प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
इस ग्रन्थ के बारे में
प्रबोधचन्द्रोदय कृष्णमिश्र का संस्कृत रूपक नाटक है, जिसकी रचना ग्यारहवीं शताब्दी में चन्देल राजा कीर्तिवर्मा के समय में हुई मानी जाती है। इसकी विशेषता यह है कि इसके पात्र मनुष्य नहीं, मन के भाव और दार्शनिक तत्त्व हैं: विवेक, मोह, काम, क्रोध, दम्भ, अहंकार, शान्ति, करुणा, श्रद्धा और उपनिषद्। इनके संघर्ष के अन्त में विवेक और उपनिषद् के मिलन से प्रबोध रूपी चन्द्रमा का उदय होता है। इस प्रकार यह नाटक अद्वैत वेदान्त के मोक्ष-मार्ग को रंगमंच की भाषा में प्रस्तुत करता है।
छह अङ्कों में कथा मोह की सेना के उत्पात से आरम्भ होती है, दम्भ और अहंकार के व्यंग्यपूर्ण दृश्यों और विभिन्न पाखण्डी मतों के चित्रण से गुजरती है, शान्ति और करुणा द्वारा श्रद्धा की खोज, विवेक की सेना की तैयारी, मोह के विनाश और वैराग्य की विजय तक पहुँचती है।
यह चौखम्बा विद्या भवन, बनारस का १९५५ का संस्करण है जिसमें 'प्रकाश' नामक टीका जोड़ी गई है। भूमिका में टीकाकार बताते हैं कि उन्होंने नाण्डिल्लगोप और रामदास दीक्षित की दो पुरानी टीकाएँ और एक अंग्रेज़ी अनुवाद देखा था, पर सामान्य पाठक की सुविधा के लिए यह नई व्याख्या लिखी।
द्वितीयोऽङ्कः ७६
महामोहः—तावदाहूयतां क्रोधो लोभश्च ।
पुरुषः—यदाज्ञापयति देवः । ( जं आणवेदि देवो ) ।
( इति निष्क्रान्तः )
( ततः प्रविशति क्रोधो लोभश्च )
क्रोधः—श्रुतं मया यथा शान्तिश्रद्धाविष्णुभक्तयो महाराजेन प्रति-
पक्षमाचरन्तीति । अहो, मयि जीवति कथमासामात्मनि निरपेक्षितं
चेष्टितम् । तथाहि—
अन्धीकरोमि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८० प्रबोधचन्द्रोदयम्
लोभः—अये, मदुपगृहीता मनोरथसरित्परम्परामेव तावन्न तरिष्यन्ति
किं पुनः शान्त्यादींश्चिन्तयिष्यन्ति । पश्य पश्य सखे—
सन्त्येते मम दन्तिनो मदजलप्रम्लानगण्डस्थला
वातव्यायतपातिनश्च तुरगा भूयोऽपि लप्स्येऽपरान् ।
एतल्लब्धमिदं लभे पुनरिदं लब्धाधिकं ध्यायतां
चिन्ताजर्जरचेतसां बत नृणां का नाम शान्तेः कथा ॥ ३० ॥
शृणोति, येन चाचेतनतानयनेन धीमान् बुद्धिमान् अपि अधीतम् पठितम् ( अपि )
न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंद्वितीयोऽङ्कः ८१
क्रोधः—सखे, विदितस्त्वया मत्प्रभावः ।
त्वाष्ट्रं वृत्रमघातयत्सुरपतिश्चन्द्रार्धचूड़ोऽच्छिन-
द्देवो ब्रह्मशिरो वसिष्ठतनयानाघातयत्कौशिकः ।
अपि च—
विद्यावन्त्यपि कीर्तिमन्त्यपि सदाचारावदातान्यपि
प्रोच्चैःपौरुषभूषणान्यपि कुलान्युद्धर्तुमीशः क्षणात् ॥ ३१ ॥
लोभः—तृष्णे, इतस्तावत् ।
( प्रविश्य तृष्णा )
मत्प्रभावः—मम क्रोधस्य सामर्थ्यम्
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें=२ प्रबोधचन्द्रोदयम्
तृष्णाः—किमाज्ञापयत्यार्यपुत्रः । (कि आणवेदि अज्जउत्तो)
लोभः—प्रिये, श्रूयताम्—
क्षेत्रग्रामवनाद्रिपत्तनपुरद्वीपक्षमामण्डल-
प्रत्याशायतसूत्रबद्धमनसां लब्धाधिकं ध्यायताम् ।
तृष्णे देवि यदि प्रसीदसि तनोष्याङ्गानि तुङ्गानि चे-
त्तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि ॥ ३२ ॥
तृष्णा—आर्यपुत्र, स्वयमेव तावदहमस्मिन्नर्थे नित्यमभियुक्ता । सांप्र-
