सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] द्वितीयं कोशस्थानम् २११
समन्वागमः । विपर्ययादप्राप्तिरिति सिद्धम् ।
कस्य पुनरिमे प्राप्त्यप्राप्ती ?
प्राप्त्यप्राप्ती स्वसन्तानपतितानां
न परसन्तानपतितानाम् । नहि परकीयैः कश्चित् समन्वागतः । नाप्य-
सन्ततिपतितानाम् । न ह्यसत्त्वसङ्ख्यातैः कश्चित् समन्वागतः ।
एष तावत् संस्कृतेषु नियमः ।
असंस्कृतेषु पुन प्राप्त्यप्राप्ती—
निरोधयोः ॥ ३६ ॥
इत्युच्यते । प्रथमक्षणस्थ आयंपुद्गलो दुःखधर्मज्ञानक्षान्त्या समन्वागत इत्युच्यते,
“आज्ञास्यामीन्द्रियेणैखयोदशभिरन्वितः ' ( अभि०का० २ १६ ) इत्यादिवच-
नात् । कथमयं लक्षणनिर्देशः ? न हि भेदविवक्षायामपि पर्यायवचनेन लक्षण-
निर्देशः कल्पते—'प्राप्तिः कतमा ? यः प्रतिलम्भो यः समन्वागमः' इति । पर्याय-
[L

२१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय
सर्वसत्त्वा अप्रतिसंख्यानिरोधेन समन्वागताः । अत एव हि चोक्तमभि-
धर्मे ( ज्ञा० प्र० १९.९ )— "अनास्रवैर्धर्मैः कः समन्वागतः ? आह—
सर्वसत्त्वा" इति । प्रतिसंख्यानिरोधेन सकलबन्धनादिक्षणस्थवर्ज्याः सर्व आर्या
पृथग्जनाश्च केचित् समन्वागताः । आकाशेन तु नास्ति कश्चित् समन्वागतः ।
तस्मादस्य नास्ति प्राप्तिः । यस्य च नास्ति प्राप्तिस्तस्याप्राप्तिरपि नास्तीति
सिद्धान्तः ।
प्राप्तिर्नामास्ति किञ्चित् भावान्तरमिति । कुत एतत् ? आह—सूत्रात् ।
सूत्रे ह्युक्तम्—"स एषां दशानामशैक्षाणां धर्माणामुत्पादात् प्रतिलम्भात्
प्राप्त्यप्राप्ती भवत । सर्वसत्त्वा अप्रतिसंख्यानिरोधेन यथा प्रत्ययवैकल्यं समन्वा-
गताः । सकलबन्धनादिक्षणस्थवर्ज्या इति । आदौ क्षण.

निर्देश ] द्वितीयं कोशस्थानम् २१३
समन्वागमादार्यो भवति पञ्चाङ्गविप्रहीणः" (म० आ० ४९.१६) इति
विस्तरः।
तेन तर्हि असत्त्वाख्यैरपि समन्वागमः प्राप्नोति, परसत्त्वैश्च। किं कारणम् ?
सूत्रे¹ वचनात्¹ । "राजा भिक्षवश्चक्रवर्ती सप्तभी रत्नैः समन्वागतः"
(दी० नि० ३. ५९) इति विस्तरः। वशित्वमत्र समन्वागमशब्देनोक्तम्।
तस्य तेषु रत्नेषु वशित्व कामचार इति। तत्र² वशित्वं समन्वागमः, अन्यत्र
पुनर्द्रव्यान्तरमिति।
कुत एतत् कः पुनरेवमयोगः ? अयमयोगः—यदस्या नैव 'स्वभावः
प्रज्ञायते रूपशब्दादिवद्, रागद्वेषादिवद्वा; न चापि कृत्यं चक्षुःश्रोत्रादिवत् ।
तस्माद् द्रव्यधर्मासम्भवादयोगः।
चेति। प्रतिनिधिभूताया प्राप्तैर्योगान् प्रकृतिस्थोऽप्यर्हन्नार्य इत्युच्यते। साधनं
चात्र—'द्रव्यतोऽस्ति समन्वागमः, सूत्रोक्तत्वात्, आयतनद्रव्यवत्' इति।
आचार्यस्तं प्रत्याह—तेन तर्ह्यसत्त्वाख्यैरपि चक्ररत्नादिभिः परसत्त्वैरपि
स्त्रीरत्नादिभि समन्वागमो द्रव्यसन् प्राप्नोति। सूत्रे वचनात्। कथमिति ? सूत्र
दर्शयति—राजा यावद्विस्तर इति। राजा भिक्षवश्चक्रवर्ती सप्तभी रत्नै समन्वा-
गत । तस्येमानि सप्त रत्नानि, तद्यथा—चक्ररत्नम्, हस्तिरत्नम्, अश्वरत्नम्,
मणिरत्नम्, स्त्रीरत्नम्, गृहपतिरत्नम्, परिणायकरत्नमेवं सप्तममिति विस्तरः।
एभि सप्तभी रत्नै समन्वागमः सूत्र उक्तः। न च द्रव्यतोऽस्तीत्यनेनानैकान्तिकता
दर्शयति, प्रतिज्ञादोषं चायमुद्ग्राहयति, अनुमानविरोधात्। कथम् ? इत्युच्यते -
'न द्रव्यसन् दशाशैक्षधर्मसमन्वागम समन्वागमस्वभाव्यात् चक्रवर्तिसप्तरत्न
समन्वागमवद्' इति। अनेन प्रतिज्ञाया धर्मस्वरूपं विपर्यामयति ।
वशित्वं कामचार इति। इच्छानुविधायित्वम्। तत्र वशित्वमिति चक्रवर्तिसूत्रे।
अन्यत्र पुनर्द्रव्यान्तरमिति। दशाशैक्षधर्मसमन्वागमसूत्रे। कः पुनरेवमयोग इति।
प्रवचने हि द्विविधमिष्यते—द्रव्यसच्च वस्तु, प्रज्ञप्तिसच्चेति। कथमयुक्तिः ? इति
वैभाषिकाः। आचार्य आह—अयमयोग इति। विस्तर.—इह यद् द्रव्यसद्वस्तु तत्
प्रत्यक्षग्राह्यं वा भवेदनुमानग्राह्यं वा। तत्र प्रत्यक्षग्राह्यं रूपशब्दादि, पञ्चेन्द्रिय
ग्राह्यत्वात्। मनोविज्ञानग्राह्यमपि किञ्चित् प्रत्यक्षं रागद्वेषादि; स्वसंवेद्यत्वात्।
चक्षुःश्रोत्रादि त्वनुमानग्राह्यं चक्षुर्विज्ञानादिकृत्यानुमेयत्वात्, तद्भावाभावयोस्त-
१-१. सूत्रवचनात्—का०। २ अत्र—का०।

