आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
मित्यर्थः । न हि ब्रह्मणोऽभिव्यक्तिनिमित्तत्वव्यतिरेकेण कस्यचिदा-
धारत्वसम्भवः । निराधारं हि ब्रह्म, सर्वगतत्वोपपत्तेः । प्रभु प्रभवति
सर्वानीश्वरान् प्रति, अचिन्त्यशक्तित्वात् । एवमाद्यनन्तगुणविशिष्ट-
मात्मानं सेवस्वेति ॥ ६ ॥
उज्ज्वला ।
विषयत्यागे हेतुमाह—
शिष्यं प्रत्याचार्यस्य वचनमेतत्। द्वौ चात्र हेतू विषयाणां त्यागे—पराधी-
नत्वमहितत्वं च । महान्त गुणतः । तेजसस्कायं तेजसश्शरीरं तेजोराशिं
स्वयंप्रकाशम् । (१)'आत्मज्योतिः सम्राडिति होवाचे'ति बृहदारण्यकम्।
सर्वत्र निहितं सर्वगतम् । प्रभु स्वतन्त्रम् । एवम्भूतं गुहाशयं एतावन्तं
कालं अहमात्मन् , सप्तम्येकवचनस्य लुक्, आत्मनि । अस्मिन् मदीये स-
ङ्घाते अन्यानपेक्ष्यैव लब्धुं योग्यमलब्ध्वा अथाऽन्येषु इन्द्रियादिषु तं तं वि-
षयं प्रतीच्छामि लब्धैर्र्थै लट्, प्रत्येच्छम् । इदानीं तु त लब्ध्वा न तथा-
विधोऽस्मि । त्वमप्येतदेव हितं साधुष्ठानं साधुमार्गे सेवस्व नाहितं विषया-
नुधावनमिति ॥ ६ ॥
सर्वभूतेषु यो नित्यो विपश्चिदमृतो ध्रुवः ।
अनङ्गोऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्छुचिः ।
स सर्वं परमा काष्ठा स वैषुवतं स वै वैभाजनं पुरम् ॥७॥
विवरणम् ।
विशिष्टमात्मानं सेवस्वेति क्रियापद्मनुवर्तते । किं च सर्वभूतेषु
ब्रह्मादिष्वनित्येषु यो नित्योऽविनाशी । विपश्चिन्मेधावी, सर्वज्ञ इत्यर्थः ।
अमृतोऽत एव । यो ह्यनित्योऽसर्वज्ञः स मर्त्यो दृष्टः; अयं तु तद्विपरी-
तत्वादमृतः । ध्रुव अविचलः । निष्कम्पस्वभाव इत्यर्थः । अनङ्गः स्थू-
लशरीररहित इत्यर्थः । स्थूले हि शरीरे शिरआद्यङ्गानि सम्भवन्ति ।
अशरीर इति लिङ्गशरीरवर्जित इत्येतत् । अशब्दः नाऽस्य शब्दगुणः
सम्भवति । शब्दविद्धि सन् अन्यथा शब्दात्मकः शब्दात्मकमेव विजा-
नीयात् । न चैतदस्ति । अतोऽशब्दः । तथा अस्पर्शः आकाशवायुभूत-
द्वयगुणप्रतिषेधेन शब्दादयो गन्धावसानाः सर्वभूतगुणाः प्रतिषिद्धा
वेदितव्याः । तत इदं सिद्धमाकाशादपि सूक्ष्मत्वम् । शब्दादिगुण-
बाहुल्याद्वाय्वादिषु स्थौल्यतारतम्यमुपलभ्यते । शब्दादिगुणाभावा-
न्निरतिशयसूक्ष्मत्वं सर्वगतत्वादि चाऽप्रतिबन्धेन धर्मजातं तर्केणाऽपि
१. बृह. उ. ४. ३ ६. अत्र पाठभेदो दृश्यते.
आत्मस्वरूपम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३१
शक्यं स्थापयितुम् । महान्, अत एव शुचिर्निरञ्जनः । अथवा शुचिः पावन
इत्यर्थः । शुचि हि वस्तु पावनं दृष्टम्, यथा लोके वाय्वग्न्यादि । किञ्च
य आत्मा प्रकृतः, स सर्वम् । (१)'इदं सर्वं यदयमात्मे'ति हि वाज-
सनेयके । न ह्यात्मव्यतिरेकेण किञ्चिन्निरूप्यमाणमुपपद्यते । अत
एव परमा प्रकृष्टा । काष्ठा अवसानम् । (२)'सा काष्ठा सा परा गति-
रि'ति काठके । संसारगतीनां अवसानं निष्ठा समाप्तिरित्यर्थः । स वैषुवतं
मध्यं सर्वस्य, सर्वान्तरश्रुतेः। विषुवत्सु वा(३) दिवाकीर्त्येषु मन्त्रेषु नित्यं
प्रकाश्यं भवतीति वैषुवतः । स परमात्मा ।
ननु 'स सर्वं परमा काष्ठा स वैषुवत'मित्युक्तम् । कस्मात्
पुनस्तदात्मतत्त्वं विभक्तमुपलभ्यत इति । उच्यते-स परमात्मा
वैभाजनं, विभक्तिर्विभजनं विवेकः आत्मनो यस्मिन् देहे क्रियते,
तत् । विभाजनमेव वैभाजनम् । आत्मनो विवेकोपलब्ध्य-
धिष्ठानं हि शरीरम् । तच्चाऽनेकधा विभक्तम् । तदुपाध्यनुवर्ति-
त्वाद् वैभाजनम् सर्वथा शुद्धमेव सर्वैर्नोपलभ्यते । किं तर्हि ? विभक्तो
विपरीतश्चोपलभ्यते ॥ ७ ॥
उज्ज्वला ।
पुनरप्यसौ कीदृश इत्याह-
सर्वभूतेषु मनुष्यादिषु सङ्घातेषु यो नित्यः विनश्यत्स्वपि न विनश्यति
विपश्चित् मेधावी चित्स्वरूपः । अमृतः नित्यत्वादेवाऽमरणधर्मा । अतः ध्रुवः
एकरूपः, विकाररहितः । न प्रधानवद्विकारिणस्सतो धर्मिरूपेणाऽस्य
नित्यत्वमित्यर्थः । अनङ्गः करचरणाद्यङ्गरहितः । अशब्दोऽस्पर्श इति भूत-
गुणानामुपलक्षणम् । शब्दादिगुणरहितः अशरीरः सूक्ष्मशरीरेणाऽपि वर्जि
तः । महाञ्छुचिः महत्त्व शौचस्य विशेषणम् । परमार्थतोऽत्यन्तशुद्धः ।
स सर्व प्रकृत्यभेदद्वारेण । स एव परमा काष्ठा, ततः पर गन्तव्याभावात् ।
स वैषुवत विषुवान्नाम गवामयनस्य मध्ये भवमहः । 'एकविंशमेतदह •
रुपयन्ति विषुवन्तं मध्ये सम्वत्सरस्ये'ति दर्शनात् । विषुवानेव वै-
१ बृह उ. ४. ५. ७ २. काठ. १. ३ ११.
