सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

६०४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
का पुनरनुपश्यना ? प्रज्ञा । तथा हि तद्वाननुपश्यः क्रियते । यतश्चोक्तम्
"अध्यात्मं काये कायानुपश्यी विहरति" इति । अनुपश्यमस्यास्ति दर्शनमित्य-
नुपश्यी, कायेऽनुपश्यी कायानुपश्यी ।
कस्मात् प्रज्ञा 'स्मृत्युपस्थानम्' इत्युक्ता भगवता ? स्मृत्युद्रेकत्वादिति
वैभाषिकाः । स्मृतिबलाधानवृत्तित्वादिति योऽर्थः । दारुपाटकीलसन्धारणवत्¹ ।
एवं तु युज्यते—स्मृतिरनयोपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञा; यथा-
तया हि प्रज्ञया तद्वान् प्रज्ञावान् । अनुपश्यः क्रियत इति । अनुपश्यती-
त्यनुपश्यः । "पाघ्राध्माधेट्दृशः शः" (पा० सू० ३.१.१३७) इति
शप्रत्ययः । अनुपश्यं पुद्गलं करोतीत्यनुपश्ययति । प्रज्ञास्वभावे त्वेवं विग्रहः—
अनुपश्यस्य करणमनुपश्यनेति । तया हि प्रज्ञया तद्वान् प्रज्ञावाननुपश्यः
क्रियते । यथा प्रज्ञायोगात् प्राज्ञः पुद्गल उच्यते, एवमनुपश्यनायोगादनुपश्य
इष्यतेऽनुपश्यना प्रज्ञेति सिद्धम् । यतश्चोक्तं भगवता—अध्यात्मं प्रत्यात्मं
काये कायानुपश्यी कायानुदर्शी विहरतीति । तेनापि ज्ञायतेऽनुपश्यना प्रज्ञेति ।
कथमिति ? साधयति—अनुपश्यमस्यास्ति । किं तद् ? दर्शनम् । दर्शन-
लक्षणं ह्यनुपश्यम् । अतोऽनुपश्यी पुद्गलः, दण्डिवत् । ततः सप्तमीतत्पुरुषः—
कायेऽनुपश्यी कायानुपश्यीति । कायमनुपश्यितुं शीलमस्येति कायानुपश्यीति
णिनिरपि (पा० सू० ३.२.७८) यदि विधीयेत, तथाप्येतद्रूपं सिद्ध्यतीति
पश्यामः ।
स्मृत्युद्रेकत्वादिति । स्मृत्यधिकत्वादित्यर्थः । स्मृतिबलाधानवृत्तित्वादिति ।
बलस्याधानम् स्मृतेर्बलाधानं स्मृतिबलाधानम्, स्मृतिबलाधानेन वृत्तिरस्या
इति स्मृतिबलाधानवृत्तिः प्रज्ञा, तद्भावः तस्मात् । दारुपाटकीलसन्धारणवत् ।
यथा दारुपाटेन तीक्ष्णकीलेन दारुपाटस्य सन्धारणम्, एवमस्याः प्रज्ञायाः
स्मृतिबलाधानेनालम्बने वृत्तिरिति । यदि हि स्मृतिरालम्बनं धारयत्येवं प्रज्ञा
प्रजानातीति, तदेवं स्मृत्योपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञेति वैभाषीकीयोऽर्थः ।
“कृत्यल्युटो बहुलम्” (पा०सू० ३.३.११३) इति कर्त्तर्यपि ल्युड् भवतीति ।
एवं तु युज्यत इत्याचार्यः । करणसाधनमेतत् । स्मृतिरनयोपतिष्ठत
इति । अर्थप्रदर्शनमात्रमेतत् । विग्रहस्त्वेवं कर्तव्यः—उपतिष्ठतेऽनेनेत्यु-
पस्थानम्, स्मृतेरुपस्थानं स्मृत्युपस्थानमिति । कथं स्मृतिरनयोपतिष्ठते ?
१. °पाटन०—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६०५
दृष्टस्याभिलपनात् । तद्यथा ह्युक्तमायुष्मता अनिरुद्धेन—“तस्य काये कायानु-
पश्यिनो विहरतः कायालम्बनानुस्मृतिस्तिष्ठति सन्तिष्ठते” इति विस्तरः ।
भगवताऽपि चोक्तम्—“तस्य काये कायानुपश्यिनो विहरत उपस्थिता
स्मृतिर्भवत्यसम्मूढा” इति ।
यत्र तूक्तम्-“कथं भिक्षवश्चतुर्णां स्मृत्युपस्थानानां समुदायश्च भवत्यस्त-
ङ्गमश्च । आहारसमुदयात् कायस्य समुदयो भवति, आहारनिरोधात् कायस्या-
स्तङ्गमः” इति । अत्रालम्बनमेव स्मृत्युपस्थानमुक्तम्, स्मृतिरत्रोपतिष्ठत इति
कृत्वा । यथालम्बनं चैषां नाम स्वपरोभयसन्तत्यालम्बनत्वात् प्रत्येकमेषां त्रैविध्यम् ।
इत्याह—यथादृष्टस्याभिलपनादिति । यस्माद् यथादृष्टोऽर्थः प्रज्ञया, तथैवाभि-
लप्यते । स्मृत्यो

६०६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
क्रमः ।
यथोत्पत्ति,
कस्मात् पुनरेवमुत्पत्तिः ? औदारिकस्य पूर्वं दर्शनात् । यतो वा कामरागस्य
कायोऽधिष्ठानम्, स च वेदनाभिलाषात्, स च चित्तस्यादान्तत्वात्, तत् क्लेशा-
प्रहाणादिति वैभाषिकाः ।
चतुष्कं तु विपर्यासविपक्षतः ।। १५ ।।
शुचिसुखनित्यात्मविपर्यासानां चतुर्णां प्रतिपक्षेण चत्वारि स्मृत्युपस्थानान्यु-
क्तानि यथाक्रमम्, नाधिकन्यूनतानि । एवं च त्रीण्यसम्भिन्नलम्बनानि, चतुर्थमुभयथा ।
यदि धर्मानेव पश्यत्यसम्भिन्नालम्बनम्, अथ कायादीनां द्वे त्रीणि चत्वारि वा
समस्तानि पश्यति सम्भिन्नालम्बनम् ।। १५ ।।
सन्तत्यालम्बनत्वाच्च प्रत्येकमेकैकश एषां कायस्मृत्युपस्थानादीनां त्रैविध्यं भवति ।
सूत्रे वचनात् । कथम् ? "अध्यात्मं काये कायानुपश्यी विहरति, आतापी सम्प्र-
जानन् स्मृतिमान् विनीय लोकेऽभिध्यादौर्मनस्ये । बहिर्धा काये कायानुपश्यी
विहरति आतापीति पूर्ववत् । अध्यात्मबहिर्धा काये कायानुपश्यी विहरतीति
पूर्ववत् । एवं तावत् कायस्मृत्युपस्थानस्य त्रैविध्यम् । वेदनास्मृत्युपस्थानादीना-
मप्यध्यात्मं वेदनायां वेदनानुपश्यी विहरति" इति विस्तरेण त्रैविध्यं योज्यम् ।
औदारिकस्य पूर्वं दर्शनादिति । कायस्त्रिभ्य औदारिकः, षड्विज्ञानविज्ञेय-
त्वादिति तस्य पूर्वं दर्शनम् । द्वाभ्यां वेदना प्रकारौदारिकतयेति तदनन्तरं
तस्या दर्शनम् । सूक्ष्मप्रचारत्वाद् दुर्विज्ञतया धर्माः सूक्ष्मा इत्यतस्तेभ्यः पूर्वं
चित्तस्य दर्शनम् । अन्ते धर्माणामिति । स चेति । कामरागः । स च
चित्तस्येति । स वेदनाभिलाषः । तत् क्लेशप्रहाणात् । तददान्तत्वम् ।
यथाक्रममिति । शुचिविपर्यासस्य प्रतिपक्षेण कायस्मृत्युपस्थानम् । सुख-
विपर्यासस्य प्रतिपक्षेण वेदनास्मृत्युपस्थानम् । यत्किञ्चिद् वेदितमिदमत्र
दुःख्येति । नित्यविपर्यासस्य प्रतिपक्षेण चित्तस्मृत्युपस्थानम् ; चित्तस्य
लघुपरिवर्त्तित्वात् । आत्मविपर्यासस्य प्रतिपक्षेण धर्मस्मृत्युपस्थानम् । पिण्ड-
विभागतो धर्माणामनात्मकारित्वाद्धर्ममात्रं रहितमात्मनेति धर्मनिर्वचनतः । धर्मा
इमे पृथक्पृथगवस्थिताः । न च कश्चित् स्वतन्त्र आत्मेति । तद्दर्शनाद्वा ।
चतुर्थमुभयथेति । धर्मस्मृत्युपस्थानमसम्भिन्नालम्बनममिश्रालम्बनं भवति ।
कायवेदनाचित्तव्यतिरिक्तधर्मालम्बनत्वसम्भवात् । सम्भिन्नालम्बनमपि भवति ।
कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यतीति । यदि कायं वेदनां च

