सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

कुमारसम्भवम्
—:०:—
पञ्चमः सर्गः
—:०:—
तथा समक्षं दहता मनोभवं
पिनाकिना भग्नमनोरथा सती ।
निनिन्द रूपं हृदयेन पार्वती
प्रियेषु सौभाग्यफला हि चारुता ॥१॥
मलिनाथकृता सञ्जीवनी टीका:—तथेति । पर्वतस्यापत्यं
स्त्री पार्वती तथा तेन प्रकारेण अक्ष्णोःसमीपे समक्षं पुरतः ।
'अव्ययं विभक्तिसमीपसमृद्धि'—इत्यादिनाव्ययीभावः । मनोभवं
मन्मथ दहता भस्म कुर्वता पिनाकिना ईश्वरेण भग्नमनोरथा भग्नः
खण्डितो मनोरथ अभिलाषो यस्या सा तथोक्ता सती हृदयेन
मनसा रूपं सौन्दर्य निनिन्द । धिङ् मे रूपं यद्धरमनोहरणाय नाल-
मिति गर्हितवतीत्यर्थ । युक्त चैतदित्याह—तथा हि । चारुता
सौन्दर्य प्रियेषु पतिषु विषये सौभाग्यफला सौभाग्यं प्रियवाल्लभ्यं
फलं यस्याः सा तथोक्ता । सौन्दर्यस्य तदेव फलं यद्धर्त्तृ सौभाग्यं
लभ्यते । नोचेद्विफलं तदिति भावः । अस्मिन् सर्गे वंशस्थं वृत्तम्—
'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ।
PROSE ORDER :—पार्वती तथा समक्षं मनोभवं दहता पिना-

( २ )
किना भग्नमनोरथा सती हृदयेन रूपं निनिन्द । ( तथा ) हि चारुता
प्रियेषु सौभाग्यफला ।
NOTES :—पार्वती-पर्वतस्य अपत्य स्त्री पार्वती ( पर्वत+अण्
+ङीप्) The daughter of Mountain, i e, the Himalaya
The suffix अण् is added in the sense of ' a descendant
of' by 'तस्य अपत्यम् ' पाणिनि ४ १ ६२ Then ङीप् is added
to make it feminine तथा—as described in the following
verse—'क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ।' कुमारसम्भव
३.७२• समक्षं—(सं+अक्षि+टच् ) in her presence It is an
अव्ययीभाव compound formed in the sense of nearness
( सामीप्य ) by 'अव्ययं विभक्तिसमीपसमृद्धि० ' पाणिनि २.१.६
अक्षि is made अक्ष by the addition of टच् by 'अव्ययीभावे
शरत्प्रभृतिभ्यः' पाणिनि ५.४.१०४ मनोभवं—मनसि भवम् ;
मनस भवः यस्य सः Mind-born, i e, Cupid दहता—
burning Instrumental singular of दहत्, Present
Participle of √दह् to burn पिनाकिना—( पिनाक+इनिः )
पिनाकः धनुः यस्य स पिनाकिन्, तेन । पिनाक being the name
of the bow of Shiva, he is known as पिनाकिन् । 'पिनाको-
ऽजगवं धनुः' इत्यमरः । भग्नमनोरथा—( √भञ्ज्+क्तः ) भग्नः
मनोरथ. यस्याः सा one whose wishes are disappointed
Cupid being turned to ashes, Parvati had lost hopes
of her union with Shiva सती—Feminine Present
Part of √अस् to be निनिन्द-कुत्सितवती blamed ;
cursed Perfect ( लिट् ) of √णिदि कुत्सायां third person,
singular. Parvati cursed her beauty because it failed