क्षेत्र्यानेति० क्षेत्रम् कर्षणोपयुक्ता भूमिः, ग्रामः-वसतिः, वनम् काष्ठप्राप्तिसाधनम्,
अद्रिः पर्वतः स च शैलेयादिप्राप्तिहेतुः, पत्तनम् स्वल्पग्रामः, पुरम् नगरम्, द्वीपम्
देशभेदः, क्षमामण्डलम् पृथिवीचक्रम्, क्षेत्रमारभ्य क्षमामण्डलान्तमुपभोगार्थम-
पेक्ष्यमागमिष्यते प्राणिभिरिति प्रसिद्धिम नुरुध्येषां क्रमशः लाभेऽग्रेऽग्रे वर्द्धते प्रत्या-
शेति दर्शयितुमित्थं प्रोक्तम् । एषां प्रत्याशा प्राप्तीच्छा एव आयतम् विस्तृतम् सूत्रं
रज्जुस्तन्बन्धनसाधनत्वात्तेन बद्धानि नियन्त्रितानि मनांसि हृदयानि येषां तेषाम् लब्धा-
धिकम् प्राप्तादग्रिमम् ध्यायताम् साभिलाषमनसा भावयताम् प्राणभृताम् प्राणिनाम्
प्रति तृष्णे देवि, यदि प्रसीदसि अनुग्रहं करोषि, तथा कृत्वा च अङ्गानि शरीरावयवान्
तुङ्गानि महान्ति स्थूलानि च तनोषि कुरुषे चेत् तत् तदा, भोः इदं सम्बोधनम्
नामान्तरं व्यञ्जयितुम्, ब्रह्माण्डलक्षैरपि लक्षसङ्ख्यैः ब्रह्माण्डैः प्राप्तैरपि कुतः शमकथा
शान्तिचर्चा ? अयमाशयः—क्षेत्रादि क्षमामण्डलान्तं प्राप्तवन्तोऽपि जनाः प्राप्तादधिकं
कामयन्त इति न तिरोहितं दृष्टिशालिनामस्यां स्थितौ त्वं तृष्णा यदि प्रसद्य लब्धा-
धिकं ध्यायतां प्राणिनामङ्गानि स्थूलानि करोषि अर्थात् प्राप्तिप्रत्याशायां यत्र तत्र
भ्रमणक्षमाणि सम्पाद्य स्वविस्तृतयेऽवसरमुत्पादयसि तदा ते सतृष्णा जना ब्रह्मा-
ण्डलक्षाणि प्राप्यापि न शमं भजिष्यन्त इति । तदैवं यतस्वेति तदनुरोधः पूर्वो-
क्तमेव वृत्तम् ॥ ३२ ॥
स्वयम्-अप्रवर्त्तिता । अस्मिन्नर्थे-सतृष्णजनतृष्णासमेधने । नित्यम्-सततम् ।
तृष्णा—आर्यपुत्रकी क्या आज्ञा है ?
लोभ—प्रिये, सुनो,—
क्षेत्र, ग्राम, वन, पहाड, गाँव, पृथ्वीमण्डल की आशामें जिनके दिल बंधे हैं, जो
लब्धाधिक का ध्यान कर रहे हैं, यदि तुम कृपा करके उनके अङ्गों को स्थूलकर दो तो
हे प्रिये ब्रह्माण्ड पाने पर भी प्राणियोंको शान्ति कहाँ होगी ॥ ३२ ॥
तृष्णा—आर्यपुत्र, मैं इस विषयमें खुद सचेष्ट रहती हूँ। अब आपके इशारा को
द्वितीयाऽङ्कः ८३
तमार्थपुत्रस्याज्ञया ब्रह्माण्डकोटयोऽपि न मे उदरं पूरयिष्यन्ति । (अज्जउत्त,
सञ्चं जेव्व दाव अहं एदस्स अत्थे णिच्चं अहिजुत्ता । संपदं अज्जउत्तस्स अण्णाए
बह्माण्डकोटिश्रोवि ण मे उदरं पूरेइस्संति )
क्रोधः—हिंसे, इत आगम्यताम् ।
( प्रविश्य हिंसा )
हिंसा—एषास्मि । आज्ञापयत्वार्यपुत्रः । (एसम्हि । आणवेदु अज्जउत्तो)
क्रोधः—प्रिये, तावत्त्वया सह धर्मचारिण्या मातृपितृवधोऽपि ममे-
षत्कर एव । तथाहि—
केयं माता पिशाची क इव हि जनको भ्रातरः केऽत्र कीटा
वध्योऽयं बन्धुवर्गः कुटिलविटसुहृच्चेष्टिता ज्ञातयोऽमी ।
( हस्तौ निष्पीड्य )
आगर्भं यावदेषां कुलमिदमखिलं नैव निःशेषयामि
भियुक्ता-तत्परा । ब्रह्माण्डकोटयः-कोटिसंख्यकब्रह्माण्डानि । न मे उदरं पूरयि-
न्ति तृप्तिं जनयिष्यन्ति ।
सहधर्मचारिण्या-स्त्रिया । ईषत्करः-सुकरः । हिंसासहचरः क्रोधो मातरं पित-
पि च हन्तुं प्रवृत्तिशालीति भावः ।
केयमिति० इयं पिशाची राक्षसी इव माता जननी का ? न काऽपीत्यर्थः, जनकः
ता क इव ? न कोऽपीत्यर्थः । कीटाः कीटवत्तुच्छाः भ्रातरः सोदराः अत्र के ?