निर्देशः ] षष्ठं कोशस्थानम् ६०७
एवं कायाद्यालम्बनानि स्मृत्युपस्थानान्यभ्यस्य
स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः ।
अनित्यदुःखतः शून्यानात्मतस्तान् विपश्यति ॥ १६ ॥
सम्भिन्नालम्बने धर्मस्मृत्युपस्थाने स्थितस्तान् कायादीन् सर्वानभिसमस्य
चतुर्भिराकारैः पश्यति—अनित्यतः, दुःखतः, शून्यतः, अनात्मतश्च ॥ १६ ॥
तत ऊष्मगतोत्पत्तिः,
तस्माद्धर्मस्मृत्युपस्थानादेवमभ्यस्तात् क्रमेणोष्मगतं नाम कुशलमूलमुत्पद्यते ।
ऊष्मगतमिवोष्मगतम् ; क्लेशेन्धनदहनस्यार्यमार्गाग्नेः पूर्वरूपत्वात् ।
तच्चतुःसत्यगोचरम् ।
तदूष्मगतं प्राकर्षिकत्वाच्चतुःसत्यालम्बनम् ।
षोडशाकारम्,
दुःखं चतुर्भिराकारैः पश्यति-- अनित्यतः, दुःखतः, शून्यतः, अनात्मतश्च ।
समुदयं चतुर्भिः--हेतुतः, समुदयतः, प्रभवतः, प्रत्ययतश्च । निरोधं चतुर्भिः--
निरोधतः, शान्ततः, प्रणीततः, निःसरणतश्च । मार्गं चतुर्भिः--मार्गतः, न्यायतः,
प्रतिपत्तितः, नैर्याणिकतश्च । एषां तु विशेषणं पश्चाद् वक्ष्यामः ।
ऊष्मभ्यो मूर्द्धानः,
मृदुमध्याधिमात्रक्रमाभिवृद्धेभ्य ऊष्मभ्यो मूर्द्धान उत्पद्यन्ते ।
तेऽपि तादृशाः ॥ १७ ॥
द्वे पश्यति धर्मस्मृत्युपस्थानम्, तत् संभिन्नालम्बनम् । यदि कायं यावद्ध-
र्माश्च पश्यति, तदपि तथैव । यदपि कायं वेदनां चित्तं धर्मांश्च समस्तान्
पश्यति, तदपि सम्भिन्नालम्बनं धर्मस्मृत्युपस्थानमिति ॥ १५ ॥
“समस्तालम्बने स्थितः” इति । कायवेदनाचित्तधर्मानभिसमस्य ॥ १६॥
ऊष्मगतमिति । ऊष्मप्रकारं कुशलमूलम् । पूर्व रूपत्वादिति । प्रथमनिमित्त-
त्वात् । पूर्वस्वभावत्वाद्वा ।
प्राकर्षिकत्वादिति । प्राबन्धकत्वादित्यर्थः ।
एषां तु विशेषणं पश्चाद्वक्ष्याम इति । सप्तमे कोशस्थाने “द्रव्यतः षोडशा-
काराः” (अभि० को० ७.१३) इत्यर्थः ।

६०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
यादृशा ऊष्माणश्चतुःसत्यालम्बनाः षोडशाकाराश्च । उत्कृष्टतरत्वात्तु
नामान्तरम् । चलकुशलमूलमूर्धत्वात् मूर्धानः । एभ्यो हि पातः, अतिक्रमो
वा ॥ १७ ॥
उभयाकरणं धर्मेण,
एषां पुनरुभयेषामूष्मगतमूर्ध्नां धर्मस्मृत्युपस्थानेनाकरणम् ।
किमिदमाकरणम् ? सत्येष्वाकाराणां प्रथयतो विन्यसनम् ।
अन्यैरपि तु वर्धनम् ।
चतुर्भिरपि स्मृत्युपस्थानैरेषां वर्धनम् । विवर्धयतः पूर्वप्रतिलब्धानामसम्मुखी-
भावः; अवहुमानात् १ ।
मृदुमध्याधिमात्रक्रमाभिवृद्धेभ्यः पुनरुत्पद्यते
तेभ्यः क्षान्तिः,
यदि तेऽपि तादृशाः, अथ किमर्थमुपदिश्यन्ते ? इत्यत आह—उत्कृष्टतर-
त्वात्तु नामान्तरमिति । अथ कस्मान्मूर्धान इत्युच्यन्ते ? इत्याह—चलकुशल-
मूलमूर्धत्वादिति । मूर्धशब्दोऽयं प्रकर्षपर्यन्तवाची । तथा हि लोके वक्तारो
भवन्ति—'मूर्धगता खल्वस्य श्रीः' इति । द्वे हि कुशलमूले चले उष्मगतमूर्धलक्षणे;
परिहाणिसम्भवात् । द्वे अचले क्षान्तिलौकिकाग्रधर्मलक्षणे; विपर्ययात् । तत्र
तयोर्यन्मृदु, तदूष्मगतम् । यदधिमात्रम्, ते मूर्धानः । अचलयोरपि यन्मृदु
सा क्षान्तिः । यदधिमात्रम् ते लौकिकाग्रधर्माः । एभ्यो हि पातोऽतिक्रमो
वेति । मूर्ध्नां चलत्वात् । वृक्षादिमूर्धभ्यो हि लोके पातो वा भवेद्, अतिपातो
वा । उपरिष्ठानुप्रप्तिरिति मूर्धसाधर्म्यम् ॥ १७ ॥
सत्येष्वाकाराणां प्रथयतो विन्यसनमिति । सत्येष्वनित्याद्याकाराणामादित
उपनिपातनम् । तदालम्बनानां प्रवर्त्तनमित्यर्थः ।
"अन्यैरपि" इति । धर्मस्मृत्युपस्थानादन्यैरपीत्यर्थः । "वर्धनम्" । अभ्या-
सेनोत्तप्तीकरणम् ।
विवर्धयत इति विस्तरः । विवर्धयतो योगिनो वर्धनेन विशिष्टानां कुशल-
मूलानां सम्मुखीभावः । पूर्वप्रतिलब्धानामिति । अविशिष्टानामसम्मुखीभावः ।
१. अबहुमानत्वात्—का० ।