३. गवामयनाख्यस्सवत्सरसाध्यस्सत्रविशेष । स एकषष्ट्यधिकशतत्रयादिवस
(३६१) साध्यः । तत्राशीत्युत्तरशत ( १८० ) दिनानि पूर्व पक्ष. । तावन्त्येव दिना-
न्युत्तरं पक्षः । मध्यमं यदहरेकाशीत्युत्तरशततमरू (१८१) पं स विषुवान् । तत्र दिवा-
कीर्त्याह्य साम ब्रह्मसाम भवति । तेन च साम्ना परमात्मा गीयते । अतो विषुवद्वत्
मध्यस्थानत्वात् तत्प्रतिपाद्यत्वाद्वा ब्रह्म वैषुवतमिति भाव. ।
१३२ आपस्तम्बधर्मसूत्रे [ (प.८) क.२३
ध्रुवतम् । तद्यथा सम्वत्सरस्य मध्ये भवति एवमङ्गानामेष
मध्ये । (१) 'मध्यं ह्येषामाङ्गानामात्मे'ति बह्वृचब्राह्मणम् । स एव च वैभा-
जनं पुरं विविधैर्मार्गैर्भजनीयं विभजनम् । तदेव वैभाजनं प्रज्ञादिरनुश-
तिकादिश्च । यथा समृद्धं पुरं सर्वैरर्थिभिः प्राप्यमेवमयमपीति ॥ ७ ॥
तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चाऽस्य सदाऽऽचरेत् ।
दुर्दर्शं निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ॥ ८ ॥
विवरणम् ।
अतस्तदुपाध्यनुवर्तिस्वभावदर्शनमविद्याख्यं हित्वा विद्यया शा-
स्त्रजनितदर्शनेन तं यथोक्तलक्षणमात्मानमनुतिष्ठेत् । । सर्वत्र सर्वस्मिन्
काले । किञ्च न केवलमनुष्ठानमात्रमस्य । प्राध्वं बन्धनम् आत्मैकत्वरस-
प्रज्ञतां स्थिरां बाह्यैषणाव्यावृत्तरूपां सर्वसन्न्यासलक्षणाम् । तद्धि
बन्धनं विदुषो ब्रह्मणि । एवं हि बद्धो ब्रह्मणि संसाराभिमुखो नाऽऽव-
र्तते । तस्माद् बन्धनं चाऽस्य सदाऽऽचरेत् । तदनुष्ठानबन्धने सदाचरतः
किं स्यादिति ? उच्यते—दुर्दर्शं दुःखेन ह्येषणात्यागादिना स दृश्यत इति
दुर्दर्शम् । निपुणं यस्माद्धि दुर्दर्शं तस्मान्निपुणम् । अत्यन्तकौशलेन
समाहितचेतसा युक्तो यः पश्येत् साक्षादुपलभेत—अहमात्मेति, स
मोदेत । एवं दृष्ट्वा हर्षमानन्दलक्षणं प्राप्नुयात् । विष्टपे विगतसन्ताप-
लक्षणेऽस्मिन् ब्रह्मणित्यर्थः ॥ ८ ॥
उज्ज्वला ।
तमेवंभूतमात्मानं योऽनुतिष्ठेदुपासीत यश्चाऽस्य सर्वत्र सर्वास्ववस्थासु
सदा प्राध्वमानुकूल्यमाचरेत् । आनुकूल्यं प्रतिषिद्धवर्जनं नित्यनैमित्ति-
ककर्मानुष्ठानं च । यश्च दुर्दर्शं निपुण(२) सूक्ष्मतः युक्तः समाहितो भूत्वा
पश्येत् साक्षात्कुर्यात् । सः विष्टपे विगततापे स्वे महिम्नि स्थितो मोदेत
सर्वदुःखवर्जितो भवति । संसारदशायां वा तिरोहितं निरतिशयं स्व-
मानन्दमनुभवतीति ॥ ८ ॥
॥ इत्यापस्तम्बसूत्रवृत्तावुज्ज्वलायां द्वाविंशी काण्डका ॥ २२ ॥
आत्मन् पश्यन् सर्वभूतानि न मुह्येच्चिन्तयन्कविः ।
आत्मानं चैव सर्वत्र यः पश्यत्स वै ब्रह्मा नाकपृष्ठे
विराजति ॥ ९ ॥ १ ॥
१. ऐ. ब्रा. ६. प. ८. ख. २. सूक्ष्ममेत इति क. ख. पु.
आत्मज्ञानफलम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३३
विवरणम् ।
किञ्च आत्मन् पश्यन् आत्मनि पश्यन् उपलभमानः । सर्वभूतानि
सर्वाणि (भूतानि)। सर्वेषां भूतानामात्मस्वरूपतामेव पश्यन्नित्यर्थः ।
सर्वत्राऽऽत्मानं च परम् । न मुह्येत् मोहं न गच्छेत् । न ह्यात्मैकत्वदर्शिनो
मोहावतारः; (१)'तत्र को मोह' इति च मन्त्रलिङ्गात्। कीदृग्वि शिष्टमा-
त्मदर्शनं मोहनिबर्हणमित्याह—चिन्तयन् उपसंहृतकरणः कविः मेधा-
वी सन् ध्यायमानः । न शब्दजनितदर्शनमात्रेण मोहापगमः । सर्वभूते-
ष्वनुप्रविष्टमेकं संव्यवहारकाले यो हि युक्तः पश्येत्, स वै ब्रह्मा
ब्राह्मणः । नाकपृष्ठे सुकरागौ(?) ब्रह्मणि। विराजति विविधं दीप्यते ॥९॥
उज्ज्वला ।
सर्वाणि भूतानि आत्मन् आत्मनि शेषत्वेन स्थितानि पश्यन् उपनिषदादि-
भिर्जानन् । पश्चाच्चिन्तयन् युक्तिभिर्निरूपयन्, यो न मुह्येत् मध्ये मोहं न
गच्छेत् । कविर्मेधावी । पश्चाच्च सर्वत्रैव शेषत्वेन स्थितमात्मानं पश्येत् साक्षा
त्कुर्यात् । स वै ब्रह्मा ब्राह्मणः नाकपृष्ठे तत्सदृशे स्वे महिम्रि स्थितो विरा-
जति स्वयं प्रकाशते ॥ १ ॥
निपुणोऽणीयान् बिसोर्णाया यस्सर्वमावृत्य तिष्ठति ।
वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति ।
स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽ
नन्यस्य ज्ञेयात्परमेष्ठी विभाजः ।
तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः॥
विवरणम् ।
किञ्च निपुणः सर्ववित् अणीयान् अणुत्तरो बिसोर्णायाः बिसत-
न्तोस्तोरपि । कोऽसौ ? य प्रकृत आत्मा सर्वं समस्तं जगदावृत्य सं-
व्याप्य तिष्ठति । किञ्च वर्षीयान् वृद्धतरः स्थूलतरश्च पृथिव्याः । सर्वा-
त्मको हि सः। ध्रुवः नित्यः सर्वं कृत्स्नमारभ्य संस्तम्भनं कृत्वा । तिष्ठति
वर्तते । (२)'येन द्यौरुग्रा पृथिवी च दृढा' इति मन्त्रलिङ्गात् । स सर्वेश्वरः
सर्वज्ञः एको विज्ञेय इत्यर्थः । स परमात्मा इन्द्रियैर्जन्यते यज्ज्ञानं ज-
गतोऽस्य, तस्मात् ज्ञानादन्यो विलक्षणः, लौकिकज्ञानादन्य इति विशे-
षणाज्ज्ञानात्मक इत्येतत् सिद्धम् । 'सत्यं ज्ञानमनन्तमि'ति च श्रुतेः ।
अस्य जगत इन्द्रियजन्यज्ञानादन्य इत्युक्तम् । अतश्च तद्व्यतिरिक्तं ज-
१. इशा. उ. ७. २. ऋ ८. ७. ३.
१३४ | आपस्तम्बधर्मसूत्रे | [ (प. ८) क. २३.
गदिति प्राप्तम् । अतस्तन्मा भूदित्याह — अनन्यस्य अपृथग्भूतस्य ज-
गतः, ज्ञेयात् ज्ञातव्यात् परमार्थस्वरूपाद्द्वयात् परमेश्वराद् घटादेरिव
मृदः । स च परमेष्ठी परमे प्रकृष्टे स्वे महिम्नि हृदाकाशेऽवस्थातुं
शीलमस्येति परमेष्ठी । स्वयमेव विभाज विभक्तो देवपितृमनुष्यादि-
ना ज्ञातृज्ञेयज्ञानभेदेन च, यस्मात् स एव ज्ञेय आत्मा स्वतो विभजति
जगदनेकधा । तस्मादेवाऽऽत्मनः कायाः शरीराण्याकाशादिक्रमेण प्रभवन्ति
सर्वे ब्रह्मादिलक्षणाः । अतो मूलं स जगतः । (१) "यतो वा इमानि भूतानि
जायन्ते" इति श्रुतेः । अत एव स शाश्वतिकः । यो हि पृथिव्यादिविकारः,
सोऽब्वादिक्रमेण विनश्येत, परं मूलकारणमापद्यते, सोऽशाश्वतिकोऽ-
नित्यः । अयं चाऽऽत्मा परं मूलम् । न तस्याऽप्यन्यन्मूलमस्ति, यतो जा-
तो विनश्येत्, मूलमापद्यते, ततस्तद्विलक्षणत्वाच्छाश्वतिकः शश्वदे-
करूपः । अतो नित्यः एकत्वमहत्वमूलत्वेभ्यश्च ॥ १० ॥
उज्ज्वला ।
निपुणो मेधावी चित्स्वरूपः । बिसोर्णाया बिसतन्तोरप्यणीयान् सूक्ष्मः ।
य सर्वमावृत्य व्याप्य तिष्ठति । यश्च पृथिव्या अपि वर्षीयान् प्रवृद्धतरः सर्वग-
तत्वादेव सर्वमारभ्य विष्टभ्य ईशित्वेनाऽधिष्ठाय तिष्ठति । ध्रुवः एकरूपः ।
अस्य जगतो यदिन्द्रियैर्ज्ञानं इन्द्रियजन्यं ज्ञानं तस्मात् । कीदृशात् ?