कोऽपीति भावः । अयम् बन्धुवर्गः परिवारचयः बन्ध्यः निष्प्रयोजनः । अमी
थः दायादाः कुटिलविटसुहृच्चेष्टिताः कुटिलाः वक्राभिसन्धयो ये विटाः धूर्त्तजारा-
दत् सुहृच्चेष्टितं मित्रताव् व्यवहारो येषां तादृशाः सन्तीति शेषः । यावत् यावत्काल-
न्तम् एषाम् भ्रातृबन्धुवर्गज्ञातीनाम् आगर्भम् गर्भावस्थितानप्यपरित्यज्य अखि-
अने पर तो करोड़ों ब्रह्माण्ड भी हमारे उदरको पूर्ण नही कर पायेंगे ।
क्रोध—हिंसे, जरा इधर तो आना ।
( हिंसाका प्रवेश )
हिंसा—हाजिर हूं, आर्यपुत्र आदेश दें ।
क्रोध—प्रिये, तुमको प्राप्त कर मेरे लिये माता-पिताका वध भी आसान है, क्योंकि—
पिशाची माता कौन है ? पिता कौन है ? कीटतुल्य ये भाई कौन है ? बन्धुओंको
रगाना चाहिये । इन ज्ञातिजनोंका आचरण कुटिलधूर्त्तों का सा है । जब तक गर्भ
८४ प्रबोधचन्द्रोदयम्
स्फूर्जन्तः क्रोधवह्नेर्न दधति विरतिं तावदङ्गे स्फुलिङ्गाः ॥ ३३ ॥
(विलोक्य) एष स्वामी । तदुपसर्पामः । (सर्वे उपसृत्य) जयतु
जयतु देवः ।
महामोहः—श्रद्धायास्तनया शान्तिरस्मद्द्वेषिणी । सा भवद्भिरवहि-
तैर्निग्राह्येति ।
सर्वे—यदादिशति देवः ।
(इति निष्क्रान्ताः)
महामोहः—श्रद्धायास्तनया इत्युपक्षेपेणोपायान्तरमपि हृदयमारू-
ढम् । तथाहि । शान्तेर्माता श्रद्धा । सा च परतन्त्रा । तत्केनाप्युपायेनोप-
निषत्सकाशात्तावच्छ्रद्धापकर्षणं कर्तव्यम् । ततो मातृवियोगदुःखादति-
लम् समग्रम् इदम् कुलम् नैव निःशेषयामि समापयामि तावत् तदवधि अङ्गे मदीये
देहे स्फूर्जन्तः वर्धमानाः क्रोधवह्नेः कोपाग्नेः स्फुलिङ्गाः अग्निकणाः विरतिम् निवृत्तिम्
न दधति धारयन्ति । यावदेतेषां भ्रात्रादीनामखिलमपि कुलं न विनाशयामि
तावन्मम कोपस्य शान्तिर्न भवतीति तात्पर्यम् ॥ ३३ ॥
तनया-पुत्री, तदुदितत्वाच्छान्तेस्तत्पुत्रीभावेन रूपणम् । अस्मद्द्वेषिणी-अस्माकं
प्रतिपन्थिनी । अवहितैः-सावधानैः । निग्राह्या-निग्रहीतव्या, दण्डनीयेति यावत् ।
आदिशति-आज्ञापयति । अत्रार्त्तिशान्तिप्रतीतेः शमो नाम प्रतिमुखसन्धेश्च-
तुर्थमङ्गमुक्तं, तल्लक्षणं यथा—'आर्त्तिशान्तिः । शमः स्मृतः' इति ।
तनया-पुत्री । इत्युपक्षेपेण-इत्यस्य ध्यानपथागतत्वेन । उपायान्तरम्-अन्य
समेत इनके कुलका नाश नहीं कर लेता हू तब तक क्रोधवह्निकी लपटें शान्त नहीं
होंगी ॥ ३३ ॥
(देखकर) ये महाराज है । समीप जाता हूं । (सभी जाते हैं) जय हो महाराजकी,
जय हो ।
महामोह—श्रद्धाकी बेटी शान्ति हमारी शत्रु है, तुमलोग सावधानतासे उसे निगृ-
हीत करो ।
सब—जो आज्ञा महाराज की ।
(सब जाते हैं)
महामोह—'श्रद्धाकी तनया है' इस प्रसङ्गसे एक दूसरा उपाय भी हमारी दृष्टिमे
आगया । क्योंकि शान्तिका माता श्रद्धा । वह परतन्त्र है । इसलिये किसी छलसे उप-
द्वितीयोऽङ्कः ८५
मृदुलतया शान्तिरुपरता भविष्यति । श्रद्धां व्याक्रष्टुं मिथ्यादृष्टिरेव विला-
सिनी परं प्रगल्भेति तदस्मिन्विषये सैव नियुज्यताम् । (पार्श्वतो विलोक्य)
विभ्रमावति, सत्वरमाहूयतां मिथ्यादृष्टिविलासिनी ।
विभ्रमावती-यद्देव आज्ञापयति । (जं देवो आणवेदि) ।
(निष्क्रम्य मिथ्यादृष्ट्या सह प्रविशति)
मिथ्यादृष्टिः-सखि, चिरदृष्टस्य महाराजस्य कथं मुखं प्रेक्षिष्ये ।
न खलु मां महाराज उपालप्स्यते ? (सहि, चिरदिट्ठस्स महाराअस्स कहं
मुहं पेक्खिस्सं । णं खु मं महाराओ उवालहिस्सदि ?)
विभ्रमावती-सखि, त्वन्मुखदर्शनेनात्मानमेव महाराजो न वेत्स्यति ।
उपायः । सा च-शान्तिः । परतन्त्रा-मात्राद्यत्ता । उपनिषत्सकाशात्-उपनिषदः
समीपदेशात् । श्रद्धाऽपकर्षणम्-श्रद्धाया दूरीकरणम् । अतिमृदुलतया-अतिसुकुमार-
तया । उपरता-मृता । श्रद्धासाहचर्यव्यपगमे शान्तेर्नाशस्तदायत्तत्वात्तस्या इति
मनसिकृत्वेदं रूपकम् । व्याक्रष्टुम्-अपगमयितुम् , उपनिषदः समीपाच्चालयितु-
मित्यर्थः । मिथ्यादृष्टिः-नास्तिकता । प्रगल्भा-धृष्टा, क्षमेति भावः । अस्मिन् विषये-
श्रद्धाया उपनिषत्सकाशादपकर्षणरूपे कर्मणि। सा-मिथ्यादृष्टिः । नियुज्यताम्-अधि-
क्रियताम् । 'विभ्रमावति' इदं मिथ्यादृष्टिसख्या नाम, 'अन्यतोऽपि दृश्यते' इति
विभ्रमशब्दस्य दीर्घः । सत्वरम्-शीघ्रम् । आहूयताम्-आकार्यताम् ।
चिरदृष्टस्य-बहोः कालात् परतः साक्षात्कृतस्य । प्रेक्षिष्ये-द्रक्ष्यामि । उपालप्स्यते
इयन्तं कालं कुत्र स्थितासि ? कथं न दृष्टासि ? इत्येवं प्रकारमुपालम्भं न प्रदास्य-
तीति जिज्ञासा ।
त्वन्मुखदर्शनेन-त्वद्वदनावलोकनेन । आत्मानमेव न वेत्स्यति-आत्मानं विस्म-
निषद्के पाससे श्रद्धाको हथिया लें । इस तरह माके वियोगमे शान्ति ढीली पड जायगी ।
श्रद्धाको बहकानेमें मिथ्यादृष्टि ही समर्थ हों सकेगी, अतः इस कार्यके लिये उसे ही नियुक्त
करना चाहिये । (बगलकी ओर ताककर) विभ्रमावति, विलासिनी मिथ्यादृष्टिको
शीघ्र बुला लाओ ।
विभ्रमावती-महाराजकी जो आज्ञा ।
(बाहर जाकर मिथ्या दृष्टिके साथ प्रवेश)
मिथ्यादृष्टि-सखि, बहुत दिनों के बाद महाराज का मुख कैसे देख सकूंगी, क्या
महाराज मुझे उलाहने नही देंगे ?