( ३ )
to win over Shiva हि-यतः because It is an indeclinable
used in various senses Cf 'हि पादपूरणे हेतौ विशेषेऽप्यव-
धारणे । प्रश्ने हेत्वपदेशे च सभ्रमासूययोरपि ॥' इति मेदिनीकोषः
चारुता—(चारु+तल्) चारोः भावः (सौन्दर्य) beauty To
form Abstract Nouns त्व or तल् is added by 'तस्य
भावस्त्वतलौ' पाणिनि ५।१।११६। प्रियेषु—as regards one's
beloved सौभाग्यफला—(सुभग+ष्यञ्) सुभागाया भावः
सौभाग्यं good fortune सौभाग्यं फलं यस्याः सा having good
fortune as result
'प्रियेषु सौभाग्यफला हि चारुता' is a sort of universal
saying meaning that beauty has for its fruit good
fortune as regards the beloved, i e, that alone is the
real beauty which attracts one's beloved and makes
him love it, otherwise it has no meaning, howsoever
praiseworthy it may be in the eyes of others
'प्रियेषु सौभाग्यफला०' is also read as 'प्रिये सुसौभाग्य-
फला०' in some recensions
The metre of this and the following stanzas upto
84 is वंशस्थ, which is defined as 'जतौ तु वंशस्थमुदीरितं
जरौ' i.e. ।ऽ। ऽऽ। ।ऽ। ऽ।ऽ Marks ऽ and । stand for long
and short syllables respectively
CHANGE OF VOICE :—पार्वत्या तथा समक्षं मनोभवं दहता
पिनाकिना भग्नमनोरथया सत्या रूपं हृदयेन निनिन्दे, (तथा) हि
चारुतया प्रियेषु सौभाग्यफलया (भूयते) ॥ १ ॥
HINDI TRANSLATION :—इस प्रकार आंखों के सामने ही

( ४ )
कामदेव को जलाने वाले शिव के द्वारा निष्फल इच्छा वाली पार्वती
ने अन्दर से (अपनी) सुन्दरता की निन्दा की, क्योंकि सुन्दरता
वही है जिसके द्वारा प्यारे का सुख मिले ॥ १ ॥
ENGLISH TRANSLATION :-Parvati, baffled in her
hopes by Shiva who, thus, burnt the mind-born
(Cupid) in her presence, cursed her beauty in her
heart: for beauty has for its fruit good fortune as
regards one's beloved. 1.
PURPORT IN SANSKRIT :- शिवेन मदनदहनं रत्या च
तत्कृते कृतं विलापं दर्शयित्वा कविकालिदासः शिवमभिमुखीकर्त्तुं
पार्वत्या कृतं तपो वर्णयितुं श्लोकेऽस्मिन् तपोबीजं गौरी-
नैराश्यं दर्शयति—यदा हि शिवेन स्वतृतीयनेत्राग्निना पार्वत्याः
प्रत्यक्षमेव कामः भस्मसात्कृतस्तस्याः शिवपरिणयविषयिका-
भिलाषा समूलं नष्टा। एवञ्च शिवेन नाकृष्टचित्तमात्मनः
सौन्दर्यं पार्वती निन्दति स्म, यतः वल्लभस्य प्रेम तज्जनितं
सुखञ्च सौन्दर्यस्य फलम्। यद्रूपं भर्त्रे न रोचते तन्निरर्थकमेव
इति मत्वा सात्मानं धिक्कृतवती ॥ १ ॥
इयेष सा कर्तुमवन्ध्यरूपतां
समाधिमास्थाय तपोभिरात्मनः।
अवाप्यते वा कथमन्यथा द्वयं
तथाविधं प्रेम पतिश्च तादृशः ॥ २ ॥
इयेषेति। सा पार्वती समाधिम् एकाग्रताम् आस्थाय अवलम्ब्य
तपोभिः वक्ष्यमाणनियमैः करणभूतैः आत्मनः स्वस्य अवन्ध्यरूपतां
सफलसौन्दर्यं कर्त्तुं इयेष इच्छति स्म। तपसा शिवं वशीकर्तुमुद्युक्ते-
त्यर्थः। अन्यथा ततोऽन्यप्रकारेण कथं तत् द्वयं अवाप्यते। किं

