प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 97, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ७६
महामोहः—तावदाहूयतां क्रोधो लोभश्च ।
पुरुषः—यदाज्ञापयति देवः । ( जं आणवेदि देवो ) ।
( इति निष्क्रान्तः )
( ततः प्रविशति क्रोधो लोभश्च )
क्रोधः—श्रुतं मया यथा शान्तिश्रद्धाविष्णुभक्तयो महाराजेन प्रति-
पक्षमाचरन्तीति । अहो, मयि जीवति कथमासामात्मनि निरपेक्षितं
चेष्टितम् । तथाहि—
अन्धीकरोमि भुवनं बधिरीकरोमि
धीरं सचेतनमचेतनतां नयामि ।
कृत्यं न पश्यति न येन हितं शृणोति
धीमानधीतमपि न प्रतिसंदधाति ॥ २६ ॥
आहूयताम्-आकार्य्ताम् ।
महाराजेन प्रतिपक्षम्-महाराजस्य महामोहस्य विरुद्धम् । मयि-क्रोधे । जीवति-
प्राणान् धारयति । आसाम्-शान्तिश्रद्धाविष्णुभक्तीनाम् । आत्मनि निरपेक्षम्-
स्वस्मिन्नपेक्षारहितम् । क्रोधसुपेत्य यदमूरित्थं प्रगल्भन्ते तद्भूषामात्मविनाशा-
यैव जायेत, तदेवं स्वचिन्तारहितमिदं तासां चेष्टितमिति तात्पर्यम् ।
अन्धीकरोमीति० भुवनम् क्षमामण्डलम् अन्धीकरोमि अनन्धमन्धंकरोमि कर्त्त-
व्याकर्त्तव्यविचाररूपदृष्टिशून्यं करोमीत्यर्थः । ( भुवनम् ) बधिरीकरोमि श्रुतिसाध-
नेन्द्रियरहितं करोमि ( येन हितं न शृणुयात् ) सचेतनम् चेतनया सहितम् धीरम्
मनस्विनं जनम् अचेतनताम् ज्ञानशून्यत्वम् नयामि प्रापयामि । येन अन्धताऽऽ-
पादनेन कृत्यम् कर्त्तव्यम् न पश्यति विचारयति, येन बधिरताप्रापणेन हितम् न
महामोह—तब तक क्रोध और लोभको बुलाओ ।
पुरुष—महाराजकी जो आज्ञा ।
( क्रोध और लोभका प्रवेश )
क्रोध—मैने सुना है कि शान्ति, श्रद्धा और विष्णुभक्ति महाराजके विरुद्ध आचरण
कर रही है । अहो ! हमारे जीतेजी इन लोगोको अपनी चिन्ता भूल गई ? क्योकि—
मै जगत्को अन्धा और बहरा बना सकता हू, विद्वान्को अधीर तथा मूर्ख कर दे
कता हूँ, जिससे उसे न कर्त्तव्य ज्ञान होगा, न वह हित बात सुनेगा, बुद्धिमान् होकर भी
इ पढ़ी बाते भूल जायगा ॥ २९ ॥