विभ्रमावती-सखि, तुम्हारा मुख देखकर महाराज अपने को भूल जायेगे, फिर
कुत उपालप्स्ये ? ( महि, तुअ मुहदंसणेण अप्पाणं जेव्व महाराओ ण
बेइस्यदि । कुदो उवालहिस्सदि ? )
मिथ्यादृष्टिः—सखि, कि मामलीकसौभाग्यां संभाव्य विडम्बयसि ।
( सहि, किं मं अलीअसोहग्गं संभाविय विलम्बेसि )
विभ्रमावती—सखि, सांप्रतमेव प्रेक्षिष्येऽलीकत्वं सौभाग्यस्य ।
अन्यच्च निद्राघूर्णाकुले प्रियसख्या लोचने पश्यामि । तर्हि कि खलु प्रिय-
सख्या लोचनस्य विनिद्रतायाः कारणम् । ( सहि, संपदं जेव्व पेक्खिस्से अलि-
अत्तणं सोहग्गस्स । अण्णंच णिद्दाघुम्माउले पिअसहीए लोअणौ पेक्खेमि । ता
कि खु पिअसहीए लोअणस्स विणिद्ददाए कालणम् )
मिथ्यादृष्टिः—सखि, एकवल्लभापि या स्त्री भवति तस्या अपि निद्रा
दुर्लभा । किं पुनरस्माकं सकललोकवल्लभानाम् । ( सहि, एकवल्लहावि जा
इत्थिआ भवई ताएवि णिद्दा दुल्लहा । किं उण अम्हाणं सअललोअवल्लहाणम् )
रिष्यति, आनन्दाधिक्येनात्मविस्मृतिर्भवतीत्यन्तर्निधायायंग्रन्थः। कुतः ?-कस्मात् ।
अलीकसौभाग्यम्-मिथ्याभाग्यवतीम् । सम्भाव्य-कल्पयित्वा । त्वां दृष्ट्वैव
महाराजः त्वं विस्मरिष्यतीति तव कथनन्मम सौभाग्यातिशयकल्पनया, नास्ति
मम तादृशं सौभाग्यं यन्मयि महाराजस्य तथाभूतमाकर्षणं स्यादतो मामलीक
सौभाग्यां कल्पयित्वोपहासो नोचित इति भावः । विडम्बयसि-उपहससि ।
अलीकत्वम्-असत्यताम् । विपरीतलक्षणया सत्यत्वमित्यर्थः, निद्राघूर्णाकुले-
निद्रया घूर्णमाने तथैव चाकुले । प्रियसख्याः-तव । विनिद्रतायाः-जागरस्य । किमु
दिश्य जागरेण निद्रां क्षपितवत्यसि, यदेवं घूर्णमाने व्याकुले च तव लोचने दृश्येते
नास्ति तव प्रियः परासक्तो यं प्रतीक्षमाणायास्तवैयं स्थितिः स्यादिति तात्पर्यम् ।
एकवल्लभा-एकत्र नायकेऽनुरक्ता । तस्याः-एकवल्लभायाः । साऽपि स्वं
नायकं प्रतीक्षमाणा निशमुन्निद्रभावेन गमयन्ती सम्भवति । सकललोकवल्लभा
उलाहना कैसा ?
मिथ्या०—सखि, क्यो मेरे सौभाग्य की मिथ्या कल्पना करके मुझे बना रही हो ?
विभ्रमा०—अभी तो तुम्हारे मिथ्या सौभाग्यको देखना है और तुम्हारी आंखों
रात जागरणकी खुमारी दीख पडती है, क्या कारण है ?
मिथ्या०—जिसका एक स्वामी होता है वह स्त्री भी ठीक से सो नही पाती है, फिर
हमारी जैसी सकल लोकवल्लभाकी क्या बात ?