अनन्यस्य ज्ञेयात्, पञ्चम्यर्थे षष्ठी, ज्ञेयात् नीलपीताद्याकारादनन्यभूतं
नीलपीताद्याकारं, तस्माद्विज्ञानादन्य इत्यर्थः । श्रूयते च (२) 'तस्मा-
द्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमय' इति ।
(३) 'ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रान्तिदर्शनतःस्थितम् ॥' इति पुराणम् । स्वभा-
वतः स्वच्छस्य चिद्रूपस्याऽऽत्मनो नीलपीताद्याकारकालुष्यं तद्रूपाया
बुद्धेरनुरागकृतं भ्रान्तमित्यर्थः । वैषयिकज्ञानादन्य इति विशेषणेन ज्ञाना-
त्मक इत्यपि सिद्धम् । (४) 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति च श्रुतिः । एवंभूत-
स्याऽऽत्मा परमेष्ठी परमे स्वरूपे तिष्ठतीति । विभाज इत्यस्य परेण सम्ब-
न्धः । विभजत्यात्मानं देवमनुष्यादिरूपेण नानाशरीरानुप्रवेशेनेति वि-
भाक् । तस्माद्विभाजो निमित्तभूतात् सर्वे काया देवमनुष्यशरीराणि प्रभवन्ति
उत्पद्यन्ते । स मूल प्रपञ्चसृष्टेर्भोक्तृतया मूलकारणम् । स नित्यः अवि-
नाशी । शाश्वतिक एकरूपः अविकारः ॥ २ ॥
१. तै. उ. ३. १. | २. तै. उ. २. ५.
आत्मज्ञानफलम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११५
विवरणम् ।
एवं यथोक्तमात्मान विदितवत आध्यात्मिका योगा न्यायसहिता
अप्रतिबन्धेन भविष्यन्ति । मिथ्याप्रत्ययपूर्वका हि दोषाः । दोषनिमि-
त्तश्च धर्माधर्मजनितः ससारः दोषनिवृत्तावत्यन्तं विनिवर्तते इत्येतम-
र्थं दर्शयिष्यन्नाह--
दोषाणां तु निर्घातो योगमूल इह जीविते । निर्हृत्य
भूतदाहीयान् क्षेमं गच्छति पण्डितः ॥ २१ ॥ ३ ॥
दोषाणां तु क्रोधादीनां निर्घातः विनाशः । योगा अक्रोधादयः, त-
न्मूलः तन्निमित्तमित्येतत् । अक्रोधादिषु हि सत्सु प्रतिद्वन्द्विनो दोषा
दुर्बलत्वान्निबर्ह्यन्ते । इह जीवित इति दोषप्रभवकर्मनीमत्तत्वाज्जीवि-
तस्य देहधारणावसानो दोषव्यापार इत्येतद् दर्शयति । तत्प्रतिपक्षेष्व-
क्रोधादिषु कथं नु नाम मुमुक्षवः प्रयत्नातिशय कुर्युरिति योगदोषयो-
रितरेतरविरोधित्वे सति स्थितगतिवद् योगेभ्यो दोषाणामेव निर्घातः,
न तु विपर्यय इत्येतत् । कथमिति चेत् ? उच्यते-सम्यग्दर्शनसचिव-
त्वाद् बलवन्तो योगाः । मिथ्याप्रत्ययसचिवत्वात् दुर्बलत्वान्निबर्ह्यन्ते ।
निहन्तीत्येतदप्युक्तम् । बुद्धिबलवद्वत्तस्तद्धीनानां लोके निर्घातो
दृष्टः । 'अक्रोधनः' (१. १. २३) 'क्रोधादींश्च---' (१. ११. २५) इति लि-
ङ्गात् । निर्हृत्य अपहृत्य । भूतदाहान् दोषेषु(न?) हृद्भूतेषु भूतानि द-
ह्यन्त इव अग्निना परितप्यन्ते । अतो भूतदाहा दोषा उच्यन्ते । तान्
निर्हृत्य । क्षेमं निर्भयं मोक्षं गच्छति ।
"आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन" "अभयं वै जनक प्राप्तो
ऽसि' 'न भवति विदुषां ततो भयम्' इत्यादिश्रुतिस्मृतिभ्यः । न
दोषप्रशममात्रेणाऽब्रह्मविदः क्षेमप्राप्तिरित्याह-पण्डित इति । ब्रह्मविदि
ह्यत्र पण्डितशब्दः प्रयुक्तो, न शास्त्रविदि । (१)"तस्माद् ब्राह्मणः पा
ण्डित्यं निर्विद्य" इति श्रुतेः। इहाऽऽत्मविद्याधिकारात् ।
यदि तर्हि दोषनिर्हरणं पाण्डितोऽप्यपेक्षत, तं प्रति न हि ब्रह्मवि
द्या क्षेमप्राप्तिनिमित्तम् । यदि ब्रह्मविद्यैव क्षेमप्राप्तिनिमित्तं, ब्रह्मविद्या
नन्तरमेव न दुःखमुपलभेत । नैष दोषः । उक्तो ह्यत्र परिहारः--सम्यग्
ज्ञानबलावष्टम्भाद् बलिनो योगा दुर्बलान् दोषान् मिथ्याप्रत्ययभवान्
निर्हन्तुमलमिति । तस्माद् ब्रह्मविद्ययैव क्षेमप्राप्तिः । अन्यथा दोषनिर्ह-
रणकर्मक्षययोरसम्भवात् ।
१. बृ. उ. ३. ५. १.
१३६ आपस्तम्बधर्मसूत्रे [(प.८)क.२३
विद्यया चेद् दोषनिर्हरणकर्मक्षयाववश्यं भवतः, तत इदमयत्नका-
र्यत्वाद् दोषनिर्हरणस्य नित्यानुवादरूपमनर्थकम्, निर्हृत्येति, न,
प्रवृत्तकर्माक्षिप्तत्वाद् दोषाणाम्। द्विविधानि ह्यनेकजन्मान्तरकृतानि
कर्माणि-फलदानाय प्रवृत्तान्यप्रवृत्तानि च। यत्तु प्रवृत्तं कर्म, तेनाक्षि
प्ता दोषाः कर्तुः सुखदुःखादिफलदानाय, दोषाभावे फलारम्भकत्वा-
नुपपत्तेः। न हि रागद्वेषादिशून्ये सुखदुःख प्रवृत्तिलब्धिः कदाचित्
कस्यचिदिह दृश्यते। तस्मात् फलदानाय प्रवृत्तेन कर्मणाऽऽक्षिप्ता दोषाः
प्रसङ्गेन प्राप्तबला यत्नतो निर्हर्तव्या । प्रवृत्त्याधिक्यहेतुत्वप्रसङ्गात् ।
अत एवेदम उक्तम्-दोषाणां तु निर्घातो योगमूले इह जीवित इति। मन्द-
मध्यमोत्तमापेक्षत्वाच्च। ब्रह्मविदामपि न सर्वेषां समा ब्रह्मप्रतिपत्तिः,
विवेकातिशयदर्शनात् कस्यचित् । 'एष ब्रह्मविदां वरिष्ठ' इति च श्रुतेः
सम्यग्दर्शनसम्पन्न' इति च स्मृतेः। मन्दमध्यमब्रह्मविद्पेक्षया त्याग-
वैराग्येन्द्रियजयविधेरर्थवत्त्वम्, उत्तमब्रह्मविदां त्वर्थप्राप्तमेतत् सर्वमि-
त्यनुवादमात्रम् । (१)'रसोऽप्यस्य परं दृष्ट्वा निवर्तते, इति वचनात्,गुण
तीतलक्षणवचनेभ्यश्च। प्रवृत्तकर्माक्षिप्तदोषात् तज्जनितचेष्टाभ्यश्च भ-
वति विदुषोऽपि देहान्तरोत्पत्तिरिति चेद्-मुक्तष्विवत् प्रवृत्तकर्माक्षिप्त-
त्वाद् विद्षदोषचेष्टानां प्रवृत्तकर्मविभागेनैवोपक्षीणशक्तित्वात् प्रयोजना
न्तराभावाच्च न जन्मान्तरारम्भकत्वमुपपद्यते। यद्यप्रवृत्तं कर्म, तत
स्त्येवावस्थमेव ब्रह्मविद्याहुताशनदग्धबीजशक्तित्वान्न जन्मान्तरार-
म्भाय, 'क्षीयन्ते चाऽस्य कर्माणि' (२) 'ज्ञानाग्निः सर्वकर्माणि' इत्यादिश्रु-
तिस्मृतिभ्यः । अतः सिद्धा पण्डितस्य दोषनिर्हरणात् क्षेमप्राप्तिः ॥ ११ ॥
उज्ज्वला ।
दोषाणा वक्ष्यमाणानां क्रोधादीनां निर्घातः निर्मूलनम् । इह जीविते
योगमूलः योगा वक्ष्यमाणा अक्रोधादयः तन्मूलकः । अतश्च तान् भूतदा-
हीयान् भूतानि दहत क्रोधादीन्दोषान् निर्हृत्य क्षेमं गच्छति आत्मत्राणद्वारेण ।
पण्डितो (३) लब्धज्ञानः आत्मसाक्षात्कारी । क्षेम अभय मोक्षम् (४) अभयं वै
जनक प्राप्तोऽसी'ति बृहदारण्यकम्ः ॥ समाप्ताः श्लोकाः॥ ३ ॥
अथ भूतदाहीयान्दोषानुदाहरिष्यामः ॥ १२ ॥ ४ ॥
भूतानां दाहो भूतदाहः तस्मै हिताः भूतदाहीयाः तस्मै हितमिति छः।"
१. श्रीम० गीता० २. ५९. २. श्रीभगव. ४. ३७.