( ५ )
द्वयम् ? तथाभूता विधा प्रकारो यस्य तत् तथाविधं प्रेम स्नेह ।
येनार्द्धाङ्गहरा हरस्य भवेदिति भावः । तादृशः पतिश्च । यो मृत्युञ्जय
इति भावः । द्वयमेव खलु स्त्रीणामपेक्षितं यद्भर्तुर्वल्लभ्यं जीवद्भर्तृ-
कत्व चेति । तच्च तपश्चर्यैकसाध्यमिति निश्चिकायेत्यर्थः। अत्र मनुः—
‘ यद्दुष्करं यद्दुरापं यद्दुर्गं यच्च दुस्तरम् । तत्सर्वं तपसा प्राप्यं
तपो हि दुरतिक्रमम् ॥’ इति ।
PROSE ORDER —सा समाधिमास्थाय तपोभिः आत्मनः
अवन्ध्यरूपतां कर्त्तु इयेष । वा अन्यथा तथाविधं प्रेम तादृशः
पतिश्च ( इति ) द्वयं कथ अवाप्यते ।
NOTES :—समाधि—( सं + आ + √धा + किः ) Intense
contemplation ( of any particular object so as to
identity the contemplator with the object meditated
upon ) This is the eighth and last stage of Yoga.
Here it may also mean silence or a vow of intense
devotion ( for Shiva ), or, a rigid rule of conduct
आस्थाय—(आ + √स्था + क्त्वा—ल्यप् ) अवलम्ब्य taking re-
course to तपोभिः—by means of austerities, the observ-
ance of which warrants all sorts of success Cf The
shloka of Manusmriti quoted above by Mallinatha.
Decline तपस् as तपः, तपसी, तपांसि । तपः, तपसी, तपांसि ।
तपसा, तपोभ्याम् etc, अवन्ध्यरूपतां—न वन्ध्यं अवन्ध्यं Not
barren, fruitful अवन्ध्य रूपं ( सौन्दर्य ) यस्याः सा अवन्ध्य-
रूपा, तस्याः भावः अवन्ध्यरूपता, ताम् such as whose beauty
was fruitful or it may be taken as न वन्ध्य अवन्ध्यं, अवन्ध्यं
च तद्रूपं, अवन्ध्यरूपं तस्य भावः, ताम् a fruitful beauty इयेष—
Perfect Third Person Singular of √इषु इच्छायाम् to wish.

( ६ )
For purposes of the सार्वधातुक लकारs it becomes
इच्छ्, e.g., इच्छति (लट्) इच्छतु (लोट्) etc. अन्यथा—otherwise
i. e., without resorting to penances. तथाविधं–तथा तादृशी
विधा प्रकारो यस्य तत् of that kind. That is, such love by
which she could become Shiva’s wife. प्रेम—स्नेहः love.
Decline as प्रेम, प्रेमणी-प्रेम्णी, प्रेमाणि । प्रेम, प्रेमणी-प्रेम्णी,
प्रेमाणि । प्रेम्णा, प्रेमभ्यां, प्रेमभिः । etc. तादृशः -( तत् + √ दृश्
+कञ्) of that sort, i. e., like Shiva, who is superhuman
and who is known as मृत्युञ्जय, conqueror of death.
According to Mallinatha women aspire for two things
with regard to their husbands, viz., first, undiminished
and constant love from them and secondly, longivity
for their husbands. These two things are suggested
respectively by तथाविधं प्रेम and तादृशः पतिः । अवाप्यते—
( अव + √ आप् + य + लट् ) लभ्यते is obtained. It is Passive
Pres. ( लट् ) Third Person Singular.
Some editions read अवन्ध्यकामतां for अवन्ध्यरूपतां
and तत् कथं for वा कथं ।
CHANGE OF VOICE :—तया समाधिमास्थाय तपोभिरात्म-
नोऽवन्ध्यरूपता कर्तुं ईषे ; वा अन्यथा तथाविधं प्रेम तादृशं पतिं
च द्वयं कथं अवाप्नोति ? ॥ २ ॥
HINDI TRANSLATION :—उसने ( पार्वती ने ) ध्यान लगा
कर तपस्या के द्वारा अपने सौन्दर्य को सार्थक करने की धारणा
की। नहीं तो उस प्रकार का स्नेह और वैसा स्वामी और किसी
प्रकार से कैसे मिल सकता है ? ॥ २ ॥
ENGLISH TRANSLATION :—She wished to make her