विभ्रमावती—के-के पुनः प्रियसख्या वल्लभाः । ( के के उण पिअसहिए वल्लहा )
मिथ्यादृष्टिः—सखि, प्रथमं महाराजः, अत उपरि कामः, क्रोधः,
लोभः, अहंकारश्च । अथवाऽलं विशेषेण । अस्मिन्कुले यो जातो बालः
स्थविरो युवापि हृदयनिहितया मया विना रात्रिदिवसान्नाभिरमते ।
( सहि, पढमं महाराओ, अदो उवरि कामो, कोहो, लोहो, अहंकालो त्ति । अथवा
अलं विसेसेण । एत्थ कुले जो जादो बालो दूट्ठविरो जुवाणोवि हिअअणिहिदए मए
विणा रद्दिदिअंहाइ ण अहिरमई )
विभ्रमावती—नन्वस्य कामस्य रतिः, क्रोधस्य हिंसा, लोभस्य तृष्णा,
प्रियतमेति श्रूयते । तासां कथं प्रियतमान्नित्यं रमयन्तीर्ष्यां न संजनयसि ।
( णं एत्थ कामस्स रदी, कोहस्स हिंसा, लोहस्स तिण्हा परमप्पिआ सुणीअदि ।
तासं कथं पिअदमाणं णिच्चं रमन्दी इस्सं ण संजाणेसि )
मिथ्यादृष्टिः—सखि, ईर्ष्येति कथं भण्यते । ता अपि मया विना
नाम्—सर्वजनप्रियाणां, बहुभक्तिकानामित्याशयः ।
अस्मिन् कुले-मोहवंशे । स्थविरः-वृद्धः । हृदयनिहितया-हृदयस्थापितया ।
मोहकुले यो जातः स वृद्धो युवा बालो वाऽस्तु मिथ्यादृष्टि मां विना न रमते, सर्वेषां
प्रियाऽहमिति भावः ।
तासाम्-रतिहिंसातृष्णानाम् । प्रियतमान्-वल्लभान् कामक्रोधलोभान् ।
रमयन्ती-स्वेन सह विहारयन्ती । रतिहिंसातृष्णास्त्वया सह रममाणान् स्वप्रिया-
न्कामक्रोधलोभान्विलोक्य त्वयीर्ष्यां कथं न वहन्ति ? स्वभावो ह्येष नारीणां यत्ताः
प्रियान् पराङ्गनाऽऽसक्तान् विलोकमानास्तस्यै स्त्रियै ईष्यन्ति कुप्यन्ति च स्वनाथ-
केभ्य इति वाक्यार्थः ।
ईर्ष्येति कथं भण्यते-तासामीर्ष्याभाजनमहं स्यामिति का कथा ? तामपि परं
विभ्रमा०—तुम्हारे कौन कौन वल्लभ हैं ?
मिथ्या०—सखि, प्रथम तो महाराज ही । उसके बाद काम, क्रोध, लोभ, अहङ्कार ।
अथवा विशेष नाम लेनेकी क्या जरूरत है ? इस वंशमें जो हो, चाहे वह लडका जवान बूढा
कोई हो, बिना मुझे हृदयमे रखे चैन नही लेता है ।
विभ्रमा०—कामकी स्त्री रति है, क्रोधकी हिंसा, लोभकी तृष्णा । फिर उनके
प्रियतमों से स्नेह करती हो, क्या वह खफा नहीं होती ?
मिथ्या०—सखि, ईर्ष्याकी क्या बात, वह भी मेरे बिना एक क्षण भी चैन से नहीं
८८ प्रबोधचन्द्रोदयम्
मुहूर्तमपि न तुष्यन्ति । (सहि, इसेत्ति कहं भणीयदि । ता अवि मए विणा
मुहुत्तंवि ण तुस्संति )
विश्रमावती—सखि, अत एव भणामि त्वत्सदृशी सुभागास्यां पृथिव्यां
नास्ति, यस्याः सौभाग्यमाहात्म्यविधुरितहृदयाः सपत्न्यः प्रसादं प्रती-
च्छन्ति । सखि, अन्यद्भणामि । एवं निद्राकुलनयनविसंस्थुलस्खलच्चरण-
नूपुरझङ्कारमुखरया गत्या महाराजं संभावयन्ती शङ्कितहृदयं करिष्यति
प्रियसखीति तर्कयामि । (सहि, अदो जेव्व भणामि तुहसरिसी सुहआ इत्थिआ
पुहिवीए णत्थि । जाए सोअग्गमहद्धिविहुरिअहिश्रआ सावत्तिओ प्पसादं पडिच्छन्ति ।
सहि, अण्णञ्च भणामि । एवं णिद्दाउलणअणविसंठुलक्खलन्तचरणनेउलंझंका-
रमुहलाए गदीए महाराअं संभावयदी संकिदहिअअं करिस्सदि पिअसहीति तक्केमि )
मिथ्यादृष्टिः—किमत्र शङ्कितव्यम् । न चास्माकं महाराजनियुक्ताना-
सन्तोषं प्रकटयन्तीति हि वस्तुस्थितिरतस्तद्दीर्घ्याप्रश्नोऽनवकाश इति भावः ।
सुभगा-भाग्यशालिनी । यस्याः-तव । सौभाग्यमाहात्म्यविधुरितहृदयाः-
भाग्यवत्ताऽतिशयपराजितमनसः । प्रसादम्-प्रसन्नताम् । प्रतीच्छन्ति-कामयन्ते ।
सपत्न्यो हि सपत्न्याः सौभाग्यं दृष्ट्वा दुःखमनुभवन्त्यस्ततो विरक्तास्तिष्ठन्ति, सार्व-
त्रिकोऽयं नियमः, परमिदं तव सौभाग्यस्यैव महत्त्वं यत्त्वत्सौभाग्यमहत्तया पराजि-
तास्त्व सपत्न्यस्तव प्रसादमेव प्रतीक्षन्त इति धन्यासीति भावः । निद्रेति० निद्रया