उत्पत्तिहेतुर्धर्माणां प्राप्तिरिति चेत् ? असंस्कृतस्य न स्यात् । ये च धर्मा
अप्राप्ता ये च त्यक्ता भूमिसञ्चारवैराग्यतः, तेषां कथमुत्पत्तिः स्यात् ।
सहजप्राप्तिहेतुका चेत् ? जातिरिदानीं किङ्करी, जातिजातिर्वा । सकल-
बन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिप्रकारभेदो १ न स्यात् ; प्राप्त्यभेदात् ।
यतो वा स भेदस्तत एवास्तु तदुत्पत्तिः । तस्मान्नोत्पत्तिहेतुः प्राप्तिः ।
कश्चैवमाह—उत्पत्तिहेतुः प्राप्तिरिति ? किं तर्हि ? व्यवस्थाहेतुः प्राप्तिः २ ।
द्वात्राभावात् । प्राप्तिः पुनर्ना प्रत्यक्षग्राह्या, न चानुमानग्राह्या; तत्सिद्धौ
निरवद्यानुमानादर्शनात् । तस्माद् द्रव्यधर्मासम्भवादयोग इति स्थितमेतत् ।
इदानीमाचार्यस्तत्पक्षमुत्थाप्योत्थाप्य दूषयति—उत्पत्तिहेतुरिति । विस्तरः-
यस्य प्राप्तिरस्ति स उत्पद्यते, हेतुसद्भावात् । असंस्कृतस्य न स्यात् प्राप्तिः;
तस्यासंस्कृतस्यानुत्पन्नान्न । ये च धर्मा अप्राप्ता दुःखधर्मज्ञानक्षान्तयादयः । ये च
त्यक्ता भूमिसञ्चारवैराग्यतः । तद्यथा कामावचरा अक्लिष्टा ऊर्ध्वभूम्युपपत्त्या
क्लिष्टाश्च वैराग्येण त्यक्ताः । तेषां धातुप्रत्यागमतः परिहाण्या वा कथमुत्पत्तिः
स्यात् ! नहि तेषां प्राप्तिरस्ति; अनुत्पन्ननिरुद्धत्वात् ।
सहजप्राप्तिहेतुका चेत् । का ? तेषामुत्पत्तिरधिकृता । सहजा या प्राप्तिरिदानी-
मुत्पद्यते सा तेषां जनिकेति । आह—जातिरिदानीं किङ्करी जातिजातिर्वेति ।
किंकरणशीला किङ्करी । जातिर्लक्ष्यं धर्मं जनयति । जातिजातिस्तु तल्लक्षणं
जाति जनयति । तेन यदि लक्ष्याणां धर्माणांमुत्पत्तितः प्राप्तिहेतुकोच्यते
तत्र जातिः किङ्करी । अथ लक्षणानाम्, उत्पत्तिस्तद्धेतुकोच्येत, तत आह—
जातिजातिर्वा किङ्करीति विकल्पः । अथवा यदि भवतेवं कल्प्येत—जातिर्धर्मं
जनयति, प्राप्तिः पुनर्जाति जनयतीति, तत्रोच्यते—जातिजातिर्वा किङ्करीति ।
सकलबन्धनानां खल्वपीति । विस्तरः—येषामेकोऽपि क्लेशप्रकारो न प्रहीणस्ते
सकलबन्धनाः, तेषा सकलबन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिप्रकार-
भेदो न स्यात् । कस्मात् ? प्राप्त्यभेदात् । विकल्पबन्धनानां हि प्राप्तिवैकल्यान्
मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदः परिकल्प्येत, न तु सकलबन्धानाम्; प्राप्तीनां
तुल्यत्वात् । यतो वा स भेद इति । ततो वा कारणादभ्यासतोऽन्यतो वा स
भेदः—कस्यचित् सकलबन्धनस्याधिमात्रः, कस्यचिन्मध्यः, कस्यचिन्मृदुः ।
तत एव भेदकारणात् तदुत्पत्तिरस्तु । तेषां मृद्वादीनां क्लेशानामुत्पत्तिः ।
तस्मान्नोत्पत्तिहेतुः प्राप्तिरिति ।
वैभाषिक आह—कश्चैवनाहेति । विस्तरः—व्यवस्थाहेतुः प्राप्तिः । असत्यां
१. ०त्पत्तिभेदो—का० । २. का० पुस्तके नास्ति ।

निर्देशः ] द्वितीयं कोशस्थानम् २१५
असत्यां हि प्राप्तौ लौकिकमानसानामार्यपृथग्जनानाम् 'आर्या इमे', 'पृथग्जना
इमे' इति न स्याद् व्यवस्थानम् ! प्रहीणाप्रहीणक्लेशताविशेषादेतद् भवितुमर्हति !
एतच्चैव कथं भविष्यति—एषां प्रहीणः क्लेशः, एषामप्रहीण इति; प्राप्तौ
सत्यामेतत् सिध्यति तद्विगमाविगमात् ? आश्रयविशेषादेतत् सिध्यति । आश्रयो हि
स आर्याणां दर्शनभावनामार्गसामर्थ्यात् तथा परावृत्तो भवति यथा न पुनस्तत्प्रहेयाणां
क्लेशानां प्ररोहसमर्थो भवति । अतोऽग्निदग्धव्रीहिवदबीजीभूत१ आश्रयः१
क्लेशानां प्रहीणक्लेश इत्युच्यते । उपहतबीजभावे वा लौकिकेन मार्गेण ।
हि प्राप्तौ लौकिकमानसानाम् इति । लोके भवं लौकिकम्, मन एव मानसम्,
लौकिकं मानसमेषां त इमे लौकिकमानसाः । आर्यपृथग्जनाः । आर्याश्च पृथ-
ग्जनाश्च । लौकिकमानसग्रहणमार्यविशेषणम् । पृथग्जना हि नित्यमेव लौकिक-
मानसाः । आसंज्ञिकासंज्ञिसमापत्त्यवस्थायां वा पृथग्जनविशेषणमपि सम्भवति ।
तेषामार्यपृथग्जनानाम् । तेषामिति निर्धारणे षष्ठी, सम्बन्धलक्षणा वा । तेषां न
स्याद् व्यवस्थानमिति परिच्छेदः । यत्कृतं व्यवस्थानं सा प्राप्तिः । प्रहीणाप्रहीण-
क्लेशताविशेषादिति । प्रहीणक्लेशा आर्याः, अप्रहीणक्लेशाः पृथग्जनाः, तद्भावः,
स एव विशेष इति प्रहीणाप्रहीणक्लेशताविशेषः, तस्मात् एतद् व्यवस्थानं
भवितुमर्हति ।
ननु च पृथग्जना अपि केचित् प्रहीणक्लेशा भवन्ति, कथमवधार्यते—आर्या
एव प्रहीणक्लेशा इति ? अत्यन्तसमुद्घातवचनादेवमुक्तम् । एतच्चैव कथमिति ।
एषां प्रहीणः क्लेशः एषामप्रहीण इति यदेतद्व्यवस्थानम्, तत् कथं भविष्यति ।
प्राप्तौ तु सत्यां क्लेशप्राप्त्या एतत्सिध्यति व्यवस्थानम्; तद्विगमाविगमात् क्लेश-
प्राप्तिविगमाविगमात् । छेदाच्छेदादित्यर्थः । येषां तत्प्राप्तिविगमाः ते आर्याः,
येषामविगमाः ते पृथग्जना इति । ननु च पृथग्जनानामपि केषाञ्चित् क्लेश-
प्राप्तिर्विगता ? विगता, न तु लोकोत्तरेण मार्गेण । स तर्हि लोकोत्तरमार्गकृतो
विशेषः कथं परिच्छिद्यते ? लोकोत्तरेणेयं क्लेशप्राप्तिर्विगता, लौकिकेनेयमिति;
सास्रवानास्रवविसंयोगप्राप्तिभेदात् । आश्रयविशेषादेतत्सिध्यतीति । आत्म-
भावविशेषादेतद्व्यवस्थानम्—एषां प्रहीणः क्लेशः, एषामप्रहीणः क्लेश इति
सिद्ध्यति । तथा परावृत्त इति । तथान्यथाभूतः । तत्प्रहेयाणां दर्शनभावना-
मार्गप्रहेयाणाम् । अग्निदग्धव्रीहिवदिति । यथा अग्निदग्धो व्रीहिरबीजभूतो
भवति, एवं यथोक्तेन न्यायेनाबीजीभूत आश्रयः क्लेशानां प्रहीणक्लेश इत्युच्यते ।
१-१. ०भूते आश्रये—का ।

..."!
Wait, look at the ra-phala: "तदुत्पत्तेर्वशित्वाविघातात्".
Wait, is it "तदुत्पत्तेर्" or "तदुत्पत्तौ"?
It has an e-matra and a repha: "तदुत्पत्तेर्"!
Then: "वशित्वाविघातात् समन्वगतः—का० ।"

Let's double check all punctuation and hyphens:
L1: २१६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
L2: विपर्ययादप्रहीणक्लेशः । यश्चाप्रहीणस्तेन समन्वगतः, यश्च१· प्रहीणस्तेनासमन्वा-
Wait, is it "यश्च १·" or "यश्च १"?
Look at L2: "यश्च १·" - there is a footnote marker '१' and a dot/hyphen: "१·" or "१"?
Actually it looks like "यश्च१·" or "यश्च १". Let's write "यश्च१·".
L3: गत इति प्रज्ञप्यते ।
L4: कुशला अपि२ द्विप्रकाराः—अयत्नभाविनः, यत्नभाविनश्च; ये त
L5: उच्यन्ते—उत्पत्तिप्रतिलम्भिकाः, प्रायोगिकाश्चेति । तत्रायत्नभाविभिराश्र