( ७ )
beauty fruitful by austerities, having recourse to con-
templation; how can otherwise be secured the two
things—such love and a husband of that sort? 2.
PURPORT IN SANSKRIT :—स्वरूपस्य निष्फलतामनुभूय
पार्वती सौन्दर्यं शिवाकर्षणे सफलीकर्त्तुं तप आचरितुं निश्चित-
वती । उपायान्तरमपश्यन्ती तपसा शिवमभिमुखीकर्त्तुमुद्यताभूदि-
त्यर्थः । कथं तपः साहाय्यं कामयाञ्चकारेति विषये कविः कथयति—
महादेवसदृशो वल्लभो यो हि मृत्युञ्जयः कथ्यते, तादृशोऽनुरागश्च
येन सा शिवस्य पत्नी स्यात् तपस्यां विना कथं संभवति । अन्य-
प्रकारेण दुर्लभं वस्तु तपसैव प्राप्यत इत्यर्थः ॥ २ ॥
निशम्य चैनां तपसे कृतोद्यमां
सुतां गिरीशप्रतिसक्तमानसाम् ।
उवाच मेना परिरभ्य वक्षसा
निवारयन्ती महतो मुनिव्रतात् ॥ ३ ॥
निशम्येति । मेना मेनका च गिरीशप्रतिसक्तमानसां हरासक्तचित्तां
तपसे तपश्चरणाय कृतोद्यमां कृतोद्योगां सुतां निशम्य श्रुत्वा एनां
पार्वतीं वक्षसा परिरभ्य आलिङ्ग्य महतः मुनिव्रतात् तपसः निवा-
रयन्ती उवाच । मुनिव्रतादित्यत्र यद्यपि मुनिव्रतस्य मेनकाया
अनीप्सितत्वात् ‘वारणार्थानामीप्सितः’ इति नापादानत्वं तथापि
कृतोद्यमामिति मानसप्रवेशोक्तत्वात् ‘ध्रुवमपायेऽपादानम्’ इति
अपादानत्वमेव स्यात् । यथाह भाष्यकारः—‘यच्च मिथ्या संप्राप्य
निवर्त्तते तच्च ध्रुवमपायेऽपादानम् इति प्रसिद्धम्’ ॥ इति ॥
PROSE ORDER :—मेना च गिरीशप्रतिसक्तमानसां एनां सुतां
तपसे कृतोद्यमां निशम्य वक्षसा परिरभ्य महतः मुनिव्रतात् निवार-
यन्ती उवाच ।

( ८ )
NOTES :—मेना—Name of the wife of Himalaya and
the mother of Parvati. She is also known as मेनका।
गिरीशप्रतिसक्तमानसाम्। गिरीश—( गिरि+ईश ) गिरेः ईशः
the lord of the mountain ( Kailasha), i. e., Shiva. A
name of Shiva. Cf. ‘ गिरीशो मृडः ’ इत्यमरः। प्रतिसक्त—
( प्रति+√ सञ्ज्+क्तः) अनुरक्त devoted or attached to.
गिरीशे प्रतिसक्तं मानसं यस्याः सा whose mind was fixed
upon Shiva. एनां—इमाम् ‘द्वितीयाटौस्स्वेनः’ । पाणिनि२.४.३४.
optionally prescribes the substitution of एन for इदम्
and एतद् in Acc. Instrumental, Sing. and Genitive
and Locative Duals when there is अन्वादेश i. e., their
proper forms have already been used in a previous
clause. तपसे—For austerities. Dative Sing. of तपस्,
The Dative is used by ‘ क्रियार्थोपपदस्य च कर्मणि
स्थानिनः।’ पाणिनि २.३.१४. i. e., the object governed by
an Infinitive Mood not actually used but implied is
put in the Dative. Here तपसे is equal to तपः कर्तुम्।
कृतोद्यमां—कृतः उद्यमो यया सा तां who was determined or
resolved ( to practise penances ). निशम्य—आकर्ण्य
having heard. वक्षसा—by her bosom. Decline as
वक्षः, वक्षसी, वक्षांसि । वक्षः, वक्षसी, वक्षांसि । परिरेभ्य—( परि
+√ रभ्+ल्यप् ) आलिङ्ग्य having embraced. Absolutive
form of √रभ् ( रभस्ये ) to act rashly or to long for ;
with परि it means ‘ to embrace ’ and with आ ‘ to
begin ’. मुनिव्रतात्—मुनेः व्रतात् मुनिव्रतात् the vow of
ascetics, i. e., penances. Here the Ablative Case should

