प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 102, कुल 274 में से
संदर्भ में पढ़ें८४ प्रबोधचन्द्रोदयम्
स्फूर्जन्तः क्रोधवह्नेर्न दधति विरतिं तावदङ्गे स्फुलिङ्गाः ॥ ३३ ॥
(विलोक्य) एष स्वामी । तदुपसर्पामः । (सर्वे उपसृत्य) जयतु
जयतु देवः ।
महामोहः—श्रद्धायास्तनया शान्तिरस्मद्द्वेषिणी । सा भवद्भिरवहि-
तैर्निग्राह्येति ।
सर्वे—यदादिशति देवः ।
(इति निष्क्रान्ताः)
महामोहः—श्रद्धायास्तनया इत्युपक्षेपेणोपायान्तरमपि हृदयमारू-
ढम् । तथाहि । शान्तेर्माता श्रद्धा । सा च परतन्त्रा । तत्केनाप्युपायेनोप-
निषत्सकाशात्तावच्छ्रद्धापकर्षणं कर्तव्यम् । ततो मातृवियोगदुःखादति-
लम् समग्रम् इदम् कुलम् नैव निःशेषयामि समापयामि तावत् तदवधि अङ्गे मदीये
देहे स्फूर्जन्तः वर्धमानाः क्रोधवह्नेः कोपाग्नेः स्फुलिङ्गाः अग्निकणाः विरतिम् निवृत्तिम्
न दधति धारयन्ति । यावदेतेषां भ्रात्रादीनामखिलमपि कुलं न विनाशयामि
तावन्मम कोपस्य शान्तिर्न भवतीति तात्पर्यम् ॥ ३३ ॥
तनया-पुत्री, तदुदितत्वाच्छान्तेस्तत्पुत्रीभावेन रूपणम् । अस्मद्द्वेषिणी-अस्माकं
प्रतिपन्थिनी । अवहितैः-सावधानैः । निग्राह्या-निग्रहीतव्या, दण्डनीयेति यावत् ।
आदिशति-आज्ञापयति । अत्रार्त्तिशान्तिप्रतीतेः शमो नाम प्रतिमुखसन्धेश्च-
तुर्थमङ्गमुक्तं, तल्लक्षणं यथा—'आर्त्तिशान्तिः । शमः स्मृतः' इति ।
तनया-पुत्री । इत्युपक्षेपेण-इत्यस्य ध्यानपथागतत्वेन । उपायान्तरम्-अन्य
समेत इनके कुलका नाश नहीं कर लेता हू तब तक क्रोधवह्निकी लपटें शान्त नहीं
होंगी ॥ ३३ ॥
(देखकर) ये महाराज है । समीप जाता हूं । (सभी जाते हैं) जय हो महाराजकी,
जय हो ।
महामोह—श्रद्धाकी बेटी शान्ति हमारी शत्रु है, तुमलोग सावधानतासे उसे निगृ-
हीत करो ।
सब—जो आज्ञा महाराज की ।
(सब जाते हैं)
महामोह—'श्रद्धाकी तनया है' इस प्रसङ्गसे एक दूसरा उपाय भी हमारी दृष्टिमे
आगया । क्योंकि शान्तिका माता श्रद्धा । वह परतन्त्र है । इसलिये किसी छलसे उप-