तस्माद् बीजमेवात्रानपोद्धृतमनुपहतं परिपुष्टं¹ च वशित्वकाले समन्वगमाख्यां
लभते, नान्यद् द्रव्यम् ॥
किं पुनरिदं बीजं नाम ? यन्नामरूपं फलोत्पत्तौ समर्थं साक्षात् पारम्पर्येण
वा; सन्ततिपरिणामविशेषात् ।
कोऽयं परिणामो नाम ? सन्ततेरन्यथात्वम् ।
का चेयं सन्ततिः ? हेतुफलभूतास्त्रैयध्विकाः संस्काराः ।
²यत्र तूक्तम्—"लोभेन समन्वगतोऽभव्यश्चत्वारि स्मृत्युपस्थानानि उत्पाद-
यितुम्³" ( ) इति ? तत्राधिवासनं लोभस्याविनोदनं वा
समन्वगमः । यावद्धि तस्याधिवासकोऽविनोदको भवति तावद् भव्यस्तानि
यस्मादेवं तस्माद्बीजमेव शक्तिविशेष एवात्र समन्वगावस्थायामनपोद्धृतं
क्लिष्टानां धर्माणामार्यमार्गेण, अनुपहतं लौकिकमार्गेण । अयत्नभाविनां च
कुशलानां धर्माणां मिथ्यादृष्ट्या । परिपुष्टं च वशित्वकाले । यत्नभाविनां
कुशलानां बीजमिति प्रकृतम् । समन्वगमाख्यां लभते । नान्यद् द्रव्यं यद्
वैभाषिकैः कल्पितम् ।
किं पुनरिदं बीजं नामेति द्रव्याशङ्कया पृच्छति । यन्नामरूपं फलोत्पत्तौ
समर्थम् । यत् पञ्चस्कन्धात्मकं रूपं फलोत्पत्तिसमर्थम् । साक्षादनन्तरम् । पार-
म्पर्येण दूरतः ।
कोऽयं परिणामो नामेति सांख्यीयपरिणामाशङ्कया पृच्छति । सन्ततेरन्यथात्व-
मिति । अन्यथोत्पादः । का चेयं सन्ततिरिति । किं यथा सांख्यानामवस्थित-
द्रव्यस्य धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भावः, तथावस्थायिन्याः सन्ततेरन्य-
थात्वमिति ? नेत्युच्यते । किं तर्हि ? हेतुफलभूता । हेतुश्च फलं च हेतुफलम् ।
हेतुफलमिति नैरन्तर्येण प्रवृत्तास्त्रैयध्विकाः संस्काराः सन्ततिरिति व्यवस्थाप्यन्ते ।
यत्र तूक्तमिति । विस्तरः—यत्र तु सूत्र उक्तम् । किम् ? इत्याह—लोभेन
समन्वंगतोऽभव्योऽयोग्यश्चत्वारि स्मृत्युपस्थानानि कायस्मृत्युपस्थानादीनि
उत्पादयितुमिति । यदि बीजं प्राप्तिः ? बीजं नित्यमस्तीति स्मृत्युपस्थानोत्पत्तिर्न
स्यात् । भवदीयायामपि प्राप्तौ तदुत्पत्तिर्न स्यादिति तुल्यमेतत् । तस्मादुभा-
भ्यामपि वक्तव्यम् ।
तत्राधिवासनं लोभस्याविनोदनं वा समन्वगम इति । अधिवासनम्=अभ्यनु-
१. परिपूष्टं—फा० । २. यत्—का० ।
३. भावयितुम्—का० ।

२१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-

भावयितुम् । एवमयं समन्वागमः सर्वथा प्रज्ञप्तिधर्मः, न तु द्रव्यधर्मः । तस्य
च प्रतिषेधोऽसमन्वागम इति ।
द्रव्यमेव तु वैभाषिकाः उभयं वर्णयन्ति । किं कारणम् ? एष हि नः
सिद्धान्त इति ॥ ३६ ॥
ज्ञानम्, अविनोदनम्, अव्युपशमनम् । सर्वथा प्रज्ञप्तिधर्मो न द्रव्यधर्म इति । सर्व-
प्रकारेण—यद्युत्पत्तिहेतुर्यदि व्यवस्थाहेतुर्यद्याश्रयविशेषो यद्यधिवासनमविनोदनं
वा, सर्वथा प्रज्ञप्तिधर्मः । प्रज्ञप्त्या संवृत्या व्यवहारेण धर्मः प्रज्ञप्तिधर्मः । न
द्रव्यधर्मः न द्रव्यतो धर्मः, स्वभाव इत्यर्थः । अथ वा—द्रव्यं च तद्धर्मश्च स
द्रव्यधर्मः । न रूपादिवत् विद्यमानस्वलक्षणो धर्मः इत्यर्थः। तस्य च प्रतिषेधः ।
तस्य च प्रज्ञप्तिधर्मस्य प्रतिषेधोऽसमन्वागम इति ।
“इदमस्येति ज्ञानचिह्नं प्रतिलब्धधर्माविप्रणाशकारणं च प्राप्तिः” इत्याचार्य-
सङ्घभद्रः ।
'इदमस्येति ज्ञानचिह्नम्' इत्यसिद्धमेतत्, आश्रयविशेषेण तज्ज्ञानमिति
ब्रूमः । यदि च प्रतिलब्धधर्माविप्रणाशकारणं प्राप्तिरिष्यते ? प्राप्तपरित्यागो नैव
स्यात्, भवति च । तस्मादकारणमेतत् ।
स एव च शक्तिविशेषलक्षणं बीजभावमाचार्येण व्यवस्थापितं दूषयति—
किमयं शक्तिविशेषश्चित्तादर्थान्तरम् ? उतानर्थान्तरम् ? किं चातः ? अर्थान्तरं
चेत्, प्राप्तिरस्तीति, संज्ञामात्रे तु विवादः । अनर्थान्तरं चेत् ? नन्वकुशलं
कुशलस्य बीजमभ्युपगतं भवति, अकुशलस्य च कुशलम् । को हि नामोष्ण्यस्य
तेजसोऽनर्थान्तरत्वे सत्योष्ण्यमेव दाहकमध्यवस्येन्न तेजः ! कुशलबीजं ह्यकुशले
चेतस्यव्याकृते वा वर्तते । एवमकुशलबीजं कुशले चेतस्यव्याकृते वा वर्तते ।
तथैव चाव्याकृतबीजमपि कुशले चाकुशले च वर्तते । सास्रवबीजं चानास्रवे,
अनास्रवबीजं च सास्रवे चेतसि वर्तते—इति साङ्कर्यदोषः प्रसज्यत इति ?
अत्र वयं ब्रूमः—अनर्थान्तरभावे माकर्यदोषो भवेत् । तत्तु बीजं न चित्ता-
दर्थान्तरं वक्तव्यम्, नाप्यनर्थान्तरम्; उपादायप्रज्ञप्तिरूपत्वात् । अथाप्यनर्था-
न्तरभावः, तथाप्यदोषः; कुशलेन हि चित्तेनोत्पन्नेन स्वजातीयेऽन्यजातीये
वा स्वसन्तानचित्ते बीजमाधीयेत, ततः कारणविशेषात् कार्यविशेष इति
विशिष्टम्, तेन तच्चित्तमुत्पद्येत । तद्विशिष्टं चित्तं कुशलबीजकार्यक्रियायां समर्थ-
मुत्पद्येत । एवमकुशलेनापि स्वजातीयेऽन्यजातीये वा स्वसन्तानचित्ते बीज-
माधीयेत, तच्च तेन विशिष्टमकुशलबीजकार्यक्रियाया समर्थमुत्पद्येत । एवम-
व्याकृतेनापि चित्तेन स्वजातीये अन्यजातीये वा स्वसन्तानचित्ते बीजमाधी-

[निर्देशः ] द्वितीयं कोशस्थानम् २१६

सा क्लिष्टा प्राप्तिः
त्रैधातुक्या सा त्रिविधा


येत, तत्रापि तेन किञ्चिद्रव्याकृतवीर्यकार्यक्रियायां समर्थमुत्पद्येत। सास्रवे-
णाप्यनास्रवे चित्ते बीजमाधीयेत, अनास्रवेणापि सास्रवे। इत्येवमन्योन्यबीजा-
धायकमन्योन्यजनकं च चित्तं चित्तान्तरादुत्पद्यमानमन्योन्यवास्यवासकत्वेन
प्रवर्त्तते। न च कुशले नाकुशले चित्ते शक्तिविशेष आहित इति तदकुशलं
कुशलतामापद्यते, कुशलं वा तदकुशलताम्; शक्तिविशेषमात्रत्वात्। शक्तिबीजं
वासनेत्येकोऽयमर्थः। एवमकुशलादिवासनापि वक्तव्या। यावत् सास्रवेणानास्रवे
शक्तिविशेषाधानेऽपि, अनास्रवेणापि सास्रवे शक्तिविशेषाधाने। न तत्
सास्रवमनास्रवं सम्पद्यते, अनास्रवं वा सास्रवमिति। भवतामपि वैभाषिकाणामिदं