( ६ )
have been enjoined by, ‘वारणार्थानामीप्सितः’ पाणिनि
१ ४ २७। ६, from which one is kept off is also put in
the Ablative, but according to Mallinath as penance
is not what was desired ( ईप्सित् ) by Mena, so this rule
is not applicable in this case and the Ablative has been
used on account of ध्रुवमपायेऽपादानम्’ पा० १ ४ २४ । ६,
the noun from which the motion, real or conceived,
takes place is put in the Ablative case But according
to some other commentators the former rule is
applicable in the present case निवारयन्ती--( नि + √वृ +
णिच् + शत्तृ + ङीप् ) warding off उवाच—said Perfect
of √ ब्रू or √वच् to speak Some edition give गिरीशं
प्रतिसक्त० for गिरीशप्रतिसक्त०
CHANGE OF VOICE :—मेनया गिरीशप्रतिसक्तमानसामेनां
सुतां तपसे कृतोद्यमां निशम्य वक्षसा परिरभ्य महतो मुनिव्रतात्
निवारयन्त्या ऊचे ॥ ३ ॥
HINDI TRANSLATION :—मेना, महादेव में आसक्त चित्त
वाली उस ( अपनी ) पुत्री को तप करने को उद्यत सुन कर,
( उसे ) छाती से लगाकर कठिन तप ( करने ) से रोकती हुई,
बोली ॥ ३ ॥
ENGLISH TRANSLATION —Mena, hearing that her
daughter, who had set her heart on Shiva, was deter-
mined to practise penance, clasped her to her bosom,
and, warding her off from the great vow of ascetics,
spoke to her ) 3
PURPORT IN SANSKRIT :—यदा हि पार्वत्याः जननी मेना-
श्रृणोत् यन्महादेवेऽत्यन्तमनुरक्ता पार्वती तपस्यया तमनुनेतुं कृत-

( १० )
निश्चया तदा सा महद्दुःखमवाप, पार्वतीं च स्वोरस्यालिङ्ग्य
तपोविषयकं निश्चयं त्यक्तुमुपदिदेश ॥ ३ ॥
मनीषिताः सन्ति गृहेषु देवताः
तपः क्व वत्से क्व च तावकं वपुः।
पदं सहेत भ्रमरस्य पेलवं
शिरीषपुष्पं न पुनः पतत्रिणः ॥ ४ ॥
सामान्यनिषेधमुक्त्वा विशेषनिषेधमाह । मनीषिता इति । हे
वत्से । मनस ईषिता इष्टाः मनीषिताः । शकन्ध्वादित्वात् साधुः ।
देवताः शर्वादयः गृहेषु सन्ति । त्व तान्नाराधयेतिशेषः । तपः क्व ।
तवेदं तावकम् । ' युष्मदस्मदोरन्यतरस्यां खञ् ' इत्यण्प्रत्यय ।
' तवकममकावेकवचने ' इति तवकादेशः । वपुः च क्व । तथा हि
पेलवं मृदुत्वं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थिति सहेत ।
पतत्रिणः पुनः पक्षिणस्तु पदं न सहेत । अतिसौकुमार्याद्दिव्योप-
भोगयोग्यं ते वपुर्न दारुणतपः क्षममित्यर्थः । अत्र दृष्टान्ता-
लङ्कारः ॥ ४ ॥
Prose Order :—वत्से, मनीषिताः देवताः गृहेषु सन्ति,
तपः क्व, तावकं वपुश्च क्व ? पेलवं शिरीषपुष्पं भ्रमरस्य पदं सहेत,
पतत्रिणः पुनः न ॥ ४ ॥
Notes :—मनीषिताः—मनसः ईषिताः मनीषिताः desired;
wished , such as the mind would long for. ईषिताः is
Past Part. from √ ईष् गतिहिंसादर्शनेषु ' to see ' Here the
Compound is of मनस् and ईषित, in which the final
vowel with the following consonant ( अस् ) of मनस्
merges into the following word according to ' शकन्ध्वा-

( ११ )

दिषु पररूपं वाच्यम् ।' or, according to some it could be
expounded as मनीषा ( धारणा ) संजाता येषु ते । मनीषा +
इतच् । In that case इतच् will be added to मनीषा by the
rule ' तदस्य संजातं तारकादिभ्य इतच् ' पा०५ २ ३६ ; i e इतच्
is affixed to तारका and other words in the sense of
' that is obtained or possessed by. ' देवताः-प्रतिमारूपेषु
वर्त्तमानाः सौभाग्यप्रदा इन्द्राण्याद्याः ; i e, idols of deities such
as Indrani, who can bestow good luck on you Mena
means to say that Parvati should worship those
deities instead of trying to appease Shiva क्व-where ?
क्व is formed from किम् by adding अत् to it and chang-
ing it into क्व by the rules ' किमोऽत् ' पाणिनि ५ ३. १२
and ' क्वाति ' ७ २ १०५. respectively
क्व ..क्व-It implies excessive incongruity, and lit it
means ' where is the one and where is the other ' or
' how distant is one from the other', or 'how unequal
the two are ' The repetition of क्व shows the great
disparity between two things. Cf ' क्व सूर्यप्रभवो वंशः क्व
चाल्पविषया मतिः ' रघुवंशम् १. २ । ' क्व भूपतीनां चरितं क्व
जन्तवः ' किरातार्जुनीयम् १ ६ । तावकं -त्वदीयं yours, thine.
तव इदं तावकम् । First अण् suffix is added to युष्मद् by
' युष्मदस्मदोरन्यतरस्यां खञ् ' पा०४ ३ १ (युष्मद् +अण् ) and
then तवक is substituted for it by ' तवकममकावेकवचने '
पा० ४. ३. ३ ( तवक +अण्=तावकम्) । The alternative
form, when खञ् is added instead of अण्, is ताव-
कीनम् । Similarly are formed मामक and मामकीनम्

( १२ )
from अस्मद् । वपुः—body. Decline as—वपुः, वपुषी,
वपूंषि । वपुः, वपुषी, वपूंषि । वपुषा etc. पेलवम्—मृदु tender.
शिरीषपुष्पम् — the flower of शिरीष ( सिरस—हिन्दी ) is
well-known for its softness and is often used as
standard of comparison ( उपमान ) to indicate that
quality. पदं—पदन्यासं placing of feet ; sitting. सहेत—
may bear. Potential ( विधिलिङ् ) of √ सह् ‘to bear,’
which is an आत्मनेपदी root. पतत्रिणः—( पतत्र+इनिः )
पतन्तं त्रायन्ते इति पतत्राणि । पतत्राणि means wings,
because they keep birds from falling : then, पतत्राणि
सन्ति येषां ते पतत्रिणः पक्षिणः those possessed of wings,
i. e., birds. The suffix इनि is added by ‘अत इनिठनौ’
पा० ५. २. १ १५ ।
The verse provides a good example of दृष्टान्त
अलङ्कार which is defined as ‘दृष्टान्तस्तु स्वधर्मस्य वस्तुनः
प्रतिबिम्बनम्’ साहित्यदर्पण ।
CHANGE OF VOICE :—वत्से ! मनोपिताभिः देवताभिः गृहेषु
भूयते; तपसा क्व, तादृकेन वपुषा च क्व ( भूयते ) ? पेलवेन शिरीष-
पुष्पेण भ्रमरस्य पदं सह्येत पतत्रिणः पुनः न ॥ ४ ॥
HINDI TRANSLATION :—पुत्रि, मन से चाहे जाने योग्य
देवता ( हमारे ) घर में हैं ; कहाँ तो यह ( कठोर ) तप और
कहाँ तुम्हारा ( कोमल ) शरीर ! सिरस का कोमल फूल भौरें के
पैर ( रखने ) को तो सह सकता है परन्तु पक्षी के नहीं ॥ ४ ॥
ENGLISH TRANSLATION :—In the house are such
deities as your mind would long for. Child, how widely
different are penance and thy body ? The delicate

