प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 99, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ८१
क्रोधः—सखे, विदितस्त्वया मत्प्रभावः ।
त्वाष्ट्रं वृत्रमघातयत्सुरपतिश्चन्द्रार्धचूड़ोऽच्छिन-
द्देवो ब्रह्मशिरो वसिष्ठतनयानाघातयत्कौशिकः ।
अपि च—
विद्यावन्त्यपि कीर्तिमन्त्यपि सदाचारावदातान्यपि
प्रोच्चैःपौरुषभूषणान्यपि कुलान्युद्धर्तुमीशः क्षणात् ॥ ३१ ॥
लोभः—तृष्णे, इतस्तावत् ।
( प्रविश्य तृष्णा )
मत्प्रभावः—मम क्रोधस्य सामर्थ्यम् ।
त्वाष्ट्रमिति० त्वष्टुः देवशिल्पिनः अपत्यम् त्वाष्ट्रम् वृत्रम् सुरपतिः देवेन्द्रः अघा-
तयत् हतवान्, देवः चन्द्रार्धचूडः चन्द्रशेखरः शिवः ब्रह्मशिरः ब्रह्मणो मस्तकम्
अच्छिनत् अकृन्तयत्, कौशिकः विश्वामित्रो वसिष्ठतनयान् शतसंख्याकान् महर्षे-
र्वसिष्ठस्य पुत्रान् अघातयत् अमारयत्, क्रोधान्धतायामिन्द्रः स्वशिल्पिनः पुत्रं
वृत्रासुरमहन्, शिवो ब्रह्मशिरोऽच्छिनत्, कौशिकः परस्यापराधे परान् वसिष्ठतन-
यान् अमारयत्, तदेवं क्रोधमाहात्म्यं महदिति सामान्येन समर्थयितुमाह—विद्या-
वन्त्यपीति० ( अहं क्रोधः ) विद्यावन्ति प्रशस्तविद्यानि अपि कीर्त्तिमन्ति यशोभाज-
नानि अपि, सदाचारावदातानि चरित्रशुद्धानि अपि, प्रोच्चैःपौरुषभूषणानि साम-
र्थ्यशालितया प्रथितानि अपि कुलानि लोकसमुदायान् वंशान् वा क्षणात् एकेन
मुहूर्तेन उद्धर्तुम् च्यावयितुम् ईशः समर्थः । क्रोधोऽह विद्यावतां यशस्विनां चारि-
त्रिकशुद्धियुक्तानां पौरुषप्रथितानाञ्च जनानां हृदयानि बलादधिकर्तुं क्षमो यथादृष्ट-
नेषूदाहरणेषु-इन्द्रो वृत्रासुरवधमकार्षीत्, संयमिश्रेष्ठशिवो ब्रह्मणः शिरोऽकृन्तत् ,
तपस्विचूड़ामणिविश्वामित्रो वसिष्ठपुत्रानघातय दिति । तदेवं प्रभावोऽहमिति भावः ॥
शार्दूलविक्रीडितमेव वृत्तम् ॥ ३१ ॥
इतस्तावत्–आगच्छेति शेषः ।
क्रोध—मित्र, तुम तो हमारा प्रभाव जानते ही हो ।
इन्द्रने वृत्रासुरका वध किया, शिवने ब्रह्माका सिर काटा, विश्वामित्रने वसिष्ठ पुत्रोंका
[वध] किया । और विद्यासे युक्त तथा कीर्त्तिसे धवल एवं पौरुषसे भूषित कुलोंको भी मैं
[क्षण] भरमे वशीकृत कर सकता हूँ ॥ ३१ ॥
लोभ—तृष्णे, जरा इधर तो आना ।
( तृष्णाका प्रवेश )
६ प्र० च०