आत्मलाभयोगाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३७
क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो
मृषोद्यमत्याशपरीवादावसूया काममन्यू अना-
त्म्यमयोगस्तेषां योगमूलो निर्घातः ॥ १३ ॥ ५ ॥
विवरणम् ।
तत्र क्रोधस्ताडनाक्रोशानादिहेतुरन्तःकरणविक्षोभो गात्रस्वेदक-
म्पनादिलिङ्गः । हर्षस्तद्विपरीतोऽभीष्टलाभजनितो बाष्परोमाञ्चनादि-
लिङ्गः । रोषोऽनिष्टविषयो मानसो विक्रियाविशेषः । लोभः परद्रव्येप्स्रा,
स्वद्रव्याविनियोगस्तीर्थे । मोह कार्याकार्यविवेकता । दम्भ आत्मनो
धार्मिकत्वप्रकाशनम् । द्रोहः परानिष्ठाचिकीर्षा । मृषोद्यमनृतवचनम् ।
अत्याशपरीवादौ अत्याशोऽतिमात्रमशनम् । परीवादोऽसमक्षं परदो-
षाभिधानम् । असूया परगुणेष्वक्षमा । काममन्यू कामः स्त्रीव्यतिक-
राभिलाषः । मन्युस्तद्विघातकृत्सु द्वेषः । अनात्म्यम् अनात्मवत्त्वा । एष
क्रोधादिरयोगः, असमाधानलक्षणो ह्येष चेतसो विक्षेपप्रकारः । तेषां
योगमूलो निर्घातः ॥ १२ ॥ १३ ॥
उज्ज्वला ।
(१)ताडनाक्रोशादिहेतुकोऽन्तःकरणविक्षोभः स्वेदकम्पादिलिङ्गः
क्रोधः । हर्षः इष्टलाभाच्चेतस उद्रेको रोमाञ्चादिलिङ्गः । रोषः क्रोधस्यैव
कियानपि भेदो मित्रादिषु प्रतिकूलेषु मनसो वैलोम्यमात्रकार्यकरः ।
लोभो द्रव्यसङ्गः, यो धर्मव्ययमपि रुणद्धि । मोहः कार्याकार्ययोरविवेकः ।
स च प्रायेण क्रोधादिजन्योऽपि पृथगुपदिश्यते कदाचित्तदभावेऽपि
सम्भवतीति । दम्भो धार्मिकत्व(२)प्रकाशनेन लोकवञ्चनम् । द्रोहोऽपका-
रः । मृषोद्यमनृतवादः । अत्याशोऽत्यशनम् । परीवादः परदोषाभिधानम् ।
असूया परगुणे(३)ष्वक्षमा । कामः स्त्रीसंसर्गः । मन्युः गूढो द्वेषः ।
अनात्म्य अजितेन्द्रियत्वं जिह्वाचाफलादि । अयोगो विक्षिप्तचित्तता ।
एते भूतदाहीया दोषाः । तेषां योगमूलो निर्घातः ॥ ५ ॥
के पुनस्ते योगा इति, उच्यते--
अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः स-
त्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्-
र्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्य-
१. आक्रोशादि इति ख. पु. २. प्रदर्शनेन इति क. पु. ३. अक्षमता इति क. पु.
१३८ आपस्तम्बधर्मसूत्रे [(प.८.) क.२३.
मानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्य-
नुतिष्ठन् विधिना (१)सार्वगामी भवति ॥ १४ ॥ ६ ॥
विवरणम् ।
अक्रोधोऽहर्षः इत्येवमाद्या अयोगविपरीताः । अतस्ते समाधिलक्षण-
त्वाद् योगाः । संविभागः आत्मनो यात्रासाधनस्याऽर्थिभ्यः संविभजनम् ।
त्यागः दृष्टादृष्टभोगानां शक्तितः परित्यजम्, तत्साधनानां च ।
आर्जवम् ऋजुता, अदुष्टाकलनपूर्विका वाङ्मनःकायानां प्रवृत्तिः । मार्दवं
मृदुत्वम् । शमोऽन्तःकरणोपशमः । दमो बाह्यकरणापेशमः । इदमन्यद्
योगलक्षणं संक्षेपत उच्यते-सर्वभूताविरोधो योगः, विरोधे हि भूतानां
पीडा, तदभावेऽपीडा । स एव सर्वभूतापीडालक्षणो योगः ।
आर्यम् आर्याणां भावः अक्षुद्रता । आनृशंसम् आनृशंस्यम् , अक्रौर्यम् ।
तुष्टिः लब्धव्यस्याऽलाभेऽपि चेतसः प्रसन्नतयाऽवस्थानं लाभ इव । सर्व-
भूताविरोलक्षणांहिसा परिव्राजकस्यैव संभवतीत्यार्यादीनां त्रया-
णामन्येषां चाऽविरुद्धानां सर्वाश्रमान् प्रति प्राप्तिरितीतिशब्दसाम-
र्थ्याद्, इतिशब्दस्य च प्रकारवचनत्वादार्यादीनीत्थंप्रकाराणि सर्वाश्र-
मान् प्रति गमयति सर्वाश्रमाणां समयपदानिति । समयस्थानानीत्ये-
तत् । अवश्यमनुष्ठेयानीत्यर्थः । तान्येतानि यथोक्तान्यनुतिष्ठन् विधिना
सार्वगामी सर्वगमनशीलः, ज्ञानाभिव्यक्तिकमेण । भवति मुच्यते इत्यर्थः ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीशङ्करभगवत्पादाचार्यस्य कृतिषु
आपस्तम्बीयधर्मशास्त्राध्यात्मपटलविवरणम् ॥ ॐ
उज्ज्वला ।
के पुनस्ते योगाः ? तानाह—
एते चाऽक्रोधादयोऽपि भावरूपाः न क्रोधाद्यभावमात्रम् , क्रोधादिनि-
र्घातहेतुतयोपदेशात् । के पुनस्ते ? अक्रोधः, क्रोधादिषु प्रसक्तेष्वपि
मा कार्षमिति सङ्कल्पः । अहर्षः, इष्टलाभालाभेषु चेतस ऐकरूप्यम् ।
अरोधः मित्रादिषु प्रतिकूलेष्वपि मनोविकाराभावः । अलोभः सन्तो-
षोऽलम्बुद्धिः । अमोहोऽवधानम् । अदम्भो धर्मानुष्ठानम् । अद्रोहः परेष्व-
पकारिष्वप्यनपकारः । अनसूया परगुणेष्वभिमोदनम् । सत्यवचनं यथा-
आत्मज्ञानोपायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३९
दृष्टार्थवादित्वम् । संविभागः आत्मान(१)मुपरुध्याऽप्यन्नादिदानम् ।
त्यागोऽपरिग्रहः । आर्जवं मनोवाक्कायानामेकरूपत्वम् । मार्दवं सूपगम्यता ।
शमः मन्युपरित्यागः । दम-(२)इन्द्रियजयः । एताभ्यामेव गतत्वात् पूर्व-
त्र स्वस्मिन् क्रमे अकामः, अमन्युः, आत्मवत्वमिति नोपदिष्टम् । सर्वभूतैर-
विरोधः ।सर्वग्रहणं क्षुद्रैरविरोधात्थम् । योगः ऐकाग्र्यम् । आर्याणां भावः
आर्य शिष्टाचारानुपालनम् । आनृशंस आनृशंस्य व्यवहारवचनादौ प्रसक्त-
नैष्ठुर्यस्य वर्जनम् । तुष्टिरनिर्वेदः । समयो व्यवस्था । सा च प्रकरणाद्ध-
र्मज्ञानाम् । पदं विषयः । एते अक्रोधादयः सर्वेषामाश्रमाणां सेव्याः, न
केवलं योगिनामेवेति धर्मज्ञानां समय इत्यर्थः । एते हि भाव्यमानाः
क्रोधादीन् समूलघातं घ्नन्ति । अतश्च ताननुतिष्ठन् विधिना सार्वगामी
