प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 113, कुल 274 में से
संदर्भ में पढ़ेंतृतीयाऽङ्कः ६५
मामनालोक्य न स्नाति न भुङ्क्ते न पिबत्यपः ।
न मया रहिता श्रद्धा मुहूर्तमपि जीवति ॥ २ ॥
तद्विना श्रद्धया मुहूर्तमपि शान्तेर्जीवितं विडम्बनमेव । तत्सखि
करुणे, मदर्थं चितामारचय । यावदचिरमेव हुताशनप्रवेशेन तस्याः सह-
चरी भवामि ।
करुणा—( सास्रम् ) सखि, एवं विषमज्वलनज्वालोल्कादुःसहान्यक्ष-
राणि जल्पन्ती सर्वथा विलुप्तजीवितां मा करोषि । तस्मात्प्रसीदतु मुहूर्तं
जीवितं धारयतु प्रियसखी । यावदितस्ततः पुण्येष्याश्रमेषु मुनिजनसमा-
कुलेषु भागीरथीतीरेषु निपुणं निरूपयामि कदाचिन्महामोहभीत्या कथ-
मामिति० माम् स्वदुहितरम् अनालोक्य अदृष्ट्वा न स्नास्ति न भुङ्क्ते भोजनं करोति,
न अपः जलानि पिवति, ( तदेवम् ) मया शान्त्या रहिता वियुक्ता श्रद्धा मुहूर्त्तम्
एकमपि क्षणं न जीवति प्राणान् धारयति । मद्दर्शननियतप्राणायास्तस्या मया
वियोगे जीवनमशक्यसंभावनमिति भावः ॥ २ ॥
तत्-तस्मात्, ( यतो मद्वियोगे मम स्नेहेन मदीया माता श्रद्धा न जीवति
तदुचितं तद्वियुक्ताया ममापि प्राणविसर्जनमिति ) विडम्बनम्-आडम्बरः । चिताम्-
दाहोपयिकमग्निस्थानम् । आरचय-कुरुष्व । अचिरम्-शीघ्रम् । हुताशनप्रवेशेन-
पावकप्रवेशेन । तस्याः-स्वमातुः श्रद्धायाः । सहचरी-समीपं गता ।
विषमेति० विषमा अतिदुःसहा, ज्वलनज्वाला वह्निदाहः, तस्याः उल्का तथा
दुःसहानि सोढुमशक्यानि नितान्तकठोरतया मर्मव्यथकानि । अक्षराणि-वाक्यानि ।
जल्पन्ती-अभिदधाना । विलुप्तजीविताम्-मृताम् । त्वदीयानि स्वप्राणविसर्जनत-
त्परताद्योकतया मर्मच्छिन्दिदवचनानि श्रुत्वा मदीयं जीवनं गतमिव जायते इति
विलुप्तजीवितामित्युक्तेराशयः । प्रसीदतु-अनुग्रहं करोतु । इतस्ततः-यत्रतत्र । मुनि-
जनसमाकुलेषु-ऋषिकुलाक्रान्तेषु । भागरथीतीरेषु-गङ्गातटेषु । निपुणं निरूपयामि-
जो श्रद्धा बिना मुझे देखे न नहाती है, न खाती है, न पानी ही पीती है, वह मुझसे
बिछुड कर क्षणभर भी नही जी सकती है ॥ २ ॥
इसलिये श्रद्धाके विना क्षणभरके लिये भी शान्तिका जीना विडम्बना है । सखि करुणे,
मेरी चिता रच दे । मै शीघ्र ही प्राण त्यागकर उसकी सहचरी हो जाऊं ।
करुणा—( रोकर ) सखि, इस प्रकार अतितीव्र उल्का समान अक्षरों का उच्चारण
करके तुम हमारी जान ले रही हो । कृपाकर थोडी देर जीवन धारण करो, जब तक