स्वापप्रवृत्त्या आकुले पूर्णे ये नयने नेत्रे ताभ्याम् विसंस्थुलौ अयथास्थानन्यस्तावत्
एव च स्खलन्तौ निम्नोन्नतभूमिस्थापितत्वेन चलौ यौ चरणौ पादौ तयोः नूपुरयोः
झङ्कारः शब्दस्तेन मुखरया स शब्दया गत्या-गमनेन । महाराजम्-मोहम् । संभाव-
यन्ती-सत्कुर्वती । शङ्कितहृदयम्-परपुरुषरत्योश्चिह्नच्छापह्नपञ्चकृतोऽस्या नयनविकार
इति मनसि भावयन्तम् । अहं तर्कयामि त्वां निद्राकुलनयनतया स्खलद्गमनां दृष्ट्वा
तव परपुरुषोपभोगविषयां शङ्कां महाराजः करिष्यतीति भावः ।
महाराजनियुक्तानाम्-महाराजेन पुमन्तररमणार्थमाज्ञातानाम् । एषोऽविनयः-
रहती है ।
विश्रमा०-इसी लिये तो कहती हूं कि तुम्हारी जैसी सुभगा इस विश्वमें नहीं है जिसके
सौभाग्यसे पराजित सपत्नियां भी प्रसादकी कामना करतो हैं । सखि, और कहती हूँ,
इस तरह निद्रासे अलस आंखे। से स्खलित चरण चलती हुई तुम महाराजके हृदयमें
आशङ्का उत्पन्न कर दोगी ।
मिथ्यादृष्टि—इसमे शङ्काकी क्या बात है? हमलोग तो महाराजकी आज्ञासे ही ऐसा
द्वितीयोऽङ्कः ८६
मेवैषोऽविनयः । अपि च सखि, दर्शनमात्रप्रसन्नानां पुरुषाणां पुरतः
कीदृशं भयम् । ( किं एत्थ संकिदव्वं । णं अम्हाण महाराअणिउत्ताणं जेव्व एसो
अविणओ । अविअ सहि, दंसणमत्तप्पसण्णाणं पुरीसाणं पुरो कीरिसं भअम् )
महामोहः—(विलोक्य) अये, संप्राप्तेव प्रिया मिथ्यादृष्टि । या एषा—
श्रोणीभारभरालसा दरगलन्माल्योपवृत्तिच्छुला-
ल्लीलोत्तित्तभुजोपदर्शितकुचोन्मीलन्नखाङ्कावलिः ।
नीलेन्दीवरदामदीर्घतरया दृष्ट्या धयन्ती मनो
दोषान्दोलनलोलकङ्कणरणत्कारोत्तरं सर्पति ॥ ३४ ॥
ईदृशेनाकारेण महाराजार्पणरूपः । दर्शनमात्रप्रसन्नानाम्-कामिनीविलोकनमात्र-
हृष्टानाम् । एतेन पुरुषाणां कामुकभावातिशयावेदनेन तेषां स्त्रीकृतचापलविषयक-
निपुणनिरीक्षणाक्षमत्वं बोधितम् ।
सम्प्राप्ता-समायाता ।
श्रोणीभारेति० श्रोणी नितम्बस्तस्या भारो गौरवं तस्य भरः समुदयस्तेन अलसा
मन्दगतिः, दरम् ईषत् गलन् धम्मिल्लदेशात् संसमानस्य माल्यस्य पुष्पदान्नः
उपवृत्तिः स्वस्थानप्रापणं तस्य च्छलात् व्याजात् उपदर्शितौ दर्शनगोचरीकृतौ कुचौ
स्वस्तनौ तयोः, उन्मीलन्ती स्फुटलक्ष्या नखाङ्कावलिः करजचिह्नराजिः यस्याः सा
तादृशी, नीलेन्दीवरदामदीर्घतरया नीलकमलमालाविशालया दृष्टया नयनेन मनः
विलोककहृदयम् धयन्ती पिबन्ती समधिकमाकर्षन्ती दोष्णोः बाह्वोः आन्दोलनेन
चालनेन लोलयोः चञ्चयोः कङ्कणयोः पाणिभूषणविशेषयोः रणत्कारः झणझणायमा-
नता तदुत्तरम् तेन सह सर्पति, इत्थ मम मिथ्यादृष्टिर्नाम प्रिया समायाति या नित-
म्बभारवशाम्मन्दगमना धम्मिल्लस्रंसमानपुष्पदामसमीकरणच्छद्मना कुचास्थितन-
खाङ्कं दर्शयन्ती, श्यामलदृष्टिच्छटया बलादिव मनो हरन्ती, बाह्वोरान्दोलनेन झण-
त्कुर्वत्कङ्कणा चेति भावः । शार्दूलविक्रीडितमेव वृत्तम् ॥ ३४ ॥
अविनय करतां हैं । इसके अलावा पुरुषोंसे क्या भय जब देखने से ही पुरुषोंको प्रसन्न
कर लिया जा सकता है ।
महामोह—(देखकर) मेरी प्रिया मिथ्यादृष्टि आ रही है । यह—
श्रोणीभारसे अलस तथा गिरती हुई मालाकी उपवृत्तिके छलसे बाहु उठाकर स्तनस्थित
नखाङ्क दिखाकर श्याम कमल समान दीर्घ नयनोंसे हृदय हरती हुई बाहु हिलानेसे
कङ्कण खनखनाती हुई आ रही है ॥ ३४ ॥
६० प्रबोधचन्द्रोदयम्
विभ्रमावती—एष महाराजः । उपसर्पतु प्रियसखी । ( एसो महाराओ ।
उवसप्पदु पिअसही )
मिथ्यादृष्टिः—( उपसृत्य ) जयतु जयतु महाराजः । ( जअदु जअदु
महाराओ )
महामोहः—प्रिये,
दलितकुचनखाङ्कमङ्गपालीं रचय ममाङ्कमुपेत्य पीवरोरु ।
अनुहर हरिणाक्षि शंकराङ्कस्थितहिमशैलसुताविलासलक्ष्मीम् ॥३५॥
( मिथ्यादृष्टिः सस्मितं तथा करोति )