भवति । तान्यक्रोधादीनि तुष्ट्यन्तानि । विधिना यथाशास्त्रम् ।
अनुतिष्ठन् सार्वगामी सर्वस्मै हितः सार्वः आत्मा तं गच्छति प्राप्नोति ।
‘विधिने’ति वचनात्(३)‘प्राणिनां तु वधो यत्र तत्र साक्ष्यनृतं वदेत् ।’
इत्यादिके विषये अनृतवचनादावपि न दोष इति ॥ ६ ॥
इति श्रीहरदत्तविरचितायामापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां
त्रयोविंशी कण्डिका ॥ २३ ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्ज्वलायां प्रथमप्रश्नेऽष्टमः पटलः ॥८॥
१. अवरुध्य इति क. पु. २. इन्द्रियनिग्रहः इति ग. पु
३. द्वित्रेष्वप्यादर्शपुस्तकेषु ‘प्राणिनां तु वधो यत्र’ इत्येव पाठस्समुपलभ्यते । परन्तु
श्लोकार्धमिदं याज्ञवल्कीयम् । तत्र “वर्णिनां हि वधो यत्र” इत्येव मुद्रितपुस्तकेषु पाठस्स-
मस्ति । ( या. स्मृ. २. ८३. ) किञ्च मनौ-एतत्त्समानार्थकश्लोक एवमुपलभ्यते-
शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तौ भवेद्वधः ।
तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ इति । (म. स्मृ. ८. १०४)
अनयोरेकार्थत्वमभ्युपगम्यैव विज्ञानेश्वरेणाऽपि “यत्र वर्णिना शूद्रविट्क्षत्रवि-
प्राणां सत्यवचनेन वधस्सम्भाव्यते” इति याज्ञवल्कीय वचनं व्याख्यातम् । अन्यैरपि
विश्वरूपापरार्कादिभि ‘वर्णिनाम्’ इत्येवं पाठ. स्वीकृतः । अतोऽत्रापि ‘वर्णिना’ इत्येव
पाठस्साधीयानिति युक्तमुत्पश्यामः ॥
अथ नवमः पटलः ॥
क्षत्रियं हत्वा गवां सहस्रं वैरयातनाथं दद्यात् ॥ १ ॥
क्षत्रियं हत्वा गवां सहस्रं ब्राह्मणेभ्यो दद्यात् । किमर्थम् ? वैरयातनाथं वैरं पाप
तस्य यातनं निर्हरणं तदर्थम् "ऋषभश्चात्राऽधिकः सर्वत्र प्रायश्चित्ता-
र्थ" (२४. ४) इति वक्ष्यति । तेन प्रायश्चित्तरूपमिदं दानम् । प्रायश्चित्तं
च पापक्षयार्थम् । तत्किमर्थं वैरयातनाथमित्युच्यते ? केचिन्मन्यन्ते-
नाऽभुक्तं क्षीयते कर्म पुण्यमपुण्यं च । प्रायश्चित्तं तु नैमित्तिकं कर्मान्तरं
(१) यथा गृहदाहादौ क्षामवत्यादय इति । तन्निराकर्तुमिदमुक्तम् ।
श्रौतेऽप्युक्तं-(२) 'दोषंनिघातार्थानि भवन्ती'ति । अपर आह-यो येन
हन्यते स हतो म्रियमाणस्तस्मिन्वैरं करोति-अपि नामाऽहमेनं
जन्मान्तरेऽपि वध्यासमिति । तस्य वैरस्य यातनाथमिदमिति प्रायश्चि-
त्तार्थत्वमपि वक्ष्यमाणेन सिद्धमिति ॥ १ ॥
शतं वैश्ये ॥ ३ ॥
वैश्ये हते गवां शतं दद्यात् ॥ २ ॥
दश शूद्रे ॥ ३ ॥
शूद्रे हते दश दद्यात् । गा इति प्रकरणाद्गम्यते ॥ ३ ॥
ऋषभश्चाऽत्राधिकः सर्वत्र प्रायश्चित्तार्थः ॥ ४ ॥
सर्वेष्वेतेषु निमित्तेषु ऋषभोऽप्यधिको देयः । न केवलं गा एव ।
इदं प्रायश्चित्तत्रयं मानवेन समानविषयम् । यथाऽऽह-
(३) अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ।
ऋषभैकसहस्रा गा दद्याच्छुद्ध्यर्थमात्मनः ॥
त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ।
वसन् दूरतरे ग्रामाद्वृक्षमूलनिकेतनः ॥
१. 'यस्य गृहान् दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत् भागधेयेनैवैनं
शमयति नाऽस्याऽपरं गृहान् दहति' (तै.स. २. २. २.) इति विहिता आहिताग्नेर्यजमानस्य
गृहे दग्धे तादृशगृहदाहनिमित्तका क्षामवदग्निदेवताकेष्टिः क्षामवतीष्टिः ।
२. आप० श्रौ० ९. १. ४ ३. म. स्मृ. ११. १२७-१३०
ब्रह्महत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४१
एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः ।
प्रमाप्य वैश्यं वृत्तस्थं दद्याद्वैकशतं गवाम् ॥
एतदेव व्रतं कृत्स्नं षण्मासाञ्शूद्रहा चरेत् ।
ऋषभैकादशा वाऽपि दद्याद्विप्राय गास्सिताः ॥' इति ॥ ४ ॥
स्त्रीषु चैतेषामेवम् ॥ ५ ॥
एतेषां क्षत्रियादीनां स्त्रीषु च हतासु एवमेव प्रायश्चित्तं यथा पुरुषेषु॥५॥
पूर्वयोर्वर्णयोर्वेदाध्यायं हत्वा सवनगतं वाऽभिशस्तः॥६॥
उक्तेषु यौ पूर्वौ वर्णौ क्षत्रियवैश्यौ तयोर्यो वेदाध्यायः अधीतवेदः तं
हत्वा अभिशस्तो भवति । अभिशस्त इति ब्रह्मघ्नोऽभिधानम् । सवनगतं वा, तयो-
रेव वर्णयोः यः सवनगतः सवनशब्देन न प्रातस्सवनादीन्युच्यन्ते,
नापि यागमात्रम् । किं तर्हि ? सोमयागः । तत्र यो दीक्षितः सवनगतः
‘ब्राह्मणो वा एष जायते यो दीक्षित’ इति दर्शनात् । तं च हत्वाऽभिश-
स्तो भवति । पूर्वयोर्वर्णयोरिति किम् ? ब्राह्मणे मा भूत् । इष्यते ब्राह्मणे ।
वक्ष्यति च ‘ब्राह्मणमात्रं चे’(२४.७.)ति । एवं तर्हि शूद्रे मा भूत् । न शूद्रो
वेदाध्यायः सवनगतो वा भवति । इदं तर्हि प्रयोजनं पूर्वयोर्वर्णयोरेव
यथा स्यात्तयोरेव यावनुलोमौ(१) करणाम्बष्ठौ तयोर्मा भूदिति । तेना-
न्ये वर्णधर्मा अनुलोमानामपि भवन्ति ॥ ६ ॥
ब्राह्मणमात्रं च ॥ ७ ॥
हत्वाऽभिशस्तो भवति । मात्रग्रहणान्नाऽभिजनविद्यासंस्काराद्यपेक्षा ॥
गर्भं च तस्याऽविज्ञातम् ॥ ८ ॥
तस्य ब्राह्मणमात्रस्य । गर्भं च स्त्रीपुन्नपुंसकभेदेनाऽविज्ञातम् । हत्वा-
भिशस्तो भवति ॥ ८ ॥
आत्रेयीं च स्त्रियम् ॥ ९ ॥
(२)‘ऋतुस्नातामात्रेयीमाहु’रिति वसिष्ठः । तस्येति वर्तते । आत्रेयीं च
ब्राह्मणस्त्रियं हत्वाऽभिशस्तो भवति । ब्रह्महा भवति । सम्भवत्यस्यां
ब्राह्मणगर्भ इति । अत्रिगोत्रजा आत्रेयीत्यन्ये ॥ ९ ॥
तस्य निर्वेषः ॥ १० ॥
१. इतरपुस्तकेषु “सवर्णाम्बष्ठौ” इत्येव पाठः । २. व. ध. १०. १४.
