सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 151, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 151

अथ नवमः पटलः ॥
क्षत्रियं हत्वा गवां सहस्रं वैरयातनाथं दद्यात् ॥ १ ॥
क्षत्रियं हत्वा गवां सहस्रं ब्राह्मणेभ्यो दद्यात् । किमर्थम् ? वैरयातनाथं वैरं पाप
तस्य यातनं निर्हरणं तदर्थम् "ऋषभश्चात्राऽधिकः सर्वत्र प्रायश्चित्ता-
र्थ" (२४. ४) इति वक्ष्यति । तेन प्रायश्चित्तरूपमिदं दानम् । प्रायश्चित्तं
च पापक्षयार्थम् । तत्किमर्थं वैरयातनाथमित्युच्यते ? केचिन्मन्यन्ते-
नाऽभुक्तं क्षीयते कर्म पुण्यमपुण्यं च । प्रायश्चित्तं तु नैमित्तिकं कर्मान्तरं
(१) यथा गृहदाहादौ क्षामवत्यादय इति । तन्निराकर्तुमिदमुक्तम् ।
श्रौतेऽप्युक्तं-(२) 'दोषंनिघातार्थानि भवन्ती'ति । अपर आह-यो येन
हन्यते स हतो म्रियमाणस्तस्मिन्वैरं करोति-अपि नामाऽहमेनं
जन्मान्तरेऽपि वध्यासमिति । तस्य वैरस्य यातनाथमिदमिति प्रायश्चि-
त्तार्थत्वमपि वक्ष्यमाणेन सिद्धमिति ॥ १ ॥
शतं वैश्ये ॥ ३ ॥
वैश्ये हते गवां शतं दद्यात् ॥ २ ॥
दश शूद्रे ॥ ३ ॥
शूद्रे हते दश दद्यात् । गा इति प्रकरणाद्गम्यते ॥ ३ ॥
ऋषभश्चाऽत्राधिकः सर्वत्र प्रायश्चित्तार्थः ॥ ४ ॥
सर्वेष्वेतेषु निमित्तेषु ऋषभोऽप्यधिको देयः । न केवलं गा एव ।
इदं प्रायश्चित्तत्रयं मानवेन समानविषयम् । यथाऽऽह-
(३) अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ।
ऋषभैकसहस्रा गा दद्याच्छुद्ध्यर्थमात्मनः ॥
त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ।
वसन् दूरतरे ग्रामाद्वृक्षमूलनिकेतनः ॥
१. 'यस्य गृहान् दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत् भागधेयेनैवैनं
शमयति नाऽस्याऽपरं गृहान् दहति' (तै.स. २. २. २.) इति विहिता आहिताग्नेर्यजमानस्य
गृहे दग्धे तादृशगृहदाहनिमित्तका क्षामवदग्निदेवताकेष्टिः क्षामवतीष्टिः ।
२. आप० श्रौ० ९. १. ४ ३. म. स्मृ. ११. १२७-१३०