महामोहः—( आलिङ्गनसुखमभनीय ) अहो, प्रियायाः परिष्वङ्गात्परा-
वृत्तं नवयौवनम् । तथाहि—
उपसर्पतु-समीपं गच्छतु ।
दलितेति० दलिताः दृढाश्लेषवशान्मृष्टाः कुचनखाङ्काः स्तनस्थितानि नखक्षतानि
यत्र तथेति क्रियाविशेषणम्-दलितकुचनखाङ्कम् इति तथा अङ्गपालीम् आलिङ्गनं
रचय विधेहि, पीवरोरु मांसलोरुदेशे हरिणक्षि मृगनेत्रे, द्वयम् इद मिथ्यादृष्टिरूप-
नायिकासम्बोधनम् , मम मोहस्य अङ्कम् क्रोडम् उपेत्य प्राप्य शङ्कराङ्के शिवक्रोड़े
स्थिता या हिमशैलसुता पर्वतराजपुत्री तस्या विलासः स्वपत्या सह स्वच्छन्दं
निधुवनविलसितम् तस्य लक्ष्मीम् शोभाम् अनुहर अनुकुरु । मदङ्के स्थिता पार्वत्या
हरक्रोडस्थितायाः सादृश्यमाप्नुहि, अनेनोपमालङ्कारेणावयोरविघ्नं विलसितं प्रवर्त्त-
तामिति व्यञ्जितम् ॥ पुष्पिताग्रा वृत्तम् , लक्षणं पूर्वमुक्तम् ॥ ३५ ॥
तथाकरोति-मोहमालिङ्गति ।
परिष्वङ्गात्-आलिङ्गनात् । परावृत्तम्-गत्वा निवृत्तम् । गतयौवनोऽप्यहमधुना
विभ्रमावती—ये महाराज हैं, तुम चलो ।
मिथ्यादृष्टि—( समीप जाकर ) जय हो महाराजकी ।
महामोह—प्रिये,
ओ पीवरोरु, मेरी गोदमे बैठकर कुचगत नखाङ्कको दलित कर आलिङ्गन प्रदान करो
और ओरी मृगनयनी, महादेवको गोदमे बैठी पार्वतीकी शोभाको प्राप्त कर लो ॥ ३५ ॥
( मिथ्यादृष्टि हसकर वैसा करती है )
महामोह—( आलिङ्गन सुख पाकर ) अहा ! प्रियतमाके आलिङ्गनसे हमारी जवानी
लौट आई है । क्योकि—
द्वितीयोऽङ्कः ६१
यः प्रागासीदभिनववयोविभ्रमावाप्तजन्मा
चित्तोन्माथी विविधविषयोपप्लवानन्दसान्द्रः।
वृत्तीरन्तस्तिरयति त्वाश्लेषजन्मा स कोऽपि
प्रौढः प्रेमा नव इव पुनर्मान्मथो मे विकारः॥ ३६॥
मिथ्यादृष्टिः—महाराज, अहमपि सांप्रतं नवयौवना संवृत्ता। न खलु
भावानुबन्धः प्रेमा कालेनापि विघटते। आज्ञापयतु महाराजः किन्निमित्तं
भट्टारकेण स्मृतास्मि। (महाराअ, अहंपि संपदं नवजोवणा संवृत्ता। ण खु
भावाणुबन्धो प्पेमा कालेणावि विघडिअदि। आणवेदु महाराओ किंणिमित्तं भट्ठिणा
सुमरिदम्हि)
महामोहः—प्रिये,
स्मर्यते सा हि वामोरु या भवेद्धृदयाद्बहिः।
प्रियाऽऽलिङ्गितः सन् युवेव प्रतीये तन्मन्ये मम यौवन गत्वा पुनः परावृत्तमिवेति
भावः।
य. प्रागिति० अभिनववयो विभ्रमावाप्तजन्मा नवीनावस्थोचितविलासप्राप्तजनुः
चित्तोन्माथी हृदयोन्मादकः विविधविषयोपप्लवानन्दसान्द्रः नानाविधभोग्यपदार्थ-
सम्बन्धसमुद्भूतहर्षपूर्णः यः मान्मथो विकारः कामवेगः मे मम मोहस्य प्राक् यौ-
वनावस्थायाम् आसीत् सः नव इव प्रौढः प्रेमा अनुपभुक्त इव प्रगाढस्तदाश्लेष-
जन्मा त्वदङ्गसङ्गसमुद्भवः स्नेहः अन्तः हृदयदेशावच्छेदेन वृत्तीः तत्तद्वाह्यवस्तुविष-
यकज्ञानानि तिरयति आवृणोति। मम यौवनदशायां यादृशो मन्मथो विकार
आसीत्स एव संप्रति त्वदालिङ्गनेन प्रादुर्भूय ममान्तर्वृत्तीरावृणोतीति मन्ये मदीयं
यौवनमेव परावृत्तमिति भावः। शालिनीवृत्तम्, तल्लक्षणं यथा—'मात्तौ गौ चेच्छा-
लिनी वेदलोकैः'॥ ३६॥
साम्प्रतम्-भवता सङ्गमस्यात्र काले। नवयौवना-नववयाः। संवृत्ता-जाता। भावा-
नुबन्धः-हृदयगतः। प्रेमा-स्नेहः। विघटते-न्यूनीभवति। भट्टारकेण-राज्ञा भवता।
स्मर्यत इति० हे वामोरु सुन्दरजङ्गे, सा स्मर्यते ध्यायते या हृदयात् बहिः अन्यत्र
नइ जवानीकी मस्तीसे उत्पन्न होने वाला तथा हृदयको मथकर नाना प्रकारका वैषयिक
सुख उपस्थित करने वाला जो कामविकार पहले था, वह फिरसे तुम्हारे आलिङ्गनसे
उद्भूत होकर सभी वृत्तियोको तिरोहित कर रहा है ॥ ३६ ॥
मिथ्यादृष्टि—महाराज मे भी इस समय नई नवेली सी हो रही हूँ, भावानुबन्धी
प्रेम पर समयकी आंच नहीं लगती है। कृपया आप बतावें क्यो याद की गई हूँ।