१४२ आपस्तम्बधर्मसूत्रे [ (प.९.)क. २४.
तस्य सर्वप्रकाराभिशस्तस्य निर्वेषः प्रायश्चित्तं वक्ष्यते ॥ १० ॥
अरण्ये कुटिं कृत्वा वाग्यतः शवशिरध्वजोऽर्धशा-
णीपक्षमधोनाभ्युपरिजान्वाच्छाद्य ॥ ११ ॥
कृत्वेति वचनान्न परकृता कुटी ग्राह्या । वाक् यता नियता येन स
वाग्यतः वाच्यमः । आहिताग्न्यादिषु दर्शनात् निष्ठान्तस्य परनिपातः ।
शवशिर- ध्वजो यस्य स शवशिरोध्वजः । सकारलोपश्छान्दसः । स्वव्या-
पादितस्य शिरो ध्वजदण्डस्याग्रे प्रोतं कृत्वेत्यर्थः।यस्य कस्य चिच्छवस्ये
त्यन्ये । शणस्य विकारः शाणी पटी तस्या अर्धमर्धशाणी तस्याः पक्ष
मर्धशाणीपक्ष आयामविस्तारयोरुभयोरप्यर्धम् । अधो नाभि उपरि जानु च यथा।
भवति तथा तावन्तं प्रदेशमाच्छाद्य । सापेक्षत्वात् 'ग्रामे प्रतिष्ठेत'
(२४.१४.)ति वक्ष्यमाणेन सम्बन्धः । मध्ये क्रियान्तरविधिः ॥ ११ ॥
तस्य पन्था अन्तरा वर्त्मनी ॥ १२ ॥
तस्य ग्रामं प्रविशतः वर्त्मनी अन्तरा शकटादेर्वर्त्मनोर्मध्ये पन्था वेदि-
तव्यः । अपर आह-यत्र रथ्याद्यावुभयोः पार्श्वयोर्वर्त्मनी भवतः तत्र
तयोर्मध्येन सूकरादिपथेन सञ्चरेदिति ॥ १२ ॥
दृष्ट्वा चाऽन्यमुत्क्रामेत् ॥ १३ ॥
अन्यमार्यं दृष्ट्वा पथ उत्क्रामेत् । तत्र कौटिल्यः(१) 'पञ्चारत्नयो रथपथ-
श्चत्वारो हस्तिपथः द्वौ क्षुद्रपशुमनुष्याणा'मिति । तेन मनुष्येषु द्वौ
हस्तावुत्क्रामेदिति ॥ १३ ॥
खण्डेन लोहितकेन शरावेण ग्रामे प्रतिष्ठेत ॥ १४ ॥
खर्परमात्रं खण्डम् । (२)लोहितकमनाप्रीतम् । एवम्भूतं शरावं भिक्षा-
पात्रं गृहीत्वा ग्रामे प्रतिष्ठेत । ग्रामं गच्छेत् ॥ १४ ॥
कोऽभिशस्ताय भिक्षामिति(३) सप्ताऽगारं चरेत् ॥१५॥
(४)अभिशस्तो ब्रह्महा । तस्मै मह्यं को धार्मिको भिक्षां ददातीति
उच्चैर्बुवाणः सप्तागाराणि चरेत् । सप्तग्रहणमधिकनिवृत्त्यर्थम् । द्वित्रेष्वेवा-
गारेषु यदि पर्याप्तं लभ्यते तदा तावत्येव ॥ १५ ॥
१. कौटि. अर्थ. २ ४. २२. २. लोहितं मनाक्ताम्रम् इति. क. पु.
३. सप्तागाराणि इति क. पु. ४. अभिशस्ते को धार्मिकः, इत्येव पाठः ग. पु.
ब्रह्महत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४३
सा वृत्तिः ॥ १६ ॥
सप्तस्वगारेषु या च यावती लभ्यते सैव वृत्तिः अपर्याप्ताऽपि ॥१६॥
अलब्धवोपवासः ॥ १७ ॥
यदि सप्तागारेषु न किञ्चिल्लभ्यते तदोपवास एव तस्मिन्नहनि ॥
गाश्च रक्षेत् ॥ १८ ॥
एवं प्रायश्चित्तं कुर्वन्नहरहर्गाश्च रक्षेत् ॥ १८ ॥
तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामेऽर्थः ॥ १९ ॥
तासां गवां निष्क्रमणसमये प्रवेशनासमये च द्वितीयो ग्रामेऽर्थः प्रयो-
जनम् । भिक्षार्थं प्रथममुक्तम् । नाऽन्यथा ग्रामं प्रविशेदित्युक्तं भवति ॥
द्वादश वर्षाणि(१) चरित्वा सिद्धः सद्भिस्सम्प्रयोगः ॥ २०॥
एवं द्वादश वर्षाणि व्रतमेतच्चरित्वा सद्भिः सम्प्रयोगः कर्तव्यः । सद्भिः सह
सम्प्रयुज्यते येन विधिना स कर्तव्यः । स शिष्टाचारे शाखान्तरे च सिद्धः
स उच्यते—कृतप्रायश्चित्तः स्वहस्ते यवसं गृहीत्वा गामाह्वयेत् । सा
यद्यागत्य श्रद्दधाना भक्षयति तदा सम्यगनेन व्रतं चरितमिति जानी-
यात् , अन्यथा नेति ॥ २० ॥
आजिपथे वा कुटिँ कृत्वा ब्राह्मणगव्योऽपजिगीषमाणो
वसेत्त्रिः प्रतिराद्धोऽपजित्य वा मुक्तः ॥ २१ ॥
सङ्ग्रामेण जेतव्या दस्यवो येन पथा ग्रामं प्रविश्य गवादिकमपहृ-
त्याऽपसरन्ति स आजिपथः । तस्मिन्वा कुर्टि कृत्वा वसेत् । किं चिकी-
र्षन् ? ब्राह्मणगव्यं•(२) 'वा छन्दसी'ति पूर्वसवर्णभावे यणादेशः । ब्राह्मण-
गवीरपजिगीषमाणः दस्यूनपजित्य प्रत्याहर्तुमिच्छन् । एव वसन्
दस्युभिर्ह्रियमाणं गवादिकमुद्दिश्य तैर्युद्धं कुर्वन् त्रिः प्रतिराद्धः तैरपजितः
अपजित्य वा तान् गवादिक प्रत्याहृत्य ब्राह्मणेभ्यो दत्त्वा मुक्तो भवति त-
स्मादेनसः । द्वादशवार्षिके प्रवृत्तस्येदम् । एवमुत्तरमपि ॥ २१ ॥
आश्वमेधिकं वाऽवभृथमवेत्य मुच्यते ॥ २२ ॥
अथ वाऽश्वमेधावभृथे स्नात्वा मुच्यते ॥ २२ ॥
१ 'व्रतमेतदिति अधिकं पुस्तके २. पा. सू ६. १. १०६.
१४४ आपस्तम्बधर्मसूत्रे [ (१९.)क. २४.
धर्मार्थसन्निपातेऽर्थग्राहिण एतदेव ॥ २३ ॥
धर्मस्याग्निहोत्रादेः, अर्थस्य च कुप्यकरणादेः (१) युगपद्यत्र सन्निपातः
तत्रोभयानुग्रहासम्भवे धर्मलोपेन योऽर्थं गृह्णाति तस्याऽप्येतदेव प्रायश्चि-
तम्। अथवा धर्मं हित्वाऽर्थहेतोः कौटसाक्ष्यादि करोति तद्विषयमेतत् ।
अत्र गौतमः—
(२)‘कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृताभिशंसनं महापातक-
समानी’ति । मनुरपि—
(३)‘अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्वन्धः समानि ब्रह्महत्यया’ ॥ इति ॥ २३ ॥
गुरुं हत्वा श्रोत्रियं वा कर्मसमाप्तमेतेनैव विधिनो-
त्तमादुच्छ्वासाच्चरेत् ॥ २४ ॥
गुरुः पित्राचार्यादिः । श्रोत्रियोऽधीतवेदः । स यदि कर्मसमाप्तो भ-
वति सोमान्तानि कर्माणि समाप्तानि यस्य स कर्मसमाप्तः। तौ हत्वा एतेनै-
वाऽनन्तरोक्तेन विधिना ओत्तमादुच्छ्वासात्। उत्तम उच्छ्वासः प्राणवियोगः।
आ तस्माच्चरेत् ॥ २४ ॥
नास्याऽस्मिँल्लोके प्रत्यापत्तिर्विद्यते॥ २५ ॥
अश्वमेधावभृथादिषु सम्भवत्स्वपि अस्याऽस्मिँल्लोके अस्मिन् जीविते
प्रत्यापत्तिः शुद्धिर्नास्तीत्यर्थः ॥ २५ ॥
कल्मषं तु निर्हण्यते ॥ २६ ॥
मृतस्य कल्मषं निर्हण्यते । (४)तेन पुत्रादिभिः संस्कारादिः कर्तव्य
इति भावः । अन्ये तु पूर्वं सूत्रं तन्निवृत्त्यर्थं मन्यन्ते । प्रत्यापत्तिः पुत्रा-
दिभिः पित्रादिभावेन सम्बन्ध इति ॥ २६ ॥
इति हरदत्तविरचितायामापस्तम्बसूत्रवृत्तौ चतुर्विंशी कण्डिका ॥२४॥
१. कुड्यकरणादेः इति नास्ति क. च. पु. २. गौ. ध. २०. ९.
