणि ॥ ८ ॥
कानि पुनस्तानि ?
यैरन्नं संस्क्रियते येषु च भुज्यते ॥ ९ ॥
यैर्भाण्डैरन्नं संस्क्रियते येषु च कांस्यादिषु भुज्यते तानि नवानीति ॥ ९ ॥
१. नेदमयोपल+यमानबौधायनीये धर्मसूत्र उपलभ्यते ।