महामोह—प्रिये, जो हृदयसे दूर हो उसे याद किया जाता है, तुम तो हमारे
६२ प्रबोधचन्द्रोदयम्
मच्चित्तभित्तौ भवती शालभञ्जीव राजते ॥ ३७ ॥
मिथ्यादृष्टिः—महान्प्रसादः । (महाप्पसादो )
महामोहः—यथैव प्रकाशितैरङ्गैः सर्वत्र विचरसि तथैव प्रवर्तितव्यम् ।
अन्यच्च दास्याः पुत्री श्रद्धा विवेकेन सहोपनिषदं संयोजयितुं कुट्टिनीभावं
प्रतिपन्ना । अतः—
प्रतिकूलामकुलर्जा पापां पापानुवर्तिनोम् ।
केशेष्वाकृष्य तां रण्डां पाषण्डेषु निवेशय ॥ ३८ ॥
मिथ्यादृष्टिः—एतावन्मात्रेऽपि विषये
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंद्वितीयोऽङ्कः ६३
प्रलपितानि, मिथ्या स्वर्गफलमिति भण्यमाना वेदमार्गमेव परिहरिष्यति,
किं पुनरुपनिषदम् । अपि च । विषयानन्दविमुक्ते मोक्षे दोषान्दर्शयन्त्योप-
निषदोऽपि विरक्ता करिष्यतेऽचिरं मया श्रद्धा । ( एद्दहमेत्तके वि विसए अलं
भट्टिणो अहिणिवेसेण । वज्जणमत्तक्केण जेव्व भट्टिणो दासी सद्वा सव्वं अप्पणं करि-
स्सदि । सा खु मए मित्था धम्मो, मित्था मोक्खो,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतृतीयोऽङ्कः
( ततः प्रविशति शान्तिः करुणा च )
शान्तिः—(सास्रम्) मातः मातः, कासि । देहि मे प्रियदर्शनम् । ततः—
मुक्ताशङ्ककुरङ्गकाननभुवः शैलाः स्खलद्वारयः
पुण्यान्यायतनानि संतततपोनिष्ठाश्च वैखानसाः ।
यस्याः प्रीतिरमीषु सात्रभवती चण्डालवेश्मोदरं
प्राप्ता गौः कपिलेव जीवति कथं पाषण्डहस्तं गता ॥ १ ॥
अथवाऽलं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतृतीयाऽङ्कः ६५
मामनालोक्य न स्नाति न भुङ्क्ते न पिबत्यपः ।
न मया रहिता श्रद्धा मुहूर्तमपि जीवति ॥ २ ॥
तद्विना श्रद्धया मुहूर्तमपि शान्तेर्जीवितं विडम्बनमेव । तत्सखि
करुणे, मदर्थं चितामारचय । यावदचिरमेव हुताशनप्रवेशेन तस्याः सह-
चरी भवामि ।
करुणा—( सास्रम् ) सखि, एवं विषमज्वलनज्वालोल्कादुःसहान्यक्ष-
राणि जल्पन्ती सर्वथा विलुप्तजीवितां मा करोषि । तस्मात्प्रसीदतु मुहूर्तं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६६ प्रबोधचन्द्रोदयम्
मपि प्रच्छन्ना निवसति । (सहि, एव्वं बिसमज्जलणजालाउल्लकादुःसहाई
अक्खराई जप्पन्ती सव्वथा विलुत्तजीविदं मं करेसि । ता प्पसीददु मुहुत्तं जीविदं
धारेदु पिअसही । जाव इदो तदो पुण्णेसु अस्समेसु मुनिश्रणसमाउलेसु भाईरहीतीरेसु
णिउणं णिरुवेम्हि कञ्चावि महामोहभीदिआ कहमवि पच्छण्णा णिवसदि )
शान्तिः—सखि, किमन्विष्यते । अन्वेषितैव—
नीवाराङ्कितसैकतानि सरितां कूलानि वैखानसै-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतृतीयोऽङ्कः ६७
करुणा—सखि, एवं भणामि। यदि सैव सात्त्विकी श्रद्धा तदा तस्या
नेदृशीं दुर्गतिं संभावयामि। न खलु तादृश्यः पुण्यमय्यः सत्य एतादृशी-
मसंभावनीयां विपत्तिमनुभवन्ति। (सहि, एवं भणामि। जइ सा जेव्व
सत्तई सद्धा तदो ताए ण एरिसी दुग्गदिं संभावेमि। ण खु तारिसीओ पुण्णमयी
सद्दोओ एतारिसीं असंभाविज्जं विपत्ति अणुहवन्ति)
शान्तिः—सखि, किन्तु प्रतिकूले विधातरि न संभाव्यते। तथाहि—
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३. तृतीय अङ्क: शान्ति-करुणा समागम एवं श्रद्धा खोज
६८ प्रबोधचन्द्रोदयम्
गन्धर्वस्य मदालसां च तनयां पातालकेतुश्छला-
दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर्वृत्तयः ॥ ४ ॥
एवं विधिविलसितमेतदिति संप्रधारय । तद्भवतु । पाखण्डालयेष्वेव
तावदनुसरावः ।
करुणा—सखि, एवं भवतु ! ( सहि, एवं भोदु ) ( इति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें