प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 98, कुल 274 में से
संदर्भ में पढ़ें८० प्रबोधचन्द्रोदयम्
लोभः—अये, मदुपगृहीता मनोरथसरित्परम्परामेव तावन्न तरिष्यन्ति
किं पुनः शान्त्यादींश्चिन्तयिष्यन्ति । पश्य पश्य सखे—
सन्त्येते मम दन्तिनो मदजलप्रम्लानगण्डस्थला
वातव्यायतपातिनश्च तुरगा भूयोऽपि लप्स्येऽपरान् ।
एतल्लब्धमिदं लभे पुनरिदं लब्धाधिकं ध्यायतां
चिन्ताजर्जरचेतसां बत नृणां का नाम शान्तेः कथा ॥ ३० ॥
शृणोति, येन चाचेतनतानयनेन धीमान् बुद्धिमान् अपि अधीतम् पठितम् ( अपि )
न प्रतिसन्दधाति स्मरति । क्रोधेनान्धीकृतो जनो हितमहितं च विवेक्तुमशक्तो
भवति, बधिरीकृतश्च हितमपि नाकणर्यति, अचेतनभावं गमितश्च धीमानपि नाधीत-
मपि स्मरतीति भावः । तथा चोक्तमपि—'क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद्-
गुरून्पि । क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत्' इति ॥ २९ ॥
मदुपगृहीताः=लोभेन धृताः । मनोरथसरित्परम्पराम्-अभिलाषरूपनदीश्रेणीम् ।
तरिष्यन्ति-पारं गमिष्यन्ति । लोभगृहीता जनाः सदैव मनोरथपरम्परामेव तन्वाना-
स्तत्पूर्त्तय एव यतमानाश्च शान्तिविषयां चिन्तामपि न कर्त्तुं पारयन्तीति भावः ।
मनोरथपरम्पराप्रकारमग्रे वक्ष्यति-सन्त्येते इत्यत्र ।
सन्त्येत इति० मदजलप्रम्लानगण्डस्थलाः मदवारिक्लिन्नकपोलदेशाः एते दन्तिनः
हस्तिनः मम सन्ति मदधिकारे वर्त्तन्ते, वाताः वायवः इव व्यायतपातिनः अधिक-
धाविनः तुरगाः अश्वाश्च 'मम सन्ति' इत्यनुषज्य योजनीयम् । भूयः पुनः अपरान्
अन्यान् अपि गजान् तुरगांश्च लप्स्ये । एतत् लब्धम् प्राप्तम् इदम् पुनर्लभे प्राप्नो-
मि इदम् एवंप्रकारेण लब्धाधिकं प्राप्तादुपरि ध्यायताम् चिन्तयताम् चिन्ताजर्जर-
चेतसाम् चिन्ताकदर्थितस्वान्तानां नृणाम् नराणाम् शान्तेः का नाम कथा बत ?
येषां मनसि सदेदमाप्तमिदमाप्तव्यमित्येवमलब्धलाभविषया चिन्ता स्वां ज्वालां
विस्तारयति तेषां शान्तेः का चर्चा ? बतेति निश्चयार्थे । व्यायतं दीर्घं पतन्तीति
ध्यायतपातिनः, वातव्यायतपातिन इत्यस्य वायुवेगा इति निर्गलितार्थः । एतेन
लोभस्य स्वरूपं प्रकटीकृतम् ॥ ३० ॥
लोभ—अरे, मैं जिसे पकड़ लूंगा वह मनोरथोंसे अपना पिण्ड नहीं छुड़ा सकेगा,
शान्तिकी बात क्या सोचेगा ? देखो, देखो, मित्र,
ये मेरे मतवाले हाथी हैं, ये मेरे हवा की तरह द्रुतगामी घोडे हैं और हाथी घोड़े
मुझे मिलेंगे । यह पा लिया और पाना है इस तरह लब्धसे आगेकी चिन्तामें जर्जर चित्त
बाले मनुष्योंको शान्तिकी बात क्या सूझेगी ॥ ३० ॥