आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 156, कुल 399 में से
संदर्भ में पढ़ेंगुरुदारगमनप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४५
गुरुतल्पगामी सवृषणं शिश्नं परिवास्याऽञ्जलावा-
धाय दक्षिणां दिशमनावृत्तिं व्रजेत् ॥ १ ॥
गुरुरत्र पिता, नाऽऽचार्यादिः । तल्पशब्देन शयनवाचिना भार्या ल-
क्ष्यते । सा च साक्षाज्जननी(१) । न तत्सपत्नी । तां गत्वा सवृषणं साण्डं
शिश्नं परिवास्य क्षुरादिना छित्त्वाऽञ्जलावाधाय दक्षिणां दिशं व्रजेत् । अनावृत्तिम्
आवृत्तिर्न क्रियते यस्यां तां दिशमनावर्तमानो गच्छेत् । अथ ये(२) दक्षि-
णस्योदधेस्तीरे वसन्ति तेऽपि यावद्देशं गत्वा उदधिमेव प्रवेक्ष्यन्ति ।
मरणं ह्यत्र विवक्षितम् । अत्र संवर्तः-
(३)पितृदारान् समारुह्य मातृवर्जं नराधमः ।
भगिनीं मातृरासां वा स्वसारं वाऽन्यमातृजाम् ॥
एता गत्वा स्त्रियो मोहात्(४) तप्तकृच्छ्रं समाचरेत् ॥ इति ।
नारदस्त्व-
'माता मातृष्वसा श्वश्रूर्मार्तुलानी पितृष्वसा ।
(५)पितृव्यपत्नी शिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताऽऽचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ।
आसामन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्योत्कृन्तनं तत्र नाऽन्यो दण्डो विधीयते ॥ इति ॥ १ ॥
ज्वलितां वा सूर्मीं परिष्वज्य समाप्नुयात् ॥ २ ॥
आयसी ताम्रमयी वा अन्तस्सुषिरा स्त्रीप्रकृतिरत्र सूर्मीः । तां ज्व-
लितामग्नौ तप्ताम् । परिष्वज्य समाप्नुयात् समाप्तिं गच्छेत् म्रियेत ॥ २ ॥
सुरापोऽग्निस्पर्शां सुरां पिबेत् ॥ ३ ॥
'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।'
तस्याः पाता सुरापः । सः अग्निस्पर्शां (६)अग्निकथितां सुरां पिबेत् ।
तया दग्धकायः शुद्ध्यति ॥ ३ ॥
स्तेनः प्रकीर्णकेशोऽसे मुसलमाधाय राजानं गत्वा
कर्माऽऽचक्षीत । तेनैनं हन्याद्वधे मोक्षः ॥ ४ ॥
१. तत्सपत्नी वा इति ग. पु. २. अथेति नास्ति ग. पु.
३. संव. स्मृ. १५८. १५९. ४ तप्तकृच्छ्रान् षडाचरेत् , इति. छ. पु.
५. पितृव्यसखिशिष्यस्त्री इति. क. पु. ६. अतिशंपिता, इति. ख. ग. पु.
आप० ध० १९