अधिमात्रसत्यक्षमणादपरिहाणितः¹। साऽपि त्रिप्रकारा—मृद्वी, मध्या,
अधिमात्रा च ।
द्विधा तद्वत्,
यथा मूर्द्धान उक्ताः, एवं मृदुमध्ये क्षान्ती ; तथैवाकरणात् ।
विवर्धने त्वयं विशेषः—सर्वस्याः
क्षान्त्या धर्मेण वर्धनम् ॥ १८ ॥
स्मृत्युपस्थानेनैव, नान्येन ॥ १८ ॥
कामाप्तदुःखविषया त्वधिमात्रा,
'क्षान्तिः' इति वर्तते । अग्रधर्मश्लेषादसौ² कामावचरदुःखालम्बनैव । अत
एवोष्मगतादीनां त्रैधातुकदुःखाद्यालम्बनत्वसिद्धिः; नियमावचनात् ।
कस्मात् ? अबहुमानात् । न्यूनत्वेनाबहुमानादित्यर्थः । अधिमात्रसत्यक्षमणादिति ।
ऊष्मगतावस्थायां मृदु सत्यं क्षमते रोचते । मूर्धावस्थायां मध्यम् । तदनन्तर-
मिदानीमधिमात्रसत्यक्षमणात्क्षान्तिरुत्पद्यते । कथम् ? इत्यत आह—अपरिहाणित
[L

६१० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [मार्गपुद्गल-
यदा किल रूपारूप्यप्रतिपक्षादीनामेकैकसत्याकारालम्बनापहासेन¹ यावत्
कामावचरमेव दुःखं द्वाभ्यां क्षणाभ्यां मनसि करोति, एषा सर्वैव मध्या
क्षान्तिः। यदैकमेव क्षणम्, तदधिमात्रेति ।
यदा किलेति विस्तरः। यदा किल रूपारूप्यप्रतिपक्षादीनाम्। आदि-
शब्देन रूपारूप्यनिरोधसमुदयदुःखानां कामावचरप्रतिपक्षादीनां च ग्रहणम्।
एकैकसत्याकारालम्बनापहासेन। एकैकस्य सत्याकारस्य एकैकस्य सत्यालम्बनस्य
चापहासेन यावत् कामावचरमेव दुःखं द्वाभ्यां क्षणाभ्यां मनसिकरोति। एषा
सर्वैव रूपारूप्यप्रतिपक्षाकारहासात् प्रभृति मध्या क्षान्तिः। कथम्? अन्वय-
ज्ञानपक्षं तावन्मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्चेति तैश्चतुर्भीरा-
कारैराकारयति । ततस्त्रिभिरेकं हित्वा । ततो द्वाभ्यां द्वौ हित्वा । तत एकेन ।
ततो मार्गसत्यं हित्वा । रूपारूप्यनिरोधं चतुर्भिः स्वैराकारैराकारयति,
ततस्त्रिभिः द्वाभ्यामेकेनैव चाकार्य निरोधसत्यं चापास्य । समुदयसत्यं
चतुर्भिः स्वैराकारैः, त्रिभिः द्वाभ्यामेकेन चाकार्य, तथैव तदपास्य । दुःख-
सत्यं स्वैराकारैर्यावदेकेनाकार्य । तदपि सत्यमपास्य । कामावचरप्रतिपक्षं
स्वैश्चतुर्भीराकारैः त्रिभिः द्वाभ्यामेकेन चाकारयति, तदपास्य । कामावचर-
निरोधसमुदयसत्ये तथैव स्वाकारहासक्रमेणाकार्यापास्य च । कामावचरं
दुःखसत्यं चतुर्भीराकारैराकारयति, ततस्त्रिभिः, ततो द्वाभ्यामाकारयतीति ।
एवं हि हासारम्भात् प्रभृति सर्व एते क्षणा मध्या क्षान्तिरित्युक्तं भवति ।
तृतीये क्षणे तदालम्बनैवाधिमात्रा क्षान्तिः । चतुर्थे अग्रधर्मास्तदालम्बना एव ।
मृद्वी तु क्षान्तिर्या पुरस्तादधिमात्रेभ्यो मूर्धभ्योऽनन्तरं कामावचरं दुःखसत्यं
यावन्मार्गसत्यम् । रूपारूप्यावचरं च । स्वैः स्वैः सर्वैराकारैरनपहासं
मनसिकुर्वत इत्यवगन्तव्यम् ।
एवं तावदेके व्याचक्षते—आकारापहासपूर्वक आलम्बनापहास इति ।
अपरे पुनर्व्याचक्षते—एकैकसत्याकारालम्बनापहासेनेति । नैवं ग्रहीत-
व्यम्- एकैकसत्याकारापहासेनैकैकालम्बनापहासेन चेति । किं तर्हि ? रूपा-
रूप्यप्रतिपक्षादीनामेकैकैषां सत्यानां ये आकाराः, तेषाम् आलम्बनहासेनेति
व्याख्यातव्यमिति ।
एकान्नत्रिंशत्क्षणशतं मध्या क्षान्तिरिति वर्णयन्ति । आकारापहासपूर्वके
ह्यालम्बनापहासे सति अतिबहवश्चित्तक्षणा विसर्पन्ति । न चैतन्न्याय्यम् ।
१. ०पक्षादधेकैकसत्याल०—का* ।

