प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 108, कुल 274 में से
संदर्भ में पढ़ें६० प्रबोधचन्द्रोदयम्
विभ्रमावती—एष महाराजः । उपसर्पतु प्रियसखी । ( एसो महाराओ ।
उवसप्पदु पिअसही )
मिथ्यादृष्टिः—( उपसृत्य ) जयतु जयतु महाराजः । ( जअदु जअदु
महाराओ )
महामोहः—प्रिये,
दलितकुचनखाङ्कमङ्गपालीं रचय ममाङ्कमुपेत्य पीवरोरु ।
अनुहर हरिणाक्षि शंकराङ्कस्थितहिमशैलसुताविलासलक्ष्मीम् ॥३५॥
( मिथ्यादृष्टिः सस्मितं तथा करोति )
महामोहः—( आलिङ्गनसुखमभनीय ) अहो, प्रियायाः परिष्वङ्गात्परा-
वृत्तं नवयौवनम् । तथाहि—
उपसर्पतु-समीपं गच्छतु ।
दलितेति० दलिताः दृढाश्लेषवशान्मृष्टाः कुचनखाङ्काः स्तनस्थितानि नखक्षतानि
यत्र तथेति क्रियाविशेषणम्-दलितकुचनखाङ्कम् इति तथा अङ्गपालीम् आलिङ्गनं
रचय विधेहि, पीवरोरु मांसलोरुदेशे हरिणक्षि मृगनेत्रे, द्वयम् इद मिथ्यादृष्टिरूप-
नायिकासम्बोधनम् , मम मोहस्य अङ्कम् क्रोडम् उपेत्य प्राप्य शङ्कराङ्के शिवक्रोड़े
स्थिता या हिमशैलसुता पर्वतराजपुत्री तस्या विलासः स्वपत्या सह स्वच्छन्दं
निधुवनविलसितम् तस्य लक्ष्मीम् शोभाम् अनुहर अनुकुरु । मदङ्के स्थिता पार्वत्या
हरक्रोडस्थितायाः सादृश्यमाप्नुहि, अनेनोपमालङ्कारेणावयोरविघ्नं विलसितं प्रवर्त्त-
तामिति व्यञ्जितम् ॥ पुष्पिताग्रा वृत्तम् , लक्षणं पूर्वमुक्तम् ॥ ३५ ॥
तथाकरोति-मोहमालिङ्गति ।
परिष्वङ्गात्-आलिङ्गनात् । परावृत्तम्-गत्वा निवृत्तम् । गतयौवनोऽप्यहमधुना
विभ्रमावती—ये महाराज हैं, तुम चलो ।
मिथ्यादृष्टि—( समीप जाकर ) जय हो महाराजकी ।
महामोह—प्रिये,
ओ पीवरोरु, मेरी गोदमे बैठकर कुचगत नखाङ्कको दलित कर आलिङ्गन प्रदान करो
और ओरी मृगनयनी, महादेवको गोदमे बैठी पार्वतीकी शोभाको प्राप्त कर लो ॥ ३५ ॥
( मिथ्यादृष्टि हसकर वैसा करती है )
महामोह—( आलिङ्गन सुख पाकर ) अहा ! प्रियतमाके आलिङ्गनसे हमारी जवानी
लौट आई है । क्योकि—