सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 233, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 233

उत्पत्तिहेतुर्धर्माणां प्राप्तिरिति चेत् ? असंस्कृतस्य न स्यात् । ये च धर्मा
अप्राप्ता ये च त्यक्ता भूमिसञ्चारवैराग्यतः, तेषां कथमुत्पत्तिः स्यात् ।
सहजप्राप्तिहेतुका चेत् ? जातिरिदानीं किङ्करी, जातिजातिर्वा । सकल-
बन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिप्रकारभेदो १ न स्यात् ; प्राप्त्यभेदात् ।
यतो वा स भेदस्तत एवास्तु तदुत्पत्तिः । तस्मान्नोत्पत्तिहेतुः प्राप्तिः ।
कश्चैवमाह—उत्पत्तिहेतुः प्राप्तिरिति ? किं तर्हि ? व्यवस्थाहेतुः प्राप्तिः २ ।
द्वात्राभावात् । प्राप्तिः पुनर्ना प्रत्यक्षग्राह्या, न चानुमानग्राह्या; तत्सिद्धौ
निरवद्यानुमानादर्शनात् । तस्माद् द्रव्यधर्मासम्भवादयोग इति स्थितमेतत् ।
इदानीमाचार्यस्तत्पक्षमुत्थाप्योत्थाप्य दूषयति—उत्पत्तिहेतुरिति । विस्तरः-
यस्य प्राप्तिरस्ति स उत्पद्यते, हेतुसद्भावात् । असंस्कृतस्य न स्यात् प्राप्तिः;
तस्यासंस्कृतस्यानुत्पन्नान्न । ये च धर्मा अप्राप्ता दुःखधर्मज्ञानक्षान्तयादयः । ये च
त्यक्ता भूमिसञ्चारवैराग्यतः । तद्यथा कामावचरा अक्लिष्टा ऊर्ध्वभूम्युपपत्त्या
क्लिष्टाश्च वैराग्येण त्यक्ताः । तेषां धातुप्रत्यागमतः परिहाण्या वा कथमुत्पत्तिः
स्यात् ! नहि तेषां प्राप्तिरस्ति; अनुत्पन्ननिरुद्धत्वात् ।
सहजप्राप्तिहेतुका चेत् । का ? तेषामुत्पत्तिरधिकृता । सहजा या प्राप्तिरिदानी-
मुत्पद्यते सा तेषां जनिकेति । आह—जातिरिदानीं किङ्करी जातिजातिर्वेति ।
किंकरणशीला किङ्करी । जातिर्लक्ष्यं धर्मं जनयति । जातिजातिस्तु तल्लक्षणं
जाति जनयति । तेन यदि लक्ष्याणां धर्माणांमुत्पत्तितः प्राप्तिहेतुकोच्यते
तत्र जातिः किङ्करी । अथ लक्षणानाम्, उत्पत्तिस्तद्धेतुकोच्येत, तत आह—
जातिजातिर्वा किङ्करीति विकल्पः । अथवा यदि भवतेवं कल्प्येत—जातिर्धर्मं
जनयति, प्राप्तिः पुनर्जाति जनयतीति, तत्रोच्यते—जातिजातिर्वा किङ्करीति ।
सकलबन्धनानां खल्वपीति । विस्तरः—येषामेकोऽपि क्लेशप्रकारो न प्रहीणस्ते
सकलबन्धनाः, तेषा सकलबन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिप्रकार-
भेदो न स्यात् । कस्मात् ? प्राप्त्यभेदात् । विकल्पबन्धनानां हि प्राप्तिवैकल्यान्
मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदः परिकल्प्येत, न तु सकलबन्धानाम्; प्राप्तीनां
तुल्यत्वात् । यतो वा स भेद इति । ततो वा कारणादभ्यासतोऽन्यतो वा स
भेदः—कस्यचित् सकलबन्धनस्याधिमात्रः, कस्यचिन्मध्यः, कस्यचिन्मृदुः ।
तत एव भेदकारणात् तदुत्पत्तिरस्तु । तेषां मृद्वादीनां क्लेशानामुत्पत्तिः ।
तस्मान्नोत्पत्तिहेतुः प्राप्तिरिति ।
वैभाषिक आह—कश्चैवनाहेति । विस्तरः—व्यवस्थाहेतुः प्राप्तिः । असत्यां
१. ०त्पत्तिभेदो—का० । २. का० पुस्तके नास्ति ।