२१० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-

अतीतानां धर्मार्णामतीतापि प्राप्तिरस्ति, अनागतापि, प्रत्युत्पन्नापि ।
एवमनागत-प्रत्युत्पन्नानां प्रत्येकं त्रिविधा ।
शुभादीनां शुभादिका ।
कुशलाकुशलाव्याकृतानां कुशलाकुशलाव्याकृतैव यथाक्रमं प्राप्तिः ।
स्वधातुका तदाप्तानां
ये धर्मास्तद्धात्वाप्तास्तेषां स्वधातुका प्राप्तिः । कामरूपारूप्यावचराणां
कामरूपारूप्यावचरी यथाक्रमम् ।
अनाप्तानां चतुर्विधा ॥ ३७ ॥
· अतीतानां धर्मार्णामतीतापि प्राप्तिरिति । विस्तरः—अतीतानां धर्माणां तद्यथा
क्लिष्टानामतीता प्राप्तिः । या उत्पन्ननिरुद्धा साग्रजापि सम्भवति, सहजापि,
पश्चात्कालजापि । तेषामेवानागता प्राप्तिरनुत्पन्ना । प्रत्युत्पन्ना या पश्चात्कालजा
उत्पन्नानिरुद्धा । अनागतानामपि प्राप्तिरतीता याग्रजोत्पन्ननिरुद्धा, अनागता
यानुत्पन्ना, प्रत्युत्पन्ना अग्रजोत्पन्नानिरुद्धा । तथा प्रत्युत्पन्नानामप्यतीता प्राप्तिर्या-
ग्रजोत्पन्ननिरुद्धा, अनागता यानुत्पन्ना, प्रत्युत्पन्ना या सहजा । अतीतादि-
जातिसामान्यं च गृहीत्वैवमुक्तम् । न त्वेकस्यातीतस्यावश्यं त्रिविधा प्राप्तिरस्ति ।
न हि विपाकजस्यानागतातीता वा प्राप्तिः सम्भवति; “अव्याकृताप्तिः सहजा”
( अभि० को० २.३८) इति वचनात् । यदि तु प्रतिद्रव्यं प्राप्तिव्यवस्था
क्रियेत, सम्भवं प्रत्येतदेवं भवेत् । क्लिष्टानामुत्पत्तिप्रतिलम्भिकानां च कुशला-
नामतीतादीनामतीतादयः प्राप्तयोऽवश्यं भवन्ति । न हि पृथग्जनस्यानुत्प-
न्नस्यानास्रवस्य मार्गस्यातीता प्रत्युत्पन्ना च प्राप्तिरस्ति । सापवादश्चायमुत्सर्गो-
ऽवगन्तव्यः; “अव्याकृताप्तिः सहजा” ( अभि० को० २.३८) इति वचनात् ।
असंस्कृतानां तु प्राप्तिरुत्पन्ननिरुद्धातीता, अनुत्पन्नानागता, उत्पन्नानिरुद्धा
प्रत्युत्पन्ना । सुगमत्वात् न सूत्रितमेतत् ।
कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रममिति । कामधातूप-
पन्नस्य कामावचराणां धर्माणां कामावचरी प्राप्तिः । तस्यैव रूपावचराणां
रूपावचरी । तस्यैवारूप्यावचराणा मारूप्यावचरी रूपधातूपपन्नस्य च कामा-
वचराणाम् । तद्यथा निर्माणचित्तानां कामावचरी, रूपावचराणां रूपावचरी,
आरूप्यावचराणा मारूप्यावचरी । आरूप्यधातूपपन्नस्य तद्धातुकानां तद्धातु-
कैव प्राप्तिः ।

निर्देशः ] द्वितीयं कोशस्थानम् २२१
अधात्वाप्तानामनास्रवाणां धर्माणां चतुर्विधा प्राप्तिः। समासेन त्रैधातुकी चाना-
स्रवा च। तत्राप्रतिसंख्यानिरोधस्य त्रैधातुकी, प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी
च, अनास्रवा च। मार्गसत्यस्यानास्रवैव। सेयं समस्य चतुर्विधा भवति ॥३७॥
शैक्षाणां धर्माणां शैक्ष्यैव प्राप्तिः, अशैक्षाणामशैक्ष्यैव। नैवशैक्षानाशैक्षाणां तु
भेदः, स निर्दिश्यते—
त्रिधा नशैक्षाऽशैक्षाणां
नैवशैक्षानाशैक्षा धर्मा उच्यन्ते—सास्रवा धर्माः, असंस्कृतं च। तेषां
शैक्षादिभेदेन त्रिविधा प्राप्तिः।
सास्रवाणां तावत् नैवशैक्षानाशैक्षी प्राप्तिः।
अप्रतिसंख्यानिरोधस्य च प्रतिसंख्यानिरोधस्य चानार्येण प्राप्तस्य।
“अनास्रवानां चतुर्विधा” इति। अधात्वाप्तानां संस्कृतासंस्कृतानामनास्रवाणां
चतु

२२२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
तस्यैव शैक्षेण मार्गेण प्राप्तस्य शैक्षी, अशैक्षेणाशैक्षी।
दर्शनभावनाहेयानां यथाक्रमं दर्शनभावनाहेयैव प्राप्तिः ॥
अहेयानां तु भेदः । स निर्दिश्यते—
अहेयानां द्विधा मता ।
अप्रहेया धर्मा अनास्रवाः ।
अनार्यप्राप्तस्य च प्रतिसंख्यानिरोधस्य । तस्यैवार्यमार्गप्राप्तस्यानास्रवा अहेया,
मार्गसत्यस्य च ।
यदुक्तम्—"त्रैयध्विकानां त्रिविधा" (अ० को० २.३७) इति,
तस्योत्सर्गस्यायमपवादः—
अव्याकृताप्तिः सहजा
अनिवृताव्याकृतानां सहजैव प्राप्तिः, नागजा, न पश्चात्कालजा; दुर्बलत्वात् ।
तेन तेषामतीतानामतीतैव, यावत् प्रत्युत्पन्नानां प्रत्युत्पन्नैव ।
किं सर्वस्यैवानिवृताव्याकृतस्य ? न सर्वस्य ।
अभिज्ञानैर्माणिकादृते ॥ ३८ ॥
द्वे अभिज्ञे अव्याकृते निर्माणचित्तं च वर्जयित्वा । तेषां हि बलवत्त्वात्
प्राप्तस्य । तस्यैव शैक्षेणेति । तस्यैव प्रतिसंख्यानिरोधस्य शैक्षेण मार्गेण प्राप्तस्य
शैक्षी । अशैक्षेणाशैक्षी । क्षयज्ञानसम्प्रयुक्तेन मार्गेण प्राप्तस्य, विसंयोगप्राप्ति-
संनिश्रयत्वात् क्षयज्ञानस्य । यद्यपि स वज्रोपमेन शैक्षेण प्राप्यते तदावाह-
कत्वात्, तत्प्राप्तवचने तु शैक्ष्याः प्राप्तेरशैक्षी प्राप्तिर्विशेषिता स्यादिति न तेन
शैक्षेणाशैक्षीत्युक्तम् । तस्यैवार्यमार्गप्राप्तस्यानास्रवेति । तस्यैव प्रतिसंख्यानिरोध-
स्यार्यमार्गप्राप्तस्यानास्रवा। मार्गसत्यस्य चानास्रवा । प्राप्तिरित्यधिकृतम्। आर्येण
लौकिकमार्गप्राप्तस्य प्रतिसंख्यानिरोधस्य प्राप्तिः किं सास्रवा ? उताहोऽनास्रवा ?
उभयेत्याह । सा कस्मान्नोक्ता ? सावशेषं भाष्यम्, पश्चाद् दर्शयिष्यते—
"लौकिकेनायं वैराग्ये विसंयोगाप्तयो द्विधा" (अभि० को० ६. ४७) इति
नोच्यते। या त्वसंकीर्णा प्राप्तिः सैवेहोच्यत इति वेदितव्यम् ।
दुर्बलत्वादिति । अनभिसंस्कारवत्त्वाद् दुर्बलत्वम् ।
द्वे अभिज्ञे इति । दिव्यचक्षुरभिज्ञाम्, दिव्यश्रोत्राभिज्ञाम् । निर्माणचित्तं च
वर्जयित्वा । किम् ? "अव्याकृताप्तिः सहजा" इति सम्बन्धनीयम् । तेषां हि

