अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 237, कुल 1258 में से
संदर्भ में पढ़ें२१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
भावयितुम् । एवमयं समन्वागमः सर्वथा प्रज्ञप्तिधर्मः, न तु द्रव्यधर्मः । तस्य
च प्रतिषेधोऽसमन्वागम इति ।
द्रव्यमेव तु वैभाषिकाः उभयं वर्णयन्ति । किं कारणम् ? एष हि नः
सिद्धान्त इति ॥ ३६ ॥
ज्ञानम्, अविनोदनम्, अव्युपशमनम् । सर्वथा प्रज्ञप्तिधर्मो न द्रव्यधर्म इति । सर्व-
प्रकारेण—यद्युत्पत्तिहेतुर्यदि व्यवस्थाहेतुर्यद्याश्रयविशेषो यद्यधिवासनमविनोदनं
वा, सर्वथा प्रज्ञप्तिधर्मः । प्रज्ञप्त्या संवृत्या व्यवहारेण धर्मः प्रज्ञप्तिधर्मः । न
द्रव्यधर्मः न द्रव्यतो धर्मः, स्वभाव इत्यर्थः । अथ वा—द्रव्यं च तद्धर्मश्च स
द्रव्यधर्मः । न रूपादिवत् विद्यमानस्वलक्षणो धर्मः इत्यर्थः। तस्य च प्रतिषेधः ।
तस्य च प्रज्ञप्तिधर्मस्य प्रतिषेधोऽसमन्वागम इति ।
“इदमस्येति ज्ञानचिह्नं प्रतिलब्धधर्माविप्रणाशकारणं च प्राप्तिः” इत्याचार्य-
सङ्घभद्रः ।
'इदमस्येति ज्ञानचिह्नम्' इत्यसिद्धमेतत्, आश्रयविशेषेण तज्ज्ञानमिति
ब्रूमः । यदि च प्रतिलब्धधर्माविप्रणाशकारणं प्राप्तिरिष्यते ? प्राप्तपरित्यागो नैव
स्यात्, भवति च । तस्मादकारणमेतत् ।
स एव च शक्तिविशेषलक्षणं बीजभावमाचार्येण व्यवस्थापितं दूषयति—
किमयं शक्तिविशेषश्चित्तादर्थान्तरम् ? उतानर्थान्तरम् ? किं चातः ? अर्थान्तरं
चेत्, प्राप्तिरस्तीति, संज्ञामात्रे तु विवादः । अनर्थान्तरं चेत् ? नन्वकुशलं
कुशलस्य बीजमभ्युपगतं भवति, अकुशलस्य च कुशलम् । को हि नामोष्ण्यस्य
तेजसोऽनर्थान्तरत्वे सत्योष्ण्यमेव दाहकमध्यवस्येन्न तेजः ! कुशलबीजं ह्यकुशले
चेतस्यव्याकृते वा वर्तते । एवमकुशलबीजं कुशले चेतस्यव्याकृते वा वर्तते ।
तथैव चाव्याकृतबीजमपि कुशले चाकुशले च वर्तते । सास्रवबीजं चानास्रवे,
अनास्रवबीजं च सास्रवे चेतसि वर्तते—इति साङ्कर्यदोषः प्रसज्यत इति ?
अत्र वयं ब्रूमः—अनर्थान्तरभावे माकर्यदोषो भवेत् । तत्तु बीजं न चित्ता-
दर्थान्तरं वक्तव्यम्, नाप्यनर्थान्तरम्; उपादायप्रज्ञप्तिरूपत्वात् । अथाप्यनर्था-
न्तरभावः, तथाप्यदोषः; कुशलेन हि चित्तेनोत्पन्नेन स्वजातीयेऽन्यजातीये
वा स्वसन्तानचित्ते बीजमाधीयेत, ततः कारणविशेषात् कार्यविशेष इति
विशिष्टम्, तेन तच्चित्तमुत्पद्येत । तद्विशिष्टं चित्तं कुशलबीजकार्यक्रियायां समर्थ-
मुत्पद्येत । एवमकुशलेनापि स्वजातीयेऽन्यजातीये वा स्वसन्तानचित्ते बीज-
माधीयेत, तच्च तेन विशिष्टमकुशलबीजकार्यक्रियाया समर्थमुत्पद्येत । एवम-
व्याकृतेनापि चित्तेन स्वजातीये अन्यजातीये वा स्वसन्तानचित्ते बीजमाधी-