आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 155, कुल 399 में से
संदर्भ में पढ़ें१४४ आपस्तम्बधर्मसूत्रे [ (१९.)क. २४.
धर्मार्थसन्निपातेऽर्थग्राहिण एतदेव ॥ २३ ॥
धर्मस्याग्निहोत्रादेः, अर्थस्य च कुप्यकरणादेः (१) युगपद्यत्र सन्निपातः
तत्रोभयानुग्रहासम्भवे धर्मलोपेन योऽर्थं गृह्णाति तस्याऽप्येतदेव प्रायश्चि-
तम्। अथवा धर्मं हित्वाऽर्थहेतोः कौटसाक्ष्यादि करोति तद्विषयमेतत् ।
अत्र गौतमः—
(२)‘कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृताभिशंसनं महापातक-
समानी’ति । मनुरपि—
(३)‘अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्वन्धः समानि ब्रह्महत्यया’ ॥ इति ॥ २३ ॥
गुरुं हत्वा श्रोत्रियं वा कर्मसमाप्तमेतेनैव विधिनो-
त्तमादुच्छ्वासाच्चरेत् ॥ २४ ॥
गुरुः पित्राचार्यादिः । श्रोत्रियोऽधीतवेदः । स यदि कर्मसमाप्तो भ-
वति सोमान्तानि कर्माणि समाप्तानि यस्य स कर्मसमाप्तः। तौ हत्वा एतेनै-
वाऽनन्तरोक्तेन विधिना ओत्तमादुच्छ्वासात्। उत्तम उच्छ्वासः प्राणवियोगः।
आ तस्माच्चरेत् ॥ २४ ॥
नास्याऽस्मिँल्लोके प्रत्यापत्तिर्विद्यते॥ २५ ॥
अश्वमेधावभृथादिषु सम्भवत्स्वपि अस्याऽस्मिँल्लोके अस्मिन् जीविते
प्रत्यापत्तिः शुद्धिर्नास्तीत्यर्थः ॥ २५ ॥
कल्मषं तु निर्हण्यते ॥ २६ ॥
मृतस्य कल्मषं निर्हण्यते । (४)तेन पुत्रादिभिः संस्कारादिः कर्तव्य
इति भावः । अन्ये तु पूर्वं सूत्रं तन्निवृत्त्यर्थं मन्यन्ते । प्रत्यापत्तिः पुत्रा-
दिभिः पित्रादिभावेन सम्बन्ध इति ॥ २६ ॥
इति हरदत्तविरचितायामापस्तम्बसूत्रवृत्तौ चतुर्विंशी कण्डिका ॥२४॥
१. कुड्यकरणादेः इति नास्ति क. च. पु. २. गौ. ध. २०. ९.
३. म. स्मृ. ११. ५६.
४. तेन पुत्रादिभिस्सस्काराद्यौर्ध्वदेहिकाः कार्या इति भावः. इति ख. पु.