सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 149, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 149

१३८ आपस्तम्बधर्मसूत्रे [(प.८.) क.२३.
मानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्य-
नुतिष्ठन् विधिना (१)सार्वगामी भवति ॥ १४ ॥ ६ ॥
विवरणम् ।
अक्रोधोऽहर्षः इत्येवमाद्या अयोगविपरीताः । अतस्ते समाधिलक्षण-
त्वाद् योगाः । संविभागः आत्मनो यात्रासाधनस्याऽर्थिभ्यः संविभजनम् ।
त्यागः दृष्टादृष्टभोगानां शक्तितः परित्यजम्, तत्साधनानां च ।
आर्जवम् ऋजुता, अदुष्टाकलनपूर्विका वाङ्मनःकायानां प्रवृत्तिः । मार्दवं
मृदुत्वम् । शमोऽन्तःकरणोपशमः । दमो बाह्यकरणापेशमः । इदमन्यद्
योगलक्षणं संक्षेपत उच्यते-सर्वभूताविरोधो योगः, विरोधे हि भूतानां
पीडा, तदभावेऽपीडा । स एव सर्वभूतापीडालक्षणो योगः ।
आर्यम् आर्याणां भावः अक्षुद्रता । आनृशंसम् आनृशंस्यम् , अक्रौर्यम् ।
तुष्टिः लब्धव्यस्याऽलाभेऽपि चेतसः प्रसन्नतयाऽवस्थानं लाभ इव । सर्व-
भूताविरोलक्षणांहिसा परिव्राजकस्यैव संभवतीत्यार्यादीनां त्रया-
णामन्येषां चाऽविरुद्धानां सर्वाश्रमान् प्रति प्राप्तिरितीतिशब्दसाम-
र्थ्याद्, इतिशब्दस्य च प्रकारवचनत्वादार्यादीनीत्थंप्रकाराणि सर्वाश्र-
मान् प्रति गमयति सर्वाश्रमाणां समयपदानिति । समयस्थानानीत्ये-
तत् । अवश्यमनुष्ठेयानीत्यर्थः । तान्येतानि यथोक्तान्यनुतिष्ठन् विधिना
सार्वगामी सर्वगमनशीलः, ज्ञानाभिव्यक्तिकमेण । भवति मुच्यते इत्यर्थः ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीशङ्करभगवत्पादाचार्यस्य कृतिषु
आपस्तम्बीयधर्मशास्त्राध्यात्मपटलविवरणम् ॥ ॐ
उज्ज्वला ।
के पुनस्ते योगाः ? तानाह—
एते चाऽक्रोधादयोऽपि भावरूपाः न क्रोधाद्यभावमात्रम् , क्रोधादिनि-
र्घातहेतुतयोपदेशात् । के पुनस्ते ? अक्रोधः, क्रोधादिषु प्रसक्तेष्वपि
मा कार्षमिति सङ्कल्पः । अहर्षः, इष्टलाभालाभेषु चेतस ऐकरूप्यम् ।
अरोधः मित्रादिषु प्रतिकूलेष्वपि मनोविकाराभावः । अलोभः सन्तो-
षोऽलम्बुद्धिः । अमोहोऽवधानम् । अदम्भो धर्मानुष्ठानम् । अद्रोहः परेष्व-
पकारिष्वप्यनपकारः । अनसूया परगुणेष्वभिमोदनम् । सत्यवचनं यथा-