सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 154, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 154

ब्रह्महत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४३
सा वृत्तिः ॥ १६ ॥
सप्तस्वगारेषु या च यावती लभ्यते सैव वृत्तिः अपर्याप्ताऽपि ॥१६॥
अलब्धवोपवासः ॥ १७ ॥
यदि सप्तागारेषु न किञ्चिल्लभ्यते तदोपवास एव तस्मिन्नहनि ॥
गाश्च रक्षेत् ॥ १८ ॥
एवं प्रायश्चित्तं कुर्वन्नहरहर्गाश्च रक्षेत् ॥ १८ ॥
तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामेऽर्थः ॥ १९ ॥
तासां गवां निष्क्रमणसमये प्रवेशनासमये च द्वितीयो ग्रामेऽर्थः प्रयो-
जनम् । भिक्षार्थं प्रथममुक्तम् । नाऽन्यथा ग्रामं प्रविशेदित्युक्तं भवति ॥
द्वादश वर्षाणि(१) चरित्वा सिद्धः सद्भिस्सम्प्रयोगः ॥ २०॥
एवं द्वादश वर्षाणि व्रतमेतच्चरित्वा सद्भिः सम्प्रयोगः कर्तव्यः । सद्भिः सह
सम्प्रयुज्यते येन विधिना स कर्तव्यः । स शिष्टाचारे शाखान्तरे च सिद्धः
स उच्यते—कृतप्रायश्चित्तः स्वहस्ते यवसं गृहीत्वा गामाह्वयेत् । सा
यद्यागत्य श्रद्दधाना भक्षयति तदा सम्यगनेन व्रतं चरितमिति जानी-
यात् , अन्यथा नेति ॥ २० ॥
आजिपथे वा कुटिँ कृत्वा ब्राह्मणगव्योऽपजिगीषमाणो
वसेत्त्रिः प्रतिराद्धोऽपजित्य वा मुक्तः ॥ २१ ॥
सङ्ग्रामेण जेतव्या दस्यवो येन पथा ग्रामं प्रविश्य गवादिकमपहृ-
त्याऽपसरन्ति स आजिपथः । तस्मिन्वा कुर्टि कृत्वा वसेत् । किं चिकी-
र्षन् ? ब्राह्मणगव्यं•(२) 'वा छन्दसी'ति पूर्वसवर्णभावे यणादेशः । ब्राह्मण-
गवीरपजिगीषमाणः दस्यूनपजित्य प्रत्याहर्तुमिच्छन् । एव वसन्
दस्युभिर्ह्रियमाणं गवादिकमुद्दिश्य तैर्युद्धं कुर्वन् त्रिः प्रतिराद्धः तैरपजितः
अपजित्य वा तान् गवादिक प्रत्याहृत्य ब्राह्मणेभ्यो दत्त्वा मुक्तो भवति त-
स्मादेनसः । द्वादशवार्षिके प्रवृत्तस्येदम् । एवमुत्तरमपि ॥ २१ ॥
आश्वमेधिकं वाऽवभृथमवेत्य मुच्यते ॥ २२ ॥
अथ वाऽश्वमेधावभृथे स्नात्वा मुच्यते ॥ २२ ॥
१ 'व्रतमेतदिति अधिकं पुस्तके २. पा. सू ६. १. १०६.