निर्देशः ] षष्ठं कोशस्थानम् ६११
क्षणं च सा ।
क्षणिका चासौ, न प्राकर्षिकी ।
तथाग्रधर्माः,
न हि सत्येषु विद्यमानेषु आकारत्यागो युज्यते । यदा तु सत्यानि त्यक्तानि
भवन्ति, तदाकारत्याग इति युक्तम् । एवं च सति पूर्वं सत्यालम्बनह्रासं
करोति, पश्चादाकारह्रासम् । न हि मौले विषयेऽनपाकृते तदालम्बनापाकरणं
न्याय्यम् । समाहितासमाहितदुःख-समुदय-निरोध-मार्गा अष्टौ व्यवस्था-
प्यन्ते । एषामाकारा द्वात्रिंशद्भवन्तीत्येतदधुना न्यायान्तरमुपदिश्यते । कथं
कृत्वा ? यदा कामावचरं दुःखं चतुर्भिराकारैर्मनसिकरोति, एवं यावद्रूपारूप्या-
वचराणां प्रतिपक्षं चतुर्भिराकारैर्मनसिकरोतीयं मृद्वी क्षान्तिः । यदा पुनः
कामावचरदुःखं चतुर्भिराकारैर्मनसिकरोतीत्येवं यावत् कामावचराणां संस्काराणां
प्रतिपक्षं मनसिकरोति चतुभिराकारैः । रूपारूप्यावचराणां संस्काराणां
प्रतिपक्षं परित्यजतः प्रभृति मध्या क्षान्तिरारब्धा । तत्र च रूपारूप्यावचर-
प्रतिपक्षपरित्यागेऽष्टाविंशतिश्चित्तक्षणा भवन्ति । कामावचरसंस्कारप्रतिपक्ष-
परित्यागे चतुर्विंशतिः । रूपारूप्यावचरसंस्कारनिरोधपरित्यागे विंशतिः ।
कामावचरनिरोधपरित्यागे षोडश । रूपारूप्यावचरसमुदयपरित्यागे द्वादश ।
कामावचरसमुदयपरित्यागेऽष्टौ । रूपारूप्यावचरदुःखपरित्यागे चत्वारः ।
कामावचरं दुःखं चतुर्भिराकारैर्मनसिकरोति । तस्य भवन्त्याकाराश्चत्वारः । स
च योगाचारो द्विविधः—दृष्टिचरित, तृष्णाचरितश्च । दृष्टिचरितोऽपि
द्विविधः, आत्मदृष्टिचरितः, आत्मीयदृष्टिचरितश्च । यो ह्यात्मदृष्टिचरितो भवति,
सोऽनात्माकारेण नियाममवक्रामति । यस्त्वात्मीयदृष्टिचरितः, स शून्या-
कारेण । तृष्णाचरितोऽपि द्विविधः—अस्मिमानोपहतः, कौसीद्याधिकश्च ।
तत्र योऽस्मिमानोपहतः, सोऽनित्याकारेण नियाममवक्रामति । यः कौसीद्या-
धिकः, स दुःखाकारेण । तत्रात्मदृष्टिचरितो योगाचारः पुनस्तत्कामावचरं दुःखं
त्रिभिराकारैर्मनसिकरोति, एकमाकारं हित्वा । ततो द्वाभ्यामनात्मशून्यताकारा-
भ्याम् । तत एकमनात्माकारं द्विः संमुखीकरोति । दुःखधर्मज्ञानक्षान्ति-
दुःखधर्मज्ञानसदृशमिति । एषा मध्या क्षान्तिरित्येवमेकान्नविंशं चित्तशतं
भवति । एवमात्मीयाधिमुक्तस्य तु शून्यानात्माकाराभ्यामाकारयतः शून्याकारं
द्विः संमुखीकरोति । एषास्य मध्या क्षान्तिः । एवमेकान्नविंशक्षणशतम् ।
एवं तृष्णाचरितो द्विप्रकारः—अस्मिमानोपहतः, कौसीद्याधिकश्च वक्तव्य इति ।
अधिमात्रा तु क्षान्तिरेकमेव क्षणम् । सा यथापुद्गलं चरितमनित्याकारेण
वा दुःखाकारेण वा शून्याकारेण वा अनात्माकारेण वा सम्प्रयुक्तेति ।

६१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
यथैवाधिमात्रा क्षान्तिः। तेऽपि हि कामावचरदुःखालम्बनाः क्षणिकाश्च
लौकिकाश्चैतेऽप्याश्च धर्माः सर्वलौकिकश्रेष्ठत्वादिति लौकिकाग्रधर्माः। विना
सभागहेतुना मार्गस्य तत्पुरुषकारेण¹ मार्गाकर्षणात्। त एत ऊष्मगतादय स्मृत्युप-
स्थानस्वभावत्वात् प्रज्ञात्मका उच्यन्ते।
सर्वे तु पञ्चस्कन्धाः,
सपरिवारग्रहणात्।
विनाप्तिभिः ।। १९ ।।
प्राप्तयो नोष्मगतादिभिः संगृह्यन्ते। मा भूदार्यस्य तत्सम्मुखीभावादूष्म-
गतादीनां सम्मुखीभाव इति।
तत्र त्रिसत्यालम्बनोष्मगताकरणे धर्मस्मृत्युपस्थानं प्रत्युत्पन्नमनागतानि
चत्वारि भाव्यन्ते। निरोधसत्यालम्बने तदेवोभयथा। सर्वत्राकाराः सभागाः।
अथ किमर्थमेकैकसत्याकारालम्बनह्रासः क्रियते ? पूर्वं हि तेन त्रैधातुकं
विदूषयता समस्तः प्रतिपक्ष आलम्बितः। पश्चात् कामधातोः पूर्वं प्रहेयपरिज्ञेय-
त्वात् कामावचर एव दुःखेऽवतिष्ठत इति। तत्पुरुषकारेण मार्गाकर्षणादिति।
विना सभागहेतुना। पूर्वस्यानास्रवस्थाभावात्। लौकिकाग्रधर्मपुरुषकारेण
मार्गसत्यस्याकर्षणात्। सर्वलौकिकश्रेष्ठत्वमग्रधर्माणां गम्यते।
सर्वे तु पञ्चस्कन्धाः सपरिवारग्रहणादिति। समाहितभूमिकत्वादूष्मगता-
दीनामविज्ञप्तिलक्षणो रूपस्कन्धोऽस्तीति पञ्च स्कन्धा ऊष्मगतादयः सपरिवार-
ग्रहणात् सपरिवारा गृह्यन्ते इति।
मा भूदार्यस्येति। प्राप्तिसम्मुखीभावादार्यपुद्गलस्योष्मगतादीनां फलप्राप्ति-
प्रयोगभूतानां सम्मुखीभावो मा भूदिति प्राप्तयो नोष्मगतादिषु गृह्यन्ते। न हि
प्राप्तप्रयोगफलस्यार्यस्य प्रयोगसम्मुखीकरणं न्याय्यमिति।
त्रिसत्यालम्बनोष्मगताकरण इति। दुःखसमुदयमार्गालम्बनोष्मगताकरणे।
धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम्। यत्नजन्यस्य कार्यस्याकरणे समस्तालम्बत्वेन
धर्मस्मृत्युपस्थानस्यैव समर्थत्वात्। प्रतिनियतालम्बनत्वेन हि कायस्मृत्यु-
१-१. ०कारेणाकर्षणात्—का०।

? No, it's 'दृ'! Wait, look at 'दृ' in 'सदृशा':
Ah, in this font, 'दृ' has a round back and a tail curling down. Wait, compare with 'ह' in 'गृह्यन्ते' (line 10): 'ह्य'.
Compare with 'दृ' in other words if any. No, wait, look at "सहशा":
Wait, is the third letter 'शा' or 'श'?
It's "सदृशा एवाकारा"! Wait, is the second letter 'ह' or 'दृ'?
Look at the circle: it looks like 'ह' without the lower hook, or is it 'दृ'? Wait, look at 'सदृशा' vs 'सहशा'. "सदृशा एवाकारा भाव्यन्ते" makes complete sense in Sanskrit: "सदृशा एवाकारा भाव्यन्ते" (similar aspects are cultivated). But does the print say 'सदृशा' or 'सहशा'?
Wait! Look at the letter: it has a top horizontal, small vertical, then an 'S' shape like 'ड' or 'ह'?
Wait, look at "सहशा" - look at the letter 'ह' in 'तदेवोभयथेति' (no ह), 'गृह्यन्ते' (line 10).
Look at 'ह' in 'लब्धत्वात् गोत्राणां सम्भवतश्चतुः...' (line 21): 'सम्भवतः' has भ.
Look