( १३ )
Shirisha flower may bear (the stroke of) feet of a
bee, but not that of a bird. 4.
PURPORT IN SANSKRIT:—व्रताचरणान्निवारयन्ती मेना-
कथयत्—बाले, पार्वति; अस्माकं वेश्मन्येवानेका इष्टा इन्द्रागयाद्याः
सौभाग्यप्रदाः देवतास्सन्ति; तासामाराधनयैव तेऽभीष्टप्राप्तिर्भवितुं
शक्या, अतस्त्वं ता आराधय । तव कायस्त्वतिकोमलः तपोऽनुष्ठा-
नञ्चातिकठिनम् । न ते देहस्तत्सोढुं क्षमः । तथा हि—कोमलं
शिरीषस्य कुसुमं भ्रमरस्य पदस्थितिं भारं वा सोढुं शक्नोति महतः
पत्त्रिणो भारं तु कथमपि न । तव शरीरं शिरीषपुष्पतुल्यं तपस्तु
महापत्तिभारतुल्यं, अतस्त्वं तपः करणाद्विरम ॥ ४ ॥
इति ध्रुवेच्छामनुशासती सुतां
शशाक मेना न नियन्तुमुद्यमात् ।
क ईप्सितार्थस्थिरनिश्चयं मनः
पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ ५ ॥
इतीति । इति एवम् अनुशासती उपदिशन्ती मेना ध्रुवेच्छां
स्थिरव्यवसायां सुतां पार्वतीम् उद्यमात् उद्योगात्तपोलक्षणात्
नियन्तुं निवारयितुं न शशाक समर्था नाभूत् । तथा हि ।
ईप्सितार्थस्थिरनिश्चयं ईप्सितार्थे इष्टार्थे स्थिरनिश्चयं मनः निम्ना-
भिमुखं पयः च कः प्रतीपयेत् प्रतिकूलयेत् । प्रतिनिवर्तयेदित्यर्थः ।
निम्नप्रवणं पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमितिभावः । अत्र-
दीपकानुप्राणितः अर्थान्तरन्यासोऽलङ्कारः ।
PROSE ORDER :—इति अनुशासती मेना ध्रुवेच्छां सुतां
उद्यमाद् नियन्तुं न शशाक । ईप्सितार्थस्थिरनिश्चयं मनः निम्ना-
भिमुखं पयश्च कः प्रतीपयेत् ॥ ५ ॥
कु० सं०—३

( १४ )
Notes :—इति—in this way, i. e., as mentioned in
the previous two verses अनुशासती—advising, instruct-
ing. (अनु + √शास् + शतृ + ङीप्) Present Part of √शास्
to teach शास्ति (लट्), शशास (लिट्), अशिषत् (लुङ्)।
ध्रुवेच्छां-ध्रुवा (निश्चला) इच्छा यस्या, तां whose desire was
inflexible. उद्यमात्—from the attempt or determination.
नियन्तु—(नि + √यम् + तुमुन्) to check तुमुन् is the sign
of Infinitive, added by ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’
पा० ३.३.१० न शशाक—was not able Perfect (लिट्) of
√शक् ‘to be able’ शक्नोति (लट्) शक्ष्यति (लृट्) अश-
कत् (लुङ्) ईप्सितार्थस्थिरनिश्चयम्। ईप्सित—desired.
(√आप् + सन् + कः) Desiderative (सन्नन्त Past Part of
√आप् to obtain The आ of √आप् is changed to ई by
‘आप् ज्ञपि ऋधां ईन्’ पा० ७.४ ५५। ईप्सिते अर्थे स्थिरः निश्चयः
यस्य तत् whose determination is firm for the desired
object It is an Adjective of मनः। निम्नाभिमुखं—निम्ने
अभिमुखं or निम्नस्य अभिमुखं flowing towards low
ground. पयः—water. प्रतीपयेत्-विपरीतं कर्तुं शक्नुयात् Can
turn back. It is Potential (विधिलिङ्) Third Pers Sing.
from √प्रतीपय्, a Denominative verb (i. e., a verb
formed from a noun—नामधातु) from प्रतीप। प्रतीप
(प्रति + आप + अ) is formed by changing आ of आप्
into ई by ‘द्वयन्तरुपसर्गेभ्योऽप ईत्’ पा० ३.६ ६७ Similarly
are formed द्वीप, अन्तर्रीप, समीप etc.
The chief figure of speech in the stanza is अर्थान्त-
रन्यास which means supporting a particular case by a