निर्देशः ] द्वितीयं कोशस्थानम् २२३
प्रयोगविशेषनिष्पत्तेः पूर्वं पश्चात् सहजा प्राप्तिः । शैल्पस्थानिकस्यापि कस्य-
चिदैर्यापथिकस्य चात्यर्थमभ्यस्तस्येच्छन्ति¹ ॥ ३८ ॥
किमनिवृताव्याकृतस्यैव ²सहजप्राप्तिः ? इत्याह—
निवृत्तस्य च रूपस्य
निवृताव्याकृतस्यापि विज्ञप्तिरूपस्य सहजैव प्राप्तिः, अधिमात्रेणाप्य-
विज्ञप्त्यनुत्थापनाद्दौर्बल्यसिद्धेः ।
यथा अव्याकृतानां धर्माणामयं प्राप्तिभेदः, किमेवं कुशलाकुशलानामपि
कश्चित् प्राप्तिभेदोऽस्ति ? अस्तीत्याह ।
कामरूपस्य³ नाग्रजा ।
कामावचरस्य विज्ञप्त्यविज्ञप्तिरूपस्याग्रजा प्राप्तिः सर्वथा नास्ति । सहजा
चास्ति, पश्चात्कालजा च ।
बलवत्त्वादिति । विस्तरः—तेषां हि दिव्यचक्षुरभिज्ञादीनां बलवत्त्वात् । किम् ?
पूर्वपश्चात् सहजा प्राप्तिः । प्रयोगविशेषनिष्पत्तेरिति । प्रयोगविशेषेण निष्पत्ति-
दिव्यचक्षुरभिज्ञादीनाम्, तस्याः प्रयोगविशेषनिष्पत्तेर्बलवत्त्वम् । बलवत्त्वात्
पूर्वपश्चात्सहजा प्राप्तिरित्यर्थसम्बन्धः । शैल्पस्थानिकस्यापि कस्यचित्, तद्यथा
विश्वकर्मणः । ऐर्यापथिकस्य च । तद्यथा स्थविरस्याश्वजितः । अत्यर्थम-
भ्यस्तस्य भृशमात्मसात्कृतस्येच्छन्ति वैभाषिकाः । किम् ? पूर्वपश्चात्सहजा
प्राप्तिरिति ॥ ३८ ॥
“निवृत्तस्य च रूपस्य” इति । च-शब्दः समुच्चयार्थः । प्राप्तिः सहजेति समु-
च्चीयते । तच्च क्लिष्टं रूपं प्रथमध्यानभूमिकमेव विज्ञप्तिरूपं वेदितव्यम्;
ततोऽन्यासु भूमिषु तदुत्थापकाभावात् । अधिमात्रेणापीति । विस्तरः—अधिमात्रे-
णापि चित्तेन निवृत्ता विज्ञप्तिरुत्थापिता । तदेव चाधिमात्रं विज्ञप्तिचित्त-
मविज्ञप्ति नोत्थापयति । अतो दौर्बल्यसिद्धिः । तस्याः दौर्बल्यसिद्धेः सहजैव
प्राप्तिः । प्राप्तिभेद इति । विपाकजादीनामनि Nervृताव्याकृतानां सहजा प्राप्तिः,
अभिज्ञाद्वयादीनां तु पूर्वपश्चात्सहजा प्राप्तिरिति तद्भेदः ।
“कामरूपस्य नाग्रजा” इति । कामावचरस्य कुशलाकुशलस्य विज्ञप्त्यविज्ञ-
प्तिरूपस्याग्रजा प्राप्तिः सर्वथा नास्ति । यदि कुशलस्य यद्यकुशलस्य, नास्त्येव
सर्वथेत्यर्थः । सहजा चास्ति पश्चात्कालजा चेति । सम्भवतः । तद्यथा प्रथमस्य
१. अत्यर्थ०—का० । २. सहजा प्राप्ति.—का० । ३ कामे रूपस्य—का० ।

२२७ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
तस्यैव शैक्षेण मार्गेण प्राप्तस्य शैक्षी, अशैक्षेणाशैक्षी ।
दर्शनभावनाहेयानां यथाक्रमं दर्शनभावनाहेयैव प्राप्तिः ॥
अहेयानां तु भेदः । स निर्दिश्यते—
अहेयानां द्विधा मता ।
अप्रहेया धर्मा अनास्रवाः । भावनाहेया प्राप्तिः,
अनार्यप्राप्तस्य च प्रतिसंख्यानिरोधस्य । तस्यैवार्यमार्गप्राप्तस्यानास्रवा अहेया,
मार्गसत्यस्य च ।
यदुक्तम्—“त्रैयध्विकानां त्रिविधा” ( अ० को० २.३७ ) इति,
तस्योत्सर्गस्यायमपवादः—
अव्याकृताप्तिः सहजा
अनिवृताव्याकृतानां सहजैवाप्तिः, नाग्रजा, न पश्चात्कालजा; दुर्बलत्वात् ।
तेन तेषामतीतानामतीतैव, यावत् प्रत्युत्पन्नानां प्रत्युत्पन्नैव ।
किं सर्वेषामैवानिवृताव्याकृतस्य ? न सर्वस्य ।
अभिज्ञानैर्माणिकादृते ॥ ३८ ॥
द्वे अभिज्ञे अव्याकृते निर्माणचित्तं च वर्जयित्वा । तेषां हि बलवत्त्वात्
प्राप्तस्य । तस्यैव शैक्षेणेति । तस्यैव प्रतिसंख्यानिरोधस्य शैक्षेण मार्गेण प्राप्तस्य
शैक्षी । अशैक्षेणाशैक्षी । क्षयज्ञानसम्प्रयुक्तेन मार्गेण प्राप्तस्य, विसंयोगप्राप्ति-
सन्निश्रयत्वात् क्षयज्ञानस्य । यद्यपि स वज्रोपमेन शैक्षेण प्राप्यते तदावाह-
कत्वात्, तत्प्राप्तवचने तु शैक्ष्याः प्राप्तेरशैक्षी प्राप्तिविशेषिता स्यादिति न तेन
शैक्षेणाशैक्षीत्युक्तम् । तस्यैवार्यमार्गप्राप्तस्यानास्रवन्ति । तस्यैव प्रतिसंख्यानिरोध-
स्यार्यमार्गप्राप्तस्यानास्रवा । मार्गसत्यस्य चानास्रवा । प्राप्तिरित्यधिकृतम् । आर्येण
लौकिकमार्गप्राप्तस्य प्रतिसंख्यानिरोधस्य प्राप्तिः किं सास्रवा ? उताहोऽनास्रवा ?
उभयेत्याह । सा कस्मान्नोक्ता ? सावशेषं भाष्यम्, पश्चाद् दर्शयिष्यते—
“लौकिकेनायवैराग्ये विसंयोगाप्तयो द्विधा” ( अभि० को० ६. ४७ ) इति
नोच्यते । या त्वसंकीर्णा प्राप्तिः सैवेहोच्यत इति वेदितव्यम् ।
दुर्बलत्वादिति । अनभिसंस्कारवत्त्वाद् दुर्बलत्वम् ।
द्वे अभिज्ञे इति । दिव्यचक्षुरभिज्ञाम्, दिव्यश्रोत्राभिज्ञाम् । निर्माणचित्तं च
वर्जयित्वा । किम् ? “अव्याकृताप्तिः सहजा” इति सम्बन्धनीयम् । तेषां हि