६१४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अग्रधर्मेष्वन्त्यमनागतानि चत्वारि, आकाराश्चत्वार एव; अन्याभावाद्
दर्शनमार्गसादृश्याच्च ॥ १९ ॥
इति निर्वेधभागीयं चतुर्धा,
इत्येतानि चत्वारि निर्वेधभागीयानि कुशलमूलानि यदुतोष्मगतं मूर्धानः
क्षान्तयोऽग्रधर्माश्च । एषां द्वे मृदुनी चलत्वात् परिहाणितः क्षान्तयो मध्यमग्रधर्मा
अधिमात्रम् ।
निर्वेधभागीयानीति कोऽर्थः ? "विध विभागे" । निश्चितो वेधो
निर्वेधः आर्यमार्गः, तेन विचिकित्साप्रहाणात्, सत्यानां च विभजनादिदं
दुःखमयं यावत् मार्ग इति । तस्य भागो दर्शनमार्गैकदेशः । तस्यावाहकत्वेन
हितत्वान्निर्वेधभागीयानि ।
अग्रधर्मेष्वन्त्यमिति । अग्रधर्मेषु सम्मुखीक्रियमाणेष्वन्त्यं धर्मस्मृत्युपस्थानं
प्रत्युत्पन्नम् । अनागतानि चत्वारि अनुत्पत्तिधर्माण्येव प्राप्यन्ते । आकाराश्चत्वार
एवेति । अनित्यदुःखशून्यानात्माकाराः । अन्याभावादिति । यस्मादन्यसमुदया-
द्याकारा अग्रधर्मा न सन्ति; दुःखमात्रालम्बनत्वात् । यथा तर्ह्यग्रधर्मस्वभाव-
कायस्मृत्युपस्थानाद्यसम्मुखीभावेऽप्यग्रधर्मसमुदाचारावस्थायामनागतानि काय-
स्मृत्युपस्थानादीनि भाव्यन्ते; एवमग्रधर्मस्वभावसमुदयाद्याकारा अनागता
भाव्यन्त इति किं नेष्यते ? इत्यतः पुनराह-दर्शनमार्गसादृश्याच्चेति ।
दुःखाकारा एव चत्वारो भाव्यन्ते । कस्मात् ? दर्शनमार्गसादृश्यात् । दर्शनमार्गे
हि यस्य सत्यस्य दर्शनं भवति, तदाकारा एव भाव्यन्ते । दर्शनमार्गसदृश्या
ह्यग्रधर्माः, किं पुनरेषां दर्शनमार्गेण सादृश्यमनुश्लेषात् । तथैव प्रथमतः कामा-
वचरदुःखालम्बनत्वं तुल्यभूमिकत्वं वा । तथा हि दर्शनमार्गमधिकृत्य वक्ष्यति-
“सोऽग्रधर्मैकभूमिकः” (अभि० को० ६.२७) इति । यद्वा—पृथग्ज...
घाताया दुःखधर्मज्ञानक्षान्तेरानन्तर्यमार्गभूता अग्रधर्मा भवन्ति, तदेषां दर्शन-
मार्गेण सादृश्यम् । सदृशा ह्यानन्तर्यमार्गा विमुक्तिमार्गैरिति ॥ १९ ॥
विध विभाग इति विस्तरः । तस्य धातोरेतद् यनि (घञि?) रूपम् । निश्चित
इति । निःशब्दस्यार्थं दर्शयति । कथं पुनर्निंश्चितो वेधः ? इत्याह—तेन
विचिकित्साप्रहाणान्निश्चितः । सत्यानां च विभजनात् । इदं दुःखमयं यावन्मार्ग
इति । निर्वेध आर्यमार्गः । तस्य भागो दर्शनमार्गैकदेशः । तस्यावाहकत्वेनाक-

निर्देशः ] षष्ठं कोशस्थानम् ६१५
तच्चैतच्चतुर्विधमपि निर्वेधभागीयम्
भावनामयम् ।
न श्रुतचिन्तामयम् ।
अनागम्यान्तरध्यानभूमिकम्,
अनागम्यं ध्यानान्तरं चत्वारि च ध्यानान्यस्य भूमिः; तत्संगृहीतत्वात् ।
नोर्ध्वम् ; दर्शनमार्गपरिवारत्वात् । तदभावः कामधात्वालम्बनत्वात् । तस्य¹ पूर्वपरि-
ज्ञेयप्रहेयत्वात् । तेषां रूपधातौ पञ्चस्कन्धको विपाकः। परिपूरकाण्येव²
नाक्षेपकाणि; भवद्वेषित्वात् ।
द्वे त्वधोऽपि वा ॥ २० ॥
वाशब्दो मतविकल्पार्थः । भदन्तघोषकस्य तु द्वे प्रथमे निर्वेधभागीये
सप्तभूमिके कामावचरे अपि तः ॥ २० ॥
र्धकत्वेन हितत्वात् “तस्मै हितम्” (पा० सू० ५.१.५) इति छः । तेन निर्वेधभा-
गीयमिति भवति ।
“अनागम्यान्तरध्यानभूमिकम्” इति । अनागम्यं चान्तरं च ध्यानानि च
भूमयोऽस्येत्यनागम्यान्तरध्यानभूमिकम् ।
नोर्ध्वमिति । नारूप्येषु निर्वेधभागीयमस्ति । दर्शनमार्गपरिवारत्वात् ।
दर्शनमार्गप्रयोगत्वादित्यर्थः । तदभावः कामधात्वालम्बनत्वादिति । तस्य दर्शन-
मार्गस्याभावस्तद्भावः । क्व ? ऊर्ध्वमिति वर्तते । आरूप्येष्वित्यर्थः । कस्मात् ?
कामधात्वानालम्बनात् । यस्मादारूप्याः कामधातुं नालम्बन्ते । आह—किं
कामधात्वालम्बनेन दर्शनमार्गेण प्रयोजनमिति ? अत उच्यते—तस्य पूर्वं परिज्ञेय-
प्रहेयत्वादिति । तस्य कामधातोर्दुःखरूपस्य पूर्वं परिज्ञेयत्वात् , समुदयरूपस्य
च प्रहेयत्वात् । अत्र च हेतुर्यस्मात् स योगी कामावचरेण दुःखेन विहन्यते,
तेन स पूर्वं ततो मोक्षमन्वेषत इति । तेषां रूपधातौ पञ्चस्कन्धको विपाक
इति । तेषां निर्वेधभागीयानां रूपावचरत्वात् यदि स योगी रूपधातावुपपद्येत,
ततस्तस्य तत्र पञ्चस्कन्धको विपाकोऽभिनिर्वर्तते । परिपूरकाण्येव च तानीष्टवेद-
नीयजननात् । नाक्षेपकाणि निकायसभागस्य । भवद्वेषित्वात् । अनित्यादिभि-
राकारैर्भवं द्विषन्तीति ।
द्वे प्रथमे इति । ऊष्मगतमूर्धस्वभावे ॥ २० ॥
१. तस्य च—का० । २. परिपूरिकान्येव—जा० ।

६१६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
सर्वाण्यपि त्वेतानि चत्वारि
कामाश्रयाणि,
त्रीणि मनुष्येष्वेवोत्पद्यन्ते, त्रिषु द्वीपेषु । उत्पादितपूर्वाणां तु देवेषु
सम्मुखीभावः । चतुर्थं देवेष्वपि त्रीणि स्त्रीपुरुषा उभयाश्रयाणि लभन्ते ।
अग्रधर्मान् द्व्याश्रयान् लभतेऽङ्गना ।
अग्रधर्मांस्तु स्त्र्येव द्व्याश्रयान् लभते । पुरुषः पुरुषाश्रयानेव, स्त्रीत्वस्या-
प्रतिसंख्यानिरोधलाभात् ।
कथं निर्वेधभागीयानां त्यागः ?
भूमित्यागात् त्यजत्यार्यस्तानि,
“कामाश्रयाणि” इति । यस्मादिहैव सत्याभिसमयो नान्यधातौ । नोर्ध्वं हि
दृक्पथः असंवेगात् । इह विधा तत्र निष्ठेति चागमादिति । त्रिषु द्वीपेषु । उत्तर-
कुरुवर्ज्येष्विति व्याख्यायते ; उत्तरकौरवाणां मृद्व

निर्देशः ] षष्ठं कोशस्थानम् ३१७
यद्भूमिकान्यनेन प्रतिलब्धानि भवन्ति तां भूमिं त्यजन्नार्यस्तान्यपि त्यजति,
नान्यथा । भूमित्यागः पुनर्भूिमिसञ्चारात् ।
अनार्यस्तु मृत्युना ॥ २१ ॥
पृथग्जनस्तु निकायसभागत्यागेनैव त्यजति सत्यसति वा भूमिसंचारे ॥ २१॥
आद्ये द्वे परिहाण्या च,
त्यजति मृत्युना च पृथग्जन एव । आर्यस्य तु नास्ति ताभ्यां परिहाणिः ।
क्षान्त्यग्रधर्माभ्यां तु पृथग्जनस्यापि नास्ति परिहाणिः ।
“भूमित्यागाद्” इति विस्तरः । यद्भूमिकानि निर्वेधभागीयानि प्रतिलब्धानि
प्रथमध्यानभूमिकानि यावच्चतुर्थध्यानभूमिकानि । तां भूमिं त्यजन् प्रथमं
ध्यानं यावच्चतुर्थं त्यजन्नार्यस्तान्यपि यथास्वं प्रथमध्यानभूमिकानि यावच्च-
चतुर्थध्यानभूमिकानि त्यजति । नान्यथा । न मृत्युना, परिहाण्या वा । यथा
पृथग्जन इत्यर्थः । भूमित्यागः पुनर्भूिमिसञ्चारादिति । न वैराग्यत इति
दर्शयति ।
पृथग्जनस्त्विति विस्तरः । पृथग्जनस्तु निकायसभागत्यागेनैव त्यजति निर्वेध-
भागीयानि सत्यसति वा भूमिसञ्चारे । तथा हि—पृथग्जनो यद्भूमिकनिर्वेध-
भागीयलाभी भवति, तत ऊर्ध्वमुपपद्यमानस्तानि भूमिसञ्चारेऽपि मृत्युनैव
त्यजति । अवीतरागस्त्वसति भूमिसञ्चारे मृत्युना त्यजति । कामधातावेवो-
पद्यते । न त्वेवमार्यपुद्गलः; तत्कुशलमूलसन्ततेर्दर्शनमार्गोपबृंहितत्वात् ।
पृथग्जन एव तथा त्यजतीति कथं गम्यते ? 'अण्डकल्लादिगतः पृथग्जनः कायेन
समन्वागतः, न कायकर्मणा' इति शास्त्रे वचनात् ।
आचार्यवसुमित्रस्तु व्याचष्टे—पृथग्जनस्तु निकायसभागत्यागेनैव त्यजति
सत्यसति वा भूमिसञ्चार इति । सकलं ध्यानमत्र भूमग्रहणेन गृह्यते । तत्र
पृथग्जनो यदा ब्राह्मकायिकेभ्यश्च्युत्वा ब्रह्मपुरोहितेषूपपद्यते, तदा निकाय-
सभागत्यागेन त्यजति । यदा तु प्रथमात् ध्यानाच्च्युत्वा द्वितीय उपपद्यते,
तदा भूमित्यागनिकायसभागत्यागाभ्यामिति ।
तदयुक्तम्; ब्रह्मलोकोपपन्नानां निर्वेधभागीयाभावात् । कामधातौ हि
निर्वेधभागीयान्युत्पद्यन्ते । कामधातुच्यवनादेव च तेषां निर्वेधभागीयत्याग
इति ।
अभि० को० ३ : ११

६१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
मौलेस्तत्रैव सत्यदृक् ।
यो मौलध्यानभूमिकानि निर्वेधभागीयान्युत्पादयति स तत्रैव जन्मनि
सत्यान्यवश्यं पश्यति; तीव्रसंवेगत्वात् ।
अपूर्वाप्तिर्विहीनेषु,
यदा विहीनेषु पुनर्लाभो भवत्यपूर्वाण्येव तदा लभ्यन्ते, न पूर्वं त्यक्तानि;
प्रतिमोक्षसंवरवदनुचितयत्नसाध्यत्वात् । सति प्रतिसीमादेशिके परेणोत्पादयति,
असति मूलादेव ।
एते पुनर्विहानि-परिहाणी किंस्वभावे ?
हानी द्वे असमन्वितिः ॥ २२ ॥
उभे अप्येते असमन्वागमस्वभावे । परिहाणिस्तु दोषकृता, नावश्यं
आचार्यसङ्घभद्रेणापि दर्शितमेतत्—‘ननु च पृथग्जनोऽपि यद्भूमिक-
निर्वेधभागीयलाभी भवति, तत ऊर्ध्वमुपपद्यमानो निर्वेधभागीयानि
विजह्यान्’ इति । नास्त्येतत् ; निकायसभागत्यागादेव त्यक्तत्वात् । मरणभवा-
वस्थितो हि तानि त्यजति । अन्तराभवस्थितेन तु त्यक्तानि । अत ऊर्ध्वमुपपद्य-
मानस्य तन्नास्ति यद्विजह्यादिति । मृत्युर्नैवेत्युच्यत इति ॥ २१ ॥
प्रातिमोक्षसंवरवदिति । यथा प्रातिमोक्षसंवरस्त्यक्तः पुनरादीयमानोऽपूर्व
एव लभ्यते । कस्मात् ? अनुचितयत्नसाध्यत्वात् । अनुचितत्वात्, यत्न-
साध्यत्वाच्च । यस्मादनादिमतिसंसारे नोचितानि भवन्ति, आर्यमार्गपरिवार-
त्वात्; तस्माच्च वैराग्यलभ्यानि । यस्माद्यत्नसाध्यानि, तस्माच्च पूर्वत्यक्तानि
लभ्यन्त इति । सति प्रतिसीमादेशिक इति । सीमा नाम मर्यादा, तस्या देशिको
दर्शयिता प्रणिधिज्ञानलाभी । तस्मिन् सति लब्धविहीनान् परेणोत्पादयति ।
यदुत्पादितम्, तदुत्पादयतीत्यर्थः । असति प्रतिसीमादेशिके मूलादेवोष्मगतान्
प्रभृतीत्यर्थः ।
एते पुनर्विहानिपरिहाणी इति । “भूमित्यागात् त्यजत्यार्यः” (अभि० को०
६.२१) इत्यादि वचनाद् विहानिरुक्ता । “आद्ये द्वे परिहाण्या च” (अभि०
को० ६.२२) इति वचनात् परिहाणिरप्युक्ता । तेनैते इति निर्दिशति ।
हानी इति । विहानि-परिहाण्योः सामान्यरूपपरिग्रहादुभयोर्ग्रहणम् ।

निर्देशः ] षष्ठं कोशस्थानम् ६१६
विहानिः । गुणविशेषकृता च सा । परिहीणोऽप्यूष्मगतलाभी नियतं परिनिर्वाण-
धर्मा भवति ।
मोक्षभागीयात् को विशेषः ? सत्यदर्शनासन्नतरत्वमसत्यन्तराये ॥ २२ ॥
मूर्धलाभी न मूलच्छित्,
परिहीणोऽपि मूर्धलाभी कुशलमूलानि न समुच्छिनत्ति । अपायांस्तु
यायादानन्तर्याण्यपि१ कुर्यात् ।
क्षान्तिलाभ्यनपायगः ।
विहीनायामपि क्षान्तौ न पुनरपायान् याति; तद्भूमिककर्मक्लेशदूरीकरणात् ।
क्षान्तिलाभादेव हि गतियोन्युपपत्त्याश्रयाष्टमादिभवक्लेशानां केषांचिदनुत्पत्तिधर्मतां
प्रतिलभते । अपायगतीनामण्डजसंस्वेदजयोन्योरसंज्ञिसत्त्वोत्तरकुरुमहाब्रह्मोपपत्तीनां
षण्ढपण्डकोभयव्यञ्जनाश्रयाणामष्टमादिभवानां२ दर्शनहेयक्लेशानां च । तां तु
यथायोगं मृद्वधिमात्रायां च । मृद्व्यामपायगतीनाम् । अधिमात्रायामितरेषाम् ।
निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् । तत्र
शिष्यगोत्रान्निवर्त्य द्वे बुद्धः स्यात्,
ऊष्मगतं मूर्धानं च श्रावकगोत्रादुत्पन्नं व्यावृत्य पुनर्बुद्धः स्यादित्यस्ति सम्भवः ।
परिहाणिस्तु दोषकृता । क्लेशकृतेत्यर्थः । नावश्यं विहानिरिति । सा हि
गुणकृतापि भवति, न केवलं दोषकृता । गुणकृता तद्यथा—दर्शनमार्गोत्पत्तौ
पृथग्जनत्वस्य विहानिः । दोषकृता तु तद्यथा—मिथ्यादृष्ट्या कुशलमूलविहानिः ।
प्रतिसन्धिचित्तेन वा केषाञ्चिद् धर्माणां विहानिरिति । तदेवं या परिहाणिः,
विहानिरपि सा । या तु विहानिः, नावश्यमसौ परिहाणिः । गुणविशेषेभ्य एव
हि परिहाणिरिति ॥ २२ ॥
अनुत्पत्तिधर्मतां प्रतिलभत इति । अपरिसंख्यानिरोधं तेषां गत्यादीनां
प्रतिलभत इत्यर्थः । तां तु यथायोगमिति । तां त्वनुत्पत्तिधर्मताम् । यथासम्भवं
मृद्व्यामधिमात्रायां च क्षान्तौ प्रतिलभत इति वर्तते । कथं कृत्वा ? मृद्व्यां
क्षान्त्यामपायगतीनामनुत्पत्तिधर्मतां प्रतिलभते । अधिमात्रायामण्डजसंस्वेदज-
१. पापादा०—का० । २. शण्ठ०—का० ।

६१८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
मौलैस्तत्रैव सत्यदृक् ।
यो मौलध्यानभूमिकानि निर्वेधभागीयान्युत्पादयति स तत्रैव जन्मनि
सत्यान्यवश्यं पश्यति; तीव्रसंवेगात् ।
अपूर्वाप्तिर्विहीनेषु,
यदा विहीनेषु पुनर्लाभो भवत्यपूर्वाण्येव तदा लभ्यन्ते, न पूर्वं त्यक्तानि;
प्रतिमोक्षसंवरवदनुचितयत्नसाध्यत्वात् । सति प्रतिसीमादैशिके परेणोत्पादयति,
असति मूलादेव ।
एते पुनर्विहानि-परिहाणी किंस्वभावे ?
हानी द्वे असमन्वितिः ॥ २२ ॥
उभे अप्येते असमन्वागमस्वभावे । परिहाणिस्तु दोषकृता, नावश्यं ॰
आचार्यसङ्घभद्रेणापि दर्शितमेतत्—'ननु च पृथग्जनोऽपि यद्भूमिक-
निर्वेधभागीयलाभी भवति, तत ऊर्ध्वमुपपद्यमानो निर्वेधभागीयानि
विजह्यात्' इति । नास्त्येतत् ; निकायसभागत्यागादेव त्यक्तत्वात् । मरणभवा-
वस्थितो हि तानि त्यजति । अन्तराभवस्थितेन तु त्यक्तानि । अत ऊर्ध्वमुपपद्य-
मानस्य तन्नास्ति यद्विजह्यादिति । मृत्युर्वेत्युच्यत इति ॥ २१ ॥
प्रातिमोक्षसंवरवदिति । यथा प्रातिमोक्षसंवरस्त्यक्तः पुनरादीयमानोऽपूर्व
एव लभ्यते । कस्मात् ? अनुचितयत्नसाध्यत्वात् । अनुचितत्वात्, यत्न-
साध्यत्वाच्च । यस्मादनादिमतिसंसारे नोचितानि भवन्ति, आर्यमार्गपरिवार-
त्वात्; तस्मान्न वैराग्यलभ्यानि । यस्माद्यत्नसाध्यानि, तस्मान्न पूर्वंत्यक्तानि
लभ्यन्त इति । सति प्रतिसीमादैशिक इति । सीमा नाम मर्यादा, तस्या दैशिको
देशयिता प्रणिधिज्ञानलाभी । तस्मिन् सति लब्धविहीनात् परेणोत्पादयति ।
यदनुत्पादितम्, तदुत्पादयतीत्यर्थः । असति प्रतिसीमादैशिके मूलादेवोष्मगतात्
प्रभृतीत्यर्थः ।
एते पुनर्विहानिपरिहाणी इति । "भूमित्यागात् त्यजत्यार्यः" (अभि० को०
६.२१) इत्यादि वचनाद् विहानिरुक्ता । "आद्ये द्वे परिहाण्या च" (अभि०
को० ६.२२) इति वचनात् परिहाणिरप्युक्ता । तेनैते इति निर्दिशति ।
हानी इति । विहानि-परिहाण्योः सामान्यरूपपरिग्रहादुभयोर्ग्रहणम् ।

निर्देशः ] षष्ठं कोशस्थानम् ६१६
विहानिः । गुणविशेषकृता च सा । परिहीणोऽप्यूष्मगतलाभी नियतं परिनिर्वाण-
धर्मा भवति ।
मोक्षभागीयात् को विशेषः ? सत्यदर्शनासन्नतरत्वमसत्यन्तराये ॥ २२॥
मूर्धलाभी न मूलच्छित्,
परिहीणोऽपि मूर्धलाभो कुशलमूलानि न समुच्छिनत्ति । अपायांस्तु
यायादानन्तर्याण्यपि¹ कुर्यात् ।
क्षान्तिलाभ्यनपायगः ।
विहीनायामपिक्षान्तौ न पुनरपायान् याति; तद्भूमिककर्मक्लेशदूरीकरणात् ।
क्षान्तिलाभादेव हि गतियोन्युपपत्त्याश्रयाष्टमादिभवक्लेशानां केषांचिदनुत्पत्तिधर्मतां
प्रतिलभते । अपायगतीनामण्डजसंस्वेदजयोन्योरसंज्ञिसत्त्वोत्तरकुरुमहाब्रह्मोपपत्तीनां
षण्ढपण्डकोभयव्यञ्जनाश्रयाणामष्टमादिभवानां² दर्शनहेयक्लेशानां च । तां तु
यथायोगं मृद्वधिमात्रायां च । मृद्व्यामपायगतीनाम् । अधिमात्रायामितरेषाम् ।
निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् । तत्र
शिष्यगोत्रानिवर्त्य द्वे बुद्धः स्यात्,
ऊष्मगतं मूर्धानं च श्रावकगोत्रादुत्पन्नं व्यावृत्य पुनर्बुद्धः स्यादित्यस्ति सम्भवः ।
परिहाणिस्तु दोषकृता । क्लेशकृतेत्यर्थः । नावश्यं विहानिरिति । सा हि
गुणकृतापि भवति, न केवलं दोषकृता । गुणकृता तद्यथा—दर्शनमार्गोत्पत्तौ
पृथग्जनत्वस्य विहानिः । दोषकृता तु तद्यथा—मिथ्यादृष्ट्या कुशलमूलविहानिः ।
प्रतिसन्धिचित्तेन वा केषाञ्चिद् धर्माणां विहानिरिति । तदेवं या परिहाणिः,
विहानिरपि सा । या तु विहानिः, नावश्यमसौ परिहाणिः । गुणविशेषेभ्य एव
हि परिहाणिरिति ॥ २२ ॥
अनुत्पत्तिधर्मतां प्रतिलभत इति । अपरिसंख्यानिरोधं तेषां गत्यादीनां
प्रतिलभत इत्यर्थः । तां तु यथायोगमिति । तां अनुत्पत्तिधर्मताम् । यथासम्भवं
मृद्व्यामधिमात्रायां च क्षान्तौ प्रतिलभत इति वर्तते । कथं कृत्वा ? मृद्व्यां
क्षान्त्यामपायगतीनामनुत्पत्तिधर्मतां प्रतिलभते । अधिमात्रायामण्डजसंस्वेदज-
१. पापादा०—का० । २. षण्ड०—का० ।

: it has 'न्' + 'न' = 'न्नि'!
So: निश्रित्यानिञ्ज्यपटुसमाधित्वाद्निर्वेधभागीयानारभ्य or निश्रित्यानिञ्ज्यपटुसमाधित्वाच्चिर्वेध-?
Wait, look at the first consonant of that cluster:
Is it 'न्नि'? Yes, 'न्' on the left, 'नि' on the right, with 'i' matra over both: 'न्नि'.
Wait, what about the space: there is no space between 'त्वा' and 'न्नि'.
So: निश्रित्यानिञ्ज्यपटुसमाधित्वाद्निर्वेधभागीयानारभ्य or निश्रित्यानिञ्ज्यपटुसमाधित्वात्तिर्वेध...?
Wait, why did I think 'च्चि' earlier? Because the left part looks curved. But 'न्नि' in this font: look at 'अपायानप्यवगाहन्त' or 'क्षान्तिपरिभावितत्वेनाविवर्त्यत्वादित्यभिप्रायः' (line 20).
In line 11: "निश्रित्यानिञ्ज्यपटुसमाधित्वाच्चिर्वेध..." or "निश्रित्यानिञ्ज्यपटुसमाधित्वाद्निर्वेध..."?
Wait, if it's "त्वाद्", the letter would be 'द्' + 'नि' = 'द्

निर्देशः ] षष्ठं कोशस्थानम् ६२१
किं पुनः प्रथम एव जन्मनि कृतयोगो निर्वेधभागीयान्युत्पादयेत् ?
नैतदस्ति । अवश्यं हि
प्राक्तेभ्यो मोक्षभागीयम्
उत्पादयितव्यम् । सर्वस्वल्पं हि
क्षिप्रं मोक्षस्त्रिभिर्भवैः ॥ २४ ॥
एकस्मिन् जन्मनि मोक्षभागीयं कुशलमूलमुत्पादयेत् । द्वितीये निर्वेध-
भागीयानि । तृतीये आर्यमार्गम् । बीजावरोपणशस्याभिवृद्धिफलोत्पत्तिक्रमवत् ।
क्रमेण हि सन्तानस्यास्यां धर्मतायामवतारविपाकविमुक्तयो भवन्तीति ॥ २४ ॥
तच्च पुनर्मोक्षभागीयं वर्णयन्ति—
श्रुतचिन्तामयम्,
न भावनामयम् ।
कति कर्माणि ?
त्रीणि कर्माणि,
प्राधान्येन तु मनस्कर्म्म । तत्प्रणिधानपरिग्रहणात्² कायवाक्कमापि मोक्ष-
प्रायः । तेषामूष्मगतमूर्धभ्यां तद्गोत्राणां व्यावर्तनस्याप्रतिषेधः । खड्गविषाण-
कल्पस्यैवावधारणात् ।
“क्षिप्रं मोक्षस्त्रिभिर्भवैः” इति । यः क्षिप्रं मोक्षं प्राप्नोति, स एकस्मिन्
जन्मनि मोक्षभागीयमुत्पादयेत् । द्वितीये निर्वेधभागीयानि । तृतीये आर्यमार्ग-
मिति । यस्तु पूर्वस्मिन् जन्मनि सम्भृतमोक्षभागीयो भवति, स एकस्मिन्नपि
जन्मनि निर्वेधभागीयान्य्यायमार्गं चोत्पादयेतीत्यवगन्तव्यम् । बीजावरोपणे-
त्यादि । बीजावरोपणं मोक्षभागीयोत्पादनम् । शस्याभिवृद्धिर्निर्वेधभागीयोत्पत्तिः ।
फलोत्पत्तिरार्यमार्गः । अस्यां धर्मतायामिति । प्रवचनधर्मतायाम् । अवतारपरि-
पाकविमुक्तयो भवन्तीति । अवतारो मोक्षभागीयेन । परिपाको निर्वेधभागीयैः ।
विमुक्तिरार्यमार्गेणेति ॥ २४ ॥
तत्प्रणिधानपरिग्रहणादिति । मनःप्रणिधानपरिग्रहात् । प्रणिधानं
१. बीजविरोपण०—का० । २. ०परिग्रहात्त—क०