सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 104, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 104

कुत उपालप्स्ये ? ( महि, तुअ मुहदंसणेण अप्पाणं जेव्व महाराओ ण
बेइस्यदि । कुदो उवालहिस्सदि ? )
मिथ्यादृष्टिः—सखि, कि मामलीकसौभाग्यां संभाव्य विडम्बयसि ।
( सहि, किं मं अलीअसोहग्गं संभाविय विलम्बेसि )
विभ्रमावती—सखि, सांप्रतमेव प्रेक्षिष्येऽलीकत्वं सौभाग्यस्य ।
अन्यच्च निद्राघूर्णाकुले प्रियसख्या लोचने पश्यामि । तर्हि कि खलु प्रिय-
सख्या लोचनस्य विनिद्रतायाः कारणम् । ( सहि, संपदं जेव्व पेक्खिस्से अलि-
अत्तणं सोहग्गस्स । अण्णंच णिद्दाघुम्माउले पिअसहीए लोअणौ पेक्खेमि । ता
कि खु पिअसहीए लोअणस्स विणिद्ददाए कालणम् )
मिथ्यादृष्टिः—सखि, एकवल्लभापि या स्त्री भवति तस्या अपि निद्रा
दुर्लभा । किं पुनरस्माकं सकललोकवल्लभानाम् । ( सहि, एकवल्लहावि जा
इत्थिआ भवई ताएवि णिद्दा दुल्लहा । किं उण अम्हाणं सअललोअवल्लहाणम् )
रिष्यति, आनन्दाधिक्येनात्मविस्मृतिर्भवतीत्यन्तर्निधायायंग्रन्थः। कुतः ?-कस्मात् ।
अलीकसौभाग्यम्-मिथ्याभाग्यवतीम् । सम्भाव्य-कल्पयित्वा । त्वां दृष्ट्वैव
महाराजः त्वं विस्मरिष्यतीति तव कथनन्मम सौभाग्यातिशयकल्पनया, नास्ति
मम तादृशं सौभाग्यं यन्मयि महाराजस्य तथाभूतमाकर्षणं स्यादतो मामलीक
सौभाग्यां कल्पयित्वोपहासो नोचित इति भावः । विडम्बयसि-उपहससि ।
अलीकत्वम्-असत्यताम् । विपरीतलक्षणया सत्यत्वमित्यर्थः, निद्राघूर्णाकुले-
निद्रया घूर्णमाने तथैव चाकुले । प्रियसख्याः-तव । विनिद्रतायाः-जागरस्य । किमु
दिश्य जागरेण निद्रां क्षपितवत्यसि, यदेवं घूर्णमाने व्याकुले च तव लोचने दृश्येते
नास्ति तव प्रियः परासक्तो यं प्रतीक्षमाणायास्तवैयं स्थितिः स्यादिति तात्पर्यम् ।
एकवल्लभा-एकत्र नायकेऽनुरक्ता । तस्याः-एकवल्लभायाः । साऽपि स्वं
नायकं प्रतीक्षमाणा निशमुन्निद्रभावेन गमयन्ती सम्भवति । सकललोकवल्लभा
उलाहना कैसा ?
मिथ्या०—सखि, क्यो मेरे सौभाग्य की मिथ्या कल्पना करके मुझे बना रही हो ?
विभ्रमा०—अभी तो तुम्हारे मिथ्या सौभाग्यको देखना है और तुम्हारी आंखों
रात जागरणकी खुमारी दीख पडती है, क्या कारण है ?
मिथ्या०—जिसका एक स्वामी होता है वह स्त्री भी ठीक से सो नही पाती है, फिर
हमारी जैसी सकल लोकवल्लभाकी क्या बात ?