निर्देशः ] द्वितीयं कोशस्थानम् २२३
प्रयोगविशेषनिष्पत्तेः पूर्वं पश्चात् सहजा प्राप्तिः । शैल्यस्थानिकस्यापि कस्य-
चिदैर्यापथिकस्य चात्यर्थमभ्यस्तस्येच्छन्ति¹ ॥ ३८ ॥
किमविवृताव्याकृतस्यैव ²सहजप्राप्तिः ? इत्याह—
निवृतस्य च रूपस्य
निवॄताव्याकृतस्यापि विज्ञप्तिरूपस्य सहजैव प्राप्तिः, अधिमात्रेणाप्य-
विज्ञप्त्यनुत्थापनाद्दौर्बल्यसिद्धेः ।
यथा अव्याकृतानां धर्माणामयं प्राप्तिभेदः, किमेवं कुशलाकुशलानामपि
कश्चित् प्राप्तिभेदोऽस्ति ? अस्तीत्याह ।
कामरूपस्य³ नाग्रजा ।
कामावचरस्य विज्ञप्त्यविज्ञप्तिरूपस्याग्रजा प्राप्तिः सर्वथा नास्ति । सहजा
चास्ति, पश्चात्कालजा च ।
बलवत्त्वादिति । विस्तरः—तेषां हि दिव्यचक्षुरभिज्ञादीनां बलवत्त्वात् । किम् ?
पूर्वंपश्चात् सहजा प्राप्तिः । प्रयोगविशेषनिष्पत्तेरिति । प्रयोगविशेषेण निष्पत्ति-
दिव्यचक्षुरभिज्ञादीनाम्, तस्याः प्रयोगविशेषनिष्पत्तेर्बलवत्त्वम् । बलवत्त्वात्
पूर्वंपश्चात्सहजा प्राप्तिरित्यर्थसम्बन्धः । शैलपस्थानिकस्यापि कस्यचित्, तद्यथा
विश्वकर्मणः । ऐर्यापथिकस्य च । तद्यथा स्थविरस्याश्वजितः । अत्यर्थम-
भ्यस्तस्य भृशमात्मसात्कृतस्येच्छन्ति वैभाषिकाः । किम् ? पूर्वंपश्चात्सहजा
प्राप्तिरिति ॥ ३८ ॥
“निवृतस्य च रूपस्य” इति । च-शब्दः समुच्चयार्थः । प्राप्तिः सहजेति समु-
च्चीयते । तच्च क्लिष्टं रूपं प्रथमध्यानभूमिकमेव विज्ञप्तिरूपं वेदितव्यम्;
ततोऽन्यास भूमिक्षु तदुत्थापकाभावात् । अधिमात्रेणापीति । विस्तरः—अधिमात्रे-
णापि चित्तेन निवृत्ता विज्ञप्तिरुत्थापिता । तदेव चाधिमात्रं विज्ञप्तिवित्त-
मविज्ञप्तिं नोत्थापयति । अतो दौर्बल्यसिद्धिः । तस्याः दौर्बल्यसिद्धेः सहजेव
प्राप्तिः । प्राप्तिभेद इति । विपाकजादीनामविवृताव्याकृतानां सहजा प्राप्तिः,
अभिज्ञाद्वयादीनां तु पूर्वंपश्चात्सहजा प्राप्तिरिति तद्भेदः ।
“कामरूपस्य नाग्रजा” इति । कामावचरस्य कुशलकुशलस्य विज्ञप्त्यविज्ञ-
प्तिरूपस्याग्रजा प्राप्तिः सर्वथा नास्ति । यदि कुशलस्य यद्यकुशलस्य, नास्त्येव
सर्वथेत्यर्थः । सहजा चास्ति पश्चात्कालजा चेति । सम्भवतः । तद्यथा प्रथमस्य
१. अत्यर्थं०—का० । २. सहजा प्राप्ति.—का० । ३ कामे रूपस्य—का० ।

२२४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
किमप्राप्तेरपि प्राप्तिवत् प्रकारभेदः ? नेत्याह । किं तर्हि ?
अक्लिष्टाव्याकृताऽप्राप्तिः
अप्राप्तिरनिवृताव्याकृतैव सर्वा । अध्वभेदेन पुनः
साऽतीताजातयोस्त्रिधा ॥ ३९ ॥
प्रत्युत्पन्नस्य नास्त्यप्राप्तिः प्रत्युत्पन्ना । अतीतानागतयोस्तु त्रैयध्विकी ॥ ३९॥
कामाद्याप्तामलानां च
‘त्रिविधा’ इति वर्तते । कामाप्तानां कामरूपारूप्यावचरी । एवं रूपा-
रूप्याप्तानामनास्रवाणां च नास्त्यनास्रवा काचिदप्राप्तिः । तथा हि—
विज्ञप्त्यविज्ञप्तिक्षणस्यादौ सहजा प्राप्तिर्भवति । द्वितीयादिषु क्षणेषु तस्यैवाद्यस्य
क्षणस्य पश्चात्कालजा भवति । एवमन्येषामपि द्वितीयादीनां क्षणानां सहजा
पश्चात्कालजा प्राप्तिर्वेदितव्या । कामावचरस्यैव रूपस्याग्रजा प्राप्तिप्रतिषेधाद्
ध्यानानास्रवसंवररूपस्याग्रजा प्राप्तिरस्त्येवेत्युत्सृष्टा भवति ।
अप्राप्तिरनिवृताव्याकृतैव सर्वा । कस्माद्व्यवस्थाप्यते ? यद्यप्राप्तिः क्लेशानां
क्लिष्टा भवेत्, प्रहीणक्लेशस्य क्लेशवदेव न स्यात् । यदि कुशला स्यात्, समु-
च्छिन्नकुशलमूलस्य न स्यात् । अनास्रवाणां धर्मानामप्राप्तिरनास्रवा स्यात् ।
किं स्यात् ? पृथग्जनो न स्यात्; नित्यमार्यधर्मसमन्वागतत्वात् । पारिशेष्याद-
निवृताव्याकृतैवाप्राप्तिरिति व्यवस्थाप्यते । प्रत्युत्पन्नस्य नास्त्यप्राप्तिः प्रत्युत्प-
न्नेति । प्रत्युत्पन्नस्य धर्मस्य प्राप्तिर्वर्तते । तस्मादस्याप्राप्तिर्नास्ति प्रत्युत्पन्ना;
तस्य प्राप्यप्राप्त्योः समवधानासम्भवात् । अतीतानागतयोस्तु त्रैयध्विकीति ।
अप्राप्तानां प्राप्तिविहीनानां च प्रायोगिकाणां गुणानामनागतानां च चक्षुरादीना-
मपि च येषां प्राप्तिर्नास्ति, अतीताप्यस्त्यप्राप्तिः, अनागतापि, प्रत्युत्पन्नापि ।
स्रोतोम्बुन्यायेन हि तेषामप्राप्तिरुत्पद्यते निरुध्यते अनागतावस्थानेति ॥ ३९ ॥
“कामाद्याप्तामलानां च” इति । “त्रिधा” इत्यनुकर्षणार्थश्चकारः । कामा-
दिषु धातुष्वाप्ता अभियुक्ताः कामाद्याप्ताः, कामाद्याप्तानाममलानां चाप्राप्ति-
स्त्रिविधा, उपपन्नाश्रयवशेन तदुद्भवद्भावात् । धर्मसहाव्यवस्थापिनी ह्यप्राप्तिः,
न प्राप्तिवद्धर्मवशेन व्यवस्थाप्यते । तद्यथा—कामधातूपपन्नस्य कामरूपारूप्या-
वचराणामनास्रवाणां च धर्मानामप्राप्तिः कामावचरी, रूपधातूपपन्नस्य रूपा-
वचरी, आरूप्यधातूपपन्नस्यारूप्यावचरी । तद्यथा—कामधातूपपन्नस्य प्रायोगि-
काणां गुणानामुपपत्तिलाभिकानामपि कुशलसमुच्छेदावस्थायामप्राप्तिः, अवीत-
रागत्वाच्च रूपारूप्यावचराणामक्लिष्टाना मप्राप्तिः, पृथग्जनत्वाच्चानास्रवा-

निर्देशः ] द्वितीयं कोशस्थानम् २२५
मार्गस्याप्राप्तिरिष्यते ।
पृथग्जनत्वम्
“पृथग्जनत्वं कतमत् ? आर्यधर्माणामलाभः” ( ) इति
शास्त्रपाठः। अलाभश्च नामाप्राप्तिः। न च पृथग्जनत्वमनास्रवं भवितुमर्हति ।
कतमेषामार्यधर्माणामलाभः ? सर्वेषाम्; अविशेषवचनात् । स तु यो विना
लाभेनालाभः । अन्यथा हि बुद्धोऽपि श्रावकप्रत्येकबुद्धसान्तानिकैरसमन्वागमाद्¹
अनार्यः स्यात् । एवशब्दस्तर्हि पठितव्यः ? न पठितव्यः । एकपदान्यपि
ह्यवधारणानि भवन्ति, तद्यथा—अब्भक्षः, वायुभक्ष इति ।


णामप्राप्तिः कामावचरी । तथा रूपधातूत्पन्नस्य कामावचराणां भूमिसञ्चार-
त्यक्तानां रूपारूप्यावचराणां च प्रायोगिकाणां गुणानां पृथग्जनत्वाच्चा-
नास्रवाणामप्राप्ती रूपावचरी । तथैव चारूप्यधातूत्पन्नस्य कामरूपावचराणां
भूमिसञ्चारत्यक्तानामारूप्यावचराणां च प्रायोगिकाणां गुणानां पृथग्जनत्वादेव
चानास्रवाणामप्राप्तिरारूप्यावचरीति नेयम् ।
पृथग्जनत्वं कतमत् ? आर्यधर्माणामलाभ इति । अनेन शास्त्रपाठनानास्रवत्वा-
भावमप्राप्तेर्दर्शयति ।
कतमेषामार्यधर्माणामलाभ इति । 'आर्यधर्मा दुःखेदर्मज्ञानक्षान्तिमारभ्य
सर्वोऽनास्रवो मार्गः' इति । अत एवं पृच्छति । सर्वेषामविशेषवचनादिति ।
सर्वेषां दुःखेदर्मज्ञानक्षान्त्यादीनां शैक्षाशैक्षज्ञानानामलाभः । कस्मात् ?
अविशेषितत्वात् । यद्येवम्, उत्पन्नायामपि दुःखेदर्मज्ञानक्षान्तौ परिशिष्टा-
नामार्यधर्माणामलाभोऽस्यास्तीत्यनार्यः स्यात् ? तस्मादिदमाह—स तु यो विना
लाभेनेति । यो विना लाभेनालाभः, तत् पृथग्जनत्वमिति । अन्यथा हीति ।
विस्तरः—यद्यार्यधर्माणां लाभेऽपि सत्यन्येषामपि धर्माणामलाभः पृथग्जनत्व-
मिष्यते, बुद्धोऽपि श्रावकप्रत्येकबुद्धसन्तानिकैर्धर्मैरसमन्वागमादनार्यः स्यात् ।
केवलालाभग्रहणात्त्वप्रसङ्गः । एवशब्दस्तर्हि पठितव्य इति । आर्यधर्माणाम-
लाभ एवेति । एकपदान्यपि ह्यवधारणानीति केवलपदान्यपीत्यर्थः । अब्भक्षो
वायुभक्ष इति । अब्भक्ष एव, वायुभक्ष एवेति नोच्यते, एवशब्दस्य चार्थो
गम्यते, तद्वदिहापीति । अथ वा—अप एव यो भक्षयति सोऽब्भक्षः, यो वायुमेव
भक्षयति स वायुभक्ष इति । यथात्र लुप्तनिर्दिष्टस्यैवकारस्यावधारणार्थो गम्यते,
तद्वदिहाप्यलाभ एवेति ।


१. प्रत्येकबुद्धगोत्रकै०—का० ।
अभि० को० १५

२२६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
दुःखे धर्मज्ञानक्षान्तितत्सहभुवामलाभ इत्यपरे । न च तत्त्यागादनार्यत्व-
प्रसङ्गः¹ ? तदलाभस्यात्यन्तं हतत्वात् । ते तर्हि त्रिगोत्रा इति कतमेषामलाभः ?
सर्वेषाम् । एवं तर्हि स एव परिहारः । यत्नस्तर्हि व्यर्थः ? एवं तु साधु यथा
सौत्रान्तिकानाम् । कथं च सौत्रान्तिकानाम् ? "अनुत्पन्नार्यधर्मा सन्ततिः²
पृथग्जनत्वम्" इति ।
अथेयमप्राप्तिः कथं विहीयते ? यस्य या धर्मस्य प्राप्तिरसौ
तत्प्राप्तिभूमिसञ्चाराद् विहीयते ॥ ४० ॥
यथा तावदार्यमार्गस्यालाभः पृथग्जनत्वम्, तस्य लाभात् तद्विहीयते, भूमि-
सञ्चाराच्च ।
दुःखे धर्मज्ञानक्षान्तितत्सहभुवामित्यपर इति । विस्तरः—दुःखे धर्मज्ञानक्षान्ते-
स्तत्सहभुवां च वेदनादीनां धर्माणांमलाभः पृथग्जनत्वम् । अस्मिन् पक्ष उत्पन्ना-
यामपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानामार्यधर्माणामलाभोऽस्तीत्यनार्यः
स्यादिति यो दोषः उक्तः स न सम्भवति । यदा तर्हि फलप्राप्तिस्तदा दुःखे
धर्मज्ञानक्षान्तितत्सहभुवां विहानिरिति फलप्राप्तावनार्यः स्यादिति दोषपरि-
हारार्थमाह—न च तत्त्यागात् । न च तेषां क्षान्तिसहभुवां त्यागात् । अनार्यत्व-
प्रसङ्गः । तदलाभस्यात्यन्तं हतत्वात्, तस्यालाभस्यात्यन्तविहीनत्वात् । कथम् ?
असावत्यन्तं हतः, तत्सन्ताने पुनरनुत्पत्तेः । ते तर्हि त्रिगोत्रा इति । श्रावक-
प्रत्येकबुद्धबुद्धगोत्रा इति । कतमेषामलाभः ? सर्वेषामिति । श्रावकादिगोत्राणाम् ।
एवं तर्हि स एव दोष इति । बुद्धोऽपि त्रिगोत्रालाभादनार्यः स्यादित्यर्थः । पुनः स
एव परिहार इति । 'स तु यो विना लाभेन' इति पूर्ववत् प्रपञ्चो यावत् 'तद्यथा
अब्भक्षो वायुभक्षः' इति । यत्नस्तर्हि व्यर्थ इति । क्षान्तिपरिशिष्टार्यधर्मालाभ-
सद्भावादनार्यः स्यादित्यस्य दोषस्य परिहाराय 'क्षान्तितत्सहभुवामलाभः
पृथग्जनत्वम्' इति यो यत्नः, स व्यर्थः स्यात् । पूर्वपक्षदोषपरिहार एवाय-
मास्थीयते—अनुत्पन्नार्यधर्मा सन्ततिरिति । अनुत्पन्ना आर्यधर्मा अस्यामित्य-
नुत्पन्नार्यधर्मा सन्ततिः पृथग्जनत्वम् । अनुत्पन्नार्यमार्गा स्कन्धसन्ततिरित्यर्थः ।
अर्थाद् उत्पन्नार्यधर्मा सन्ततिरार्यत्वमित्युक्तं भवति; आश्रयपरावृत्तेः ।
अथेयमप्राप्तिरिति । सर्वधर्माप्राप्तिश्चोद्यते, नार्यधर्माप्राप्तिरेव । यथा
तावदिति । उदाहरणमेतत् । तस्य लाभात् तद्विहीयत इति । तस्यार्यमार्गस्य
लाभात् तत्पृथग्जनत्वमलाभलक्षणं विहीयते । किंधातुकं तत् पृथग्जनत्वम् ?
१. तद्योगाद्०—का० । २ ०र्यधर्मसन्ततिः—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २२७
एवमन्येषामपि योज्यम् ।
'विहीयते' इति तस्या अप्राप्तेरप्राप्तिरुच्यते, प्राप्तिश्छिद्यते । किं पुनरप्राप्ति-
त्रिधातुकमित्येके । ननु चोपपत्त्याश्रयवशेनलाभो व्यवस्थाप्यते, पृथग्जनत्वं
चालाभस्वभावम्, तस्मादस्य कामावचरस्य सत्त्वस्य कामावचरमेव पृथग्जन-
त्वमस्ति, न रूपारूप्यावचरम् । अतस्त्रैधातुकं विहीयत इत्ययुज्यमानमेतत्
पश्यामः ? अथ पुनरनुत्पत्तिधर्मतां तदापन्नमिति कृत्वा त्रैधातुकं तद्विहीयत
इत्युपचारकल्पना ? भवत्वेषा, नैषा वार्यते । कामावचरस्यैव त्वेकस्य पृथग्ज-
नत्वस्य प्राप्तिरस्ति । तल्लौकिकाग्रधर्मावस्थायां विहीयत इति वेद्यम् । तच्च
कामवैराग्ये नवमे विमुक्तिमार्गे प्रहीयते । रूपारूप्यधातवोत्पद्यमानस्य त्वार्यस्य
प्रतिभूम्यवस्थितानां पृथग्जनत्वानामार्यमार्गप्राप्तिसामर्थ्यान्नैव प्राप्तिरुत्पद्यते ।
प्रतिभूमि तु नवमे विमुक्तिमार्गे तेषां प्रहाणं भवतीत्यवगन्तव्यम् ।
भूमिसञ्चाराच्चेति । यदा च कामधातोर्वैराग्यं कृत्वा प्रथमं ध्यानं सञ्चरति,
तदा च तत्कामावचरं पृथग्जनत्वं विहीयते । न चार्यो भवति; प्रथमध्यान-
भूमिकपृथग्जनत्वप्रादुर्भावात् । एवमारूप्यधातुसञ्चाराद् रूपावचरं पृथग्जनत्वं
विहीयते । ऊर्ध्वभूमेरचाधरां भूमिं सञ्चरते । ऊर्ध्वभूमिकं पृथग्जनत्वं विहीयत
इति वक्तव्यम् । एवमन्येषामपि योज्यमिति । यथा आर्यमार्गस्य प्राप्त्या पृथग्जन-
त्वमप्राप्तिर्विहीयत इति योजितम्, एवमन्येषामपि श्रुतचिन्तामयादिकानां
धर्माणामप्राप्तिर्विहीयत इति योज्यम् । कथम् ? कामावचराणां तावच्छ्रुतचिन्ता-
मयादिकानां धर्माणां प्राप्तिलाभादप्राप्तिर्विहीयते । उपपत्तिलाभिकानां च
कुशलानां प्राप्त्या समुच्छिन्नकुशलस्याप्राप्तिर्विहीयते, भूमिसञ्चाराच्च । यदा
चायं कामधातोश्च्युत्वा प्रथमं ध्यानमुपपत्त्या सञ्चरति, तदा च तद्भूमिकानां
गतिसंगृहीतानां स्कन्धानामप्राप्तिर्विहीयते । अक्लिष्टाव्याकृता एव हि गतयो
वक्ष्यन्ते । "अव्याकृतास्तिः सहजा" (अभि० को० २.३८) इति चोक्तम् ।
एवं प्रथमध्यानभूमिकानां प्रायोगिकाणां गुणानां प्राप्तेरप्राप्तिर्विहीयते,
भूमिसञ्चाराच्च । ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानां तद्भूमिसञ्चाराद्
विहीयत इति । इदमेकेषां भूमिसञ्चारव्याख्यानोदाहरणम् । तत्राविविक्तं पश्यामः
ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानामप्राप्तिर्न केवलं भूमिसञ्चाराद्विही-
यते, किं तर्हि ? तत्प्राप्तितोऽपीति । इदं त्वसंकीर्णमुदाहरणं पश्यामः । तद्यथा -
द्वितीयादिध्यानभूमिकानां प्रायोगिकाणां गुणानां तदलाभिनः कामावचरस्य
सत्त्वस्याप्राप्तिरस्ति । स यदि कामवैराग्यं कृत्वा प्रथमध्यानमुपपद्यते, सा
तेषामप्राप्तिर्भूमिसञ्चाराद्विहीयते । प्रथमध्यानभूमिका तु तेषामप्राप्तिरु

२२८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [इन्द्रिय-
प्राप्योरपि प्राप्यप्राप्ती भवतः ? उभयोरप्युभयं भवतीत्याहुः । ननु चैवमन-
वस्थाप्रसङ्गः प्राप्तीनाम् ? नानवस्थाप्रसङ्गः; परस्परसमन्वागमात् । आत्मना
तृतीयो हि धर्म उत्पद्यते । स च धर्मः, तस्य प्राप्तिः, प्राप्तिप्राप्तिश्च । तत्र
प्राप्त्युत्पादात् तेन धर्मेण समन्वागतो भवति, प्राप्तिप्राप्त्या च । प्राप्तिप्राप्त्युत्पत्तेः १
पुनः प्राप्त्यैव समन्वागतो भवति, अतो नानवस्था ।
एवं च कृत्वा आत्मना तृतीयस्य धर्मस्य कुशलस्य क्लिष्टस्य च २ द्वितीये
क्षणे तिस्रः प्राप्तयो जायन्ते, तासां च पुनस्तिस्रोऽनुप्राप्तय ३ उद्भवन्ति इति
षड् भवन्ति । तृतीये क्षणे प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणां नव प्राप्तयः
सार्धमनुप्राप्तिभिरष्टादश ४ भवन्ति ।
एवमुत्तरोत्तरवृद्धिप्रसङ्गेनैताः प्राप्तयो विसर्पन्त्यः सर्वेषामतीतानागतानां
ननु चैवमनवस्थाप्रसङ्गः प्राप्तीनामिति । प्राप्तेरपि प्राप्तिः, अस्या अप्यन्या,
तस्या अप्यन्या-इत्यनवस्था । परस्परसमन्वागमादिति । प्राप्तिप्राप्तियोगात्
प्राप्त्याः समन्वागतः । प्राप्तियोगात् प्राप्तिप्राप्त्या समन्वागत इत्यर्थः । प्राप्त्यु-
त्पादादिति विस्तरः । प्राप्त्युत्पादात् तेन धर्मेण चित्तेन वा समन्वागतो भवति ।
प्राप्तिप्राप्त्या च । समन्वागत इति वर्तते । प्राप्तिप्राप्त्युत्पत्तेः प्राप्त्यैव समन्वागतो
भवतीति । एवं प्राप्तिरुभयत्र व्याप्रीयते, प्राप्तिप्राप्तिस्त्वेकत्रेति, अतो
नानवस्था । कुशलस्य क्लिष्टस्य चेति । अनयोरग्रजपश्चात्कालजप्राप्तित्वाद्
ग्रहणम् । अव्याकृतस्य हि सहजैव प्राप्तिरिति । द्वितीये क्षण इति । विस्तरः-
द्वितीये क्षणे तस्य धर्मस्य, तत्प्राप्तेः, प्राप्तिप्राप्तेश्च प्राप्तय इति तिस्रः प्राप्तयः ।
प्राप्तियोगाद्धि तैः समन्वागतो भवति । ताभिस्तिसृभिः प्राप्तिभिः समन्वागमार्थं
पुनस्तिस्रोऽनुप्राप्तय उद्भवन्तीति षड् भवन्ति प्राप्तयः । प्रथमद्वितीयक्षणोत्पन्नानां
द्रव्याणामिति । धर्मेण सार्धं नवानां द्रव्याणां नव प्राप्तयः सार्धमनुप्राप्तिभि-
रष्टादश भवन्ति ।
एवमुत्तरोत्तरवृद्धिप्रसङ्गेनेति । विस्तरः-उत्तरोत्तरस्य क्षणस्य वृद्धिः प्राप्तिभिः,
उत्तरोत्तरे वा क्षणे वृद्धिः प्राप्तीनाम्, तस्याः प्रसङ्ग उत्तरोत्तरवृद्धिप्रसङ्गः, तेन
उत्तरोत्तरवृद्धिप्रसङ्गेन । एताः प्राप्तयो विसर्पन्त्य इति । दिङ्मात्रं दर्शयिष्यामः ।
चतुर्थे क्षणे प्रथमक्षणोत्पन्नैस्त्रिभिर्धर्मैः प्राप्त्यनुप्राप्तिमद्भिर्भवितव्यम् । द्वितीय-
क्षणोत्पन्नाभिरपि षड्भिः प्राप्त्यनुप्राप्तिभिः पुनः प्राप्त्यनुप्राप्तिमतीभिर्भावि-

  • १. प्राप्तिप्राप्त्युत्पादात्-का० । २ वा-का० ।
    ३. का० पुस्तके नास्ति । ४. ०रित्यष्टादश-का० ।