अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 241, कुल 1258 में से
संदर्भ में पढ़ें२२२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
तस्यैव शैक्षेण मार्गेण प्राप्तस्य शैक्षी, अशैक्षेणाशैक्षी।
दर्शनभावनाहेयानां यथाक्रमं दर्शनभावनाहेयैव प्राप्तिः ॥
अहेयानां तु भेदः । स निर्दिश्यते—
अहेयानां द्विधा मता ।
अप्रहेया धर्मा अनास्रवाः ।
अनार्यप्राप्तस्य च प्रतिसंख्यानिरोधस्य । तस्यैवार्यमार्गप्राप्तस्यानास्रवा अहेया,
मार्गसत्यस्य च ।
यदुक्तम्—"त्रैयध्विकानां त्रिविधा" (अ० को० २.३७) इति,
तस्योत्सर्गस्यायमपवादः—
अव्याकृताप्तिः सहजा
अनिवृताव्याकृतानां सहजैव प्राप्तिः, नागजा, न पश्चात्कालजा; दुर्बलत्वात् ।
तेन तेषामतीतानामतीतैव, यावत् प्रत्युत्पन्नानां प्रत्युत्पन्नैव ।
किं सर्वस्यैवानिवृताव्याकृतस्य ? न सर्वस्य ।
अभिज्ञानैर्माणिकादृते ॥ ३८ ॥
द्वे अभिज्ञे अव्याकृते निर्माणचित्तं च वर्जयित्वा । तेषां हि बलवत्त्वात्
प्राप्तस्य । तस्यैव शैक्षेणेति । तस्यैव प्रतिसंख्यानिरोधस्य शैक्षेण मार्गेण प्राप्तस्य
शैक्षी । अशैक्षेणाशैक्षी । क्षयज्ञानसम्प्रयुक्तेन मार्गेण प्राप्तस्य, विसंयोगप्राप्ति-
संनिश्रयत्वात् क्षयज्ञानस्य । यद्यपि स वज्रोपमेन शैक्षेण प्राप्यते तदावाह-
कत्वात्, तत्प्राप्तवचने तु शैक्ष्याः प्राप्तेरशैक्षी प्राप्तिर्विशेषिता स्यादिति न तेन
शैक्षेणाशैक्षीत्युक्तम् । तस्यैवार्यमार्गप्राप्तस्यानास्रवेति । तस्यैव प्रतिसंख्यानिरोध-
स्यार्यमार्गप्राप्तस्यानास्रवा। मार्गसत्यस्य चानास्रवा । प्राप्तिरित्यधिकृतम्। आर्येण
लौकिकमार्गप्राप्तस्य प्रतिसंख्यानिरोधस्य प्राप्तिः किं सास्रवा ? उताहोऽनास्रवा ?
उभयेत्याह । सा कस्मान्नोक्ता ? सावशेषं भाष्यम्, पश्चाद् दर्शयिष्यते—
"लौकिकेनायं वैराग्ये विसंयोगाप्तयो द्विधा" (अभि० को० ६. ४७) इति
नोच्यते। या त्वसंकीर्णा प्राप्तिः सैवेहोच्यत इति वेदितव्यम् ।
दुर्बलत्वादिति । अनभिसंस्कारवत्त्वाद् दुर्बलत्वम् ।
द्वे अभिज्ञे इति । दिव्यचक्षुरभिज्ञाम्, दिव्यश्रोत्राभिज्ञाम् । निर्माणचित्तं च
वर्जयित्वा । किम् ? "अव्याकृताप्तिः सहजा" इति सम्बन्धनीयम् । तेषां हि