३. म. स्मृ. ११. ५६.
४. तेन पुत्रादिभिस्सस्काराद्यौर्ध्वदेहिकाः कार्या इति भावः. इति ख. पु.
गुरुदारगमनप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४५
गुरुतल्पगामी सवृषणं शिश्नं परिवास्याऽञ्जलावा-
धाय दक्षिणां दिशमनावृत्तिं व्रजेत् ॥ १ ॥
गुरुरत्र पिता, नाऽऽचार्यादिः । तल्पशब्देन शयनवाचिना भार्या ल-
क्ष्यते । सा च साक्षाज्जननी(१) । न तत्सपत्नी । तां गत्वा सवृषणं साण्डं
शिश्नं परिवास्य क्षुरादिना छित्त्वाऽञ्जलावाधाय दक्षिणां दिशं व्रजेत् । अनावृत्तिम्
आवृत्तिर्न क्रियते यस्यां तां दिशमनावर्तमानो गच्छेत् । अथ ये(२) दक्षि-
णस्योदधेस्तीरे वसन्ति तेऽपि यावद्देशं गत्वा उदधिमेव प्रवेक्ष्यन्ति ।
मरणं ह्यत्र विवक्षितम् । अत्र संवर्तः-
(३)पितृदारान् समारुह्य मातृवर्जं नराधमः ।
भगिनीं मातृरासां वा स्वसारं वाऽन्यमातृजाम् ॥
एता गत्वा स्त्रियो मोहात्(४) तप्तकृच्छ्रं समाचरेत् ॥ इति ।
नारदस्त्व-
'माता मातृष्वसा श्वश्रूर्मार्तुलानी पितृष्वसा ।
(५)पितृव्यपत्नी शिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताऽऽचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ।
आसामन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्योत्कृन्तनं तत्र नाऽन्यो दण्डो विधीयते ॥ इति ॥ १ ॥
ज्वलितां वा सूर्मीं परिष्वज्य समाप्नुयात् ॥ २ ॥
आयसी ताम्रमयी वा अन्तस्सुषिरा स्त्रीप्रकृतिरत्र सूर्मीः । तां ज्व-
लितामग्नौ तप्ताम् । परिष्वज्य समाप्नुयात् समाप्तिं गच्छेत् म्रियेत ॥ २ ॥
सुरापोऽग्निस्पर्शां सुरां पिबेत् ॥ ३ ॥
'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।'
तस्याः पाता सुरापः । सः अग्निस्पर्शां (६)अग्निकथितां सुरां पिबेत् ।
तया दग्धकायः शुद्ध्यति ॥ ३ ॥
स्तेनः प्रकीर्णकेशोऽसे मुसलमाधाय राजानं गत्वा
कर्माऽऽचक्षीत । तेनैनं हन्याद्वधे मोक्षः ॥ ४ ॥
१. तत्सपत्नी वा इति ग. पु. २. अथेति नास्ति ग. पु.
३. संव. स्मृ. १५८. १५९. ४ तप्तकृच्छ्रान् षडाचरेत् , इति. छ. पु.
५. पितृव्यसखिशिष्यस्त्री इति. क. पु. ६. अतिशंपिता, इति. ख. ग. पु.
आप० ध० १९
१४६ आपस्तम्बधर्मसूत्रे [(प्र. १.) क. २५.
स्तेनो ब्राह्मणस्वर्णहारी । अंसे स्वे स्कन्धे । मुसलमाधाय आयसं खा-
दिरं वा धारयन् । राजानं गत्वा कर्माऽऽचक्षीत-एवंकर्माऽस्मि, शाधि मामि-
ति। स तेन मुसलेन एन स्तेनं हन्यात् , यथा मृतो भवति ।(१)वधेन स्ते
यान् मोक्षो भवति ॥ ४ ॥
अनुज्ञातेऽनुज्ञातारमेनः स्पृशति ॥ ५ ॥
यदि राजा दयादिना तमनुजानीयात् गच्छेति, तदा तमनुज्ञातारं रा
जानमेव तदेनः स्पृशति ॥ ५ ॥ उत्तरमृजु ॥ ६ ॥
अग्निं वा प्रविशेत् ॥ ६ ॥
तीक्ष्णं वा तप आयच्छेत् ॥ ७ ॥
तीक्ष्ण तप. महापराकादि । तद्वा आयच्छेत आवर्तयेत् ॥ ७ ॥
भक्तापचयेन वाऽऽत्मानं समाप्नुयात् ॥ ८ ॥
भक्तमन्नम् । तस्याऽपचयो ह्रासः । प्रथमे दिने यावन्तो ग्रासाः ते
एकेन न्यूना द्वितीये । एवं तृतीयादिष्वपि आ एकस्माद्ग्रासात् । त-
त्रापि यदि न समाप्तिः ततस्तत्रैव ग्रासपरिमाणापचयः कर्त्तव्यः ।
एवं भक्तापचयेनाऽऽत्मानं समाप्नुयात् समापयेत् ॥
कृच्छ्रसंवत्सरं वा चरेत् ॥ ९ ॥
अथ वा संवत्सरमेकं नैरन्तर्येण कृच्छ्रांश्चरेत् । एषामेनस्सु गुरुषु गुरू-
णि, लघुषु लघूनीति व्यवस्था ॥ ९ ॥
अथाऽप्युदाहरन्ति ॥ १० ॥
अस्मिन्नेव विषये पुराणश्लोकमप्युदाहरन्तीत्यर्थः ॥ १० ॥
स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्मह-
त्यामकृत्वा । चतुर्थकाला मितभोजिनः स्यु(२)रपोऽभ्य-
वेयुः सवनानु कल्पम् । स्थानासनाभ्यां विहरन्त एते
त्रिभिर्वर्षैरप पापं नुदन्ते ॥ ११ ॥
ब्रह्महत्याव्यतिरिक्तानि स्तेयादीनि कृत्वा चतुर्थकालाश्चतुर्थो भोजन-
१. वधे सति स्तेनस्य मोक्षो मुक्तिर्भवत्येनसो नान्यथा इति. क च. पु.
२ अपोऽभ्युपेयुः इति. क छ पु.
कालो येषाम् । यथा-अद्य दिवा भुङ्क्ते श्वो नक्तमिति, ते तथोक्ताः ।
तथापि मितभोजिन. न मृष्टाशिनः । (१)अपोऽभ्यवेयुः भूमिगतास्वप्सु
स्नानं कुर्युः । सवनानुकल्पं, यथा सवनानि प्रातःसवनादीन्यनुक्लृप्तानि
अनुसृतान्यनुष्ठितानि भवन्ति तथा(२) त्रिषवणमित्यर्थः । तिष्ठेयुरहनि,
रात्रावासीरन् । एवं स्थानासनाभ्यां विहरन्तः कालक्षेपं कुर्वन्तः । एते त्रिभि-
र्वर्षैस्तत्पापमपनुदन्ते ॥ ११ ॥
प्रथमं वर्णं परिहाप्य प्रथमं वर्णं हत्वा सङ्ग्रामं
गत्वाऽवतिष्ठेत तत्रैनं हन्युः ॥ १२ ॥
प्रथमो वर्णो ब्राह्मणः । तं हत्वा सङ्ग्रामं गत्वा सेनयोर्मध्येऽवतिष्ठेत । किं
सर्वे ? नेत्याह—प्रथम वर्णं परिहाप्य ब्राह्मणवर्जमितरो वर्णः क्षत्रियादिरि-
त्यर्थः । तत्र स्थितमेनं ते सैनिका हन्यु, त एनं हत विद्ध्युः । अघ्नन्त
एनस्विनः स्युः, यथा राजा स्तेनम् । स मृतश्शुद्ध्यति ॥ १२ ॥
अपि वा लोमानि त्वचं मांसमिति हावयि-
त्वाऽग्निं प्रविशेत् ॥ १३ ॥
अनन्तरोक्त एव विषये प्रायश्चित्तान्तरम् । इतिशब्दो लोहितादी
नामप्युपलक्षणार्थः । आत्मनो लोमादीन्युत्कृत्य पुरोहितेन हावयित्वा
होमं कारयित्वा पश्चात् स्वयं तस्मिन्नग्नौ प्रविशेत् , मृतः शुद्ध्यति ।
तत्राऽग्निमुपसमाधाय जुहुयात्(३) “लोमानि मृत्योर्जुहोमि, लोमभि-
र्मृत्यु वासये स्वाहा । त्वचं मृत्योर्जुहोमि त्वचा मृत्युं वासये स्वाहा ॥
लोहितं मृत्योर्जुहोमि लोहितेन मृत्युं वासये स्वाहा । स्नावानि मृत्यो
र्जुहोमि स्नावभिर्मृत्यु वासये स्वाहा। मांसानि मृत्योर्जुहोमि मांसैर्मृ-
त्युं वासये स्वाहा । अस्थीनि मृत्योर्जुहोमि अस्थभिर्मृत्युं वासये स्वा-
हा । मज्जानं मृत्योर्जुहोमि मज्जभिर्मृत्युं वासये स्वाहा । मेदो मृत्योर्जु
होमि मेदसा मृत्युं वासये स्वाहा” ।इत्येते मन्त्राः वसिष्ठेन पठिताः ॥१३॥
वायसप्रचलाकबर्हिणचक्रवाकहंसभासमण्डूकनकुल-
डेरिकाश्वहिंसायां शूद्रवत्प्रायश्चित्तम् ॥ १४ ॥
१. अपोऽभ्युपेयुः इति. क छ, पु,
२. सोमयागे प्रातर्मंध्यान्दिने सायमिति त्रिषु कालेषु प्रातःसवन, माध्यन्दिनं सवनं,
तृतीयसवनं, इति सवनत्रयमन्स्यूततयाऽनुष्ठीयते तद्वत् कालत्रयेऽपि स्नान कुर्युंरित्यर्थः ।
३. व. ध. २०. २६.
१४८ आपस्तम्बधर्मसूत्रे [(प्र.१.)क.२६.
वायसः काकः । प्रचलाकः कामरूपी कृकलासः । बर्हिणो मयूरः । चक्रवा-
को दिवा मिथुनचर , रात्रौ विरही । हंसो मानसवासी। भासो गृध्रविशेषः ।
नकुलमण्डूकादय. प्रसिद्धाः । डेरिका गन्धमूषिका । एतेषां समुदितानां वधे
शूद्रवत्प्रायश्चित्तम् । प्रत्येक वधे तु कल्प्यम् । केचित् प्रत्येक वध एत-
त्प्रायश्चित्तमित्याहुः ॥ १४ ॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने पञ्चविंशी कण्डिका ॥ २५ ॥
धेन्वनडुहोश्चाऽकारणात् ॥ १ ॥
धेनुः पयस्विनी गौः । अनड्वान् अनोवहनयोग्यो बलीवर्दः । तयोः
कारणमन्तरेण हिंसायां शूद्रवत्प्रायश्चित्तं कर्तव्यम् । कारणं कोपो मांसे-
च्छा वा । ताभ्यां विना, अबुद्धिपूर्वमित्यर्थः । बुद्धिपूर्वे तु(१) 'गाञ्च
वैश्यव' दित्यादि स्मृत्यन्तरे द्रष्टव्यम् ॥ १ ॥
धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् ॥ २ ॥
धुरं वहतीति धुर्यो बलीवर्दः । तेन वोढु शक्या धुर्यवाहाः। तावत्सु
हिंसायाः प्रवृत्तौ सत्याम् । इतरेषा प्राणिना केवल प्राणा एव येषां नाऽस्थीनि
तेषां हिंसायां शूद्रवत्प्रायश्चित्तमिति। अत्र गौतमः(२) 'अस्थन्वतां सहस्रं
हत्वा अनस्थिमतामनुड्डारे चे'ति ॥ २ ॥
अनाक्रोशश्चाक्रुश्याऽनृतं वोक्त्वा त्रिरात्रमक्षी-
राक्षारलवणभोजनम् ॥ ३ ॥
येन यो न कथञ्चनाऽऽक्रोशमर्हति स पित्राचार्यादिरनाक्रोश्यः । तमा-
क्रुश्य अनृतं वोक्त्वा पातकोपातकवर्जं, त्रिरात्र क्षीरादि भोजने वर्जयेत् । क्षी-
रग्रहणेन तद्विकाराणां दध्यादीनामपि(३) ग्रहणमित्याहुः ॥ ३ ॥
शूद्रस्य सप्तरात्रमभोजनम् ॥ ४ ॥
शूद्रस्त्वनन्तरोक्तविषये सप्तरात्रमुपवसेत् ॥ ४ ॥
स्त्रीणां चैवम् ॥ ५ ॥
'क्षत्रियं हत्वे' (२४. १.) त्यादिषु अनृतवचनान्तेषु निमित्तेषु यानि
१ गौ. ध. २३. १८. २. गौ. ध. २३. २०. ३. वर्जनमाहु. इति क. पु
अपतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४९
प्रायश्चित्तान्युक्तानि तानि स्त्रीणामप्येवमेव कर्तव्यानि । एतत् 'चत्वारो
वर्णा' इति जात्याभिधानादेव (१) प्राप्तं सन्निषेधार्थमुच्यते—अत ऊर्ध्वं
पुरुषस्यैव न स्त्रीणामिति । अपर आह—जात्याभिधानादेव सिद्धे अ-
तिदेशार्थं वचनम् । अतिदेशेषु चार्धं प्राप्यते इति स्मार्तो न्यायः । तेन
स्त्रीणामर्धप्राप्त्यर्थं वचनमिति । तथा च भार्गवः—
अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च ॥' इति ॥ ५ ॥
येष्वाभिशस्त्यं तेषामेकाङ्गं छित्त्वाऽप्राणिहिंसायाम् ॥६॥
येषु हतेषु 'सवनगत वाऽभिशस्त, (२४.९) इत्यादिना अभिशस्तत्वमुक्तं
तेषामेकाङ्गं छित्वा शूद्रवत्प्रायश्चित्तं कुर्यात् । अप्राणिहिंसाया यदि छेदनेन
तस्याङ्गस्य शक्ति(२)र्न हन्यते ॥ ६ ॥
(३)अनार्यवपैशुनप्रतिषिद्धाचारेष्वभक्ष्याभोज्यापेयप्राशने
शूद्रायां च रेतस्सिक्त्वाऽयोनौ च दोषवच्च कर्मा-
भिसन्धिपूर्वं कृत्वाऽनाभिसन्धिपूर्वं वाऽब्लिङ्गा-
भिरप उपस्पृशेद्वारुणीभिर्वाऽन्यैर्वा पवि-
त्रमन्त्रैर्यथा कर्माभ्यासः ॥ ७ ॥
आर्याणां भाव आर्यम् । तद्यस्मिन्नाचारेऽस्ति तदार्यवम् । मतुबर्थीयो
वप्रत्ययः । ततोऽन्यदनार्यवम् । असत्यभाषणादि । पैशुनं परदोषकथनं
राजगानि प्रतिषिद्धाचारः 'ष्ठीवनमैथुनयोः कर्माऽप्सु वर्जये' (३०.१९) दित्या-
देरनुष्ठानम् । अभक्ष्यं वृथाकृसरादि । अभोज्यं केशकीटद्युपहतम् । अपेयम्
अनिर्दशायाः गोः क्षीरादि । एतेषां प्राशने । शूद्राया च वेश्याप्रभृतौ
रेतः सिक्त्वा । अयोनौ च जलादौ रेतः सिक्त्वा । दोषवच्च कर्म श्रौतमाभिचा-
रिकम् । अभिसन्धिपूर्वं बुद्धिपूर्वं कृत्वा । अनभिसन्धिपूर्वं वा परपीडादिकरं
कर्म कृत्वा । अब्लिङ्गाभिः(४) “आपो हिष्ठा मयोभुव' इति तिसृभि(५) हिरण्य
१. प्रायश्चित्तं प्राप्तम् . तन्नियम' इति क. पु. २. न भज्यते इति घ. पु. ।
३. गौतमीये २६. १५. सूत्रं द्रष्टव्यम् ।
४. तै. ५ ६. १०. यो वश्शिवतमो रस०, तस्मा अरं गमाम व , इत्याग्रिमे ऋचौ ।
५. तै. सं. ६ ६ १ यासा राजा वरुणः, यासा देवा दिवि, शिवेन मा चक्षुषा,
इत्याग्रिमं ऋक्त्रयम् ।