( १५ )
general truth. In the verse first two lines contain
a particular statement and the latter two a general
one. It is very often used by Kalidasa.
Some books read स्थिरेच्छां for ध्रुवेच्छाम् ।
CHANGE OF VOICE —इति अनुशासत्या मेनया ध्रुवेच्छा
सुता उद्यमात् नियन्तु न शेके । ईप्सितार्थस्थिरनिश्चयं मनो
निम्नाभिमुखं पयश्च केन प्रतीप्येयाताम् ? ॥ ५ ॥
HINDI TRANSLATION :—इस प्रकार उपदेश देने वाली
मेना स्थिर इच्छा वाली (अपनी) पुत्री को (उसके) निश्चय
से न हटा सकी । चाही हुई वस्तु के लिये दृढ निश्चय वाले
मन को और नीचे की ओर जाते हुये जल को कौन पलट
सकता है ? ॥ ५ ॥
ENGLISH TRANSLATION —Mena, thus exhorting, could
not ward off her daughter, who was firm in her desire,
from her resolve who can turn back a mind of fixed
determination for (the achievement of) a desired object,
or water flowing towards a low ground ?
PURPORT IN SANSKRIT —मेना पार्वतीं निवारयितुमत्यन्त-
मयतत विविधप्रकारेण च तामुपदिदेश परन्तु स्वोद्देश्ये सफलतां
नाप्रात् यतो गौरी तपोऽनुष्ठाने शिवानुनये च कृतनिश्चयासीत् ।
तथा हि—प्राप्तव्ये वस्तुनि गूढमभिनिविष्टं मनो नीचैर्गच्छज्जल वा
विरुद्धं कर्त्तुं प्रवाहितु वा न शक्यते ॥ ५ ॥
कदाचिदासन्नसखीमुखेन सा
मनोरथज्ञं पितरं मनस्विनी ।
अयाचतारण्यनिवासमात्मनः
फलोदयान्ताय तपःसमाधये ॥ ६ ॥

( १६ )
कदाचिदिति । अथ कदाचित् मनस्विनी स्थिरचित्ता सा
पार्वती मनोरथज्ञं अभिलाषज्ञं पितरं हिमवन्तं आसन्नसखीमुखेन
आसन्नसखी आप्तसखी सैव मुखं उपायः । 'मुखं निःसरणे वक्त्रे
प्रारम्भोपाययोरपि' इति विश्वः । तेन । फलोदयान्ताय फलोदयः
फलोत्पत्ति अन्तोऽवधिर्यस्य तस्मै तप समाधये तपोनियमार्थं
आत्मनः स्वस्य अरण्यनिवासं वनवासं अयाचत । 'दुहाच्'—
इत्यादिना द्विकर्मकत्वम् ।
PROSE ORDER :—कदाचित् मनस्विनी सा मनोरथज्ञं पितरं
आसन्नसखीमुखेन फलोदयान्ताय तपःसमाधये आत्मनः अरण्य-
निवासं अयाचत ॥ ६ ॥
NOTES —कदाचित्—Once ; on some opportune
occasion. मनस्विनी—( मनस् + विनिः + ङीप् ) प्रशस्तं मनः
विद्यते अस्याः सा full of sense ; intelligent, i e, who
knew when and how to make a request. Or, here, as
Mallinatha comments, स्थिरचित्ता who was firm-minded;
who was determined to achieve her object at any
cost. Cf 'महाकार्ये कृताद्योगो विघ्नैराहतमानसः । प्रारब्धं न
त्यजति यः स मनस्वीति कथ्यते ।' विनि is added by 'अस्
माया मेधा स्रजो विनिः' पा० ५ २ १२१ । मनोरथज्ञं—( मनोरथ +
√ज्ञा + कः ) जानाति इति ज्ञः , मनोरथस्य ज्ञः मनोरथज्ञः तं
who knew her desire. ज्ञः is formed from √ज्ञा by add-
ing कः to it by 'इगुपधज्ञाप्रीकिरः कः' पा० ३.१ १३५ ।
पितरं—हिमवन्तम् Himavat This is the secondary object
( गौण कर्म ) of अयाचत which governs two objects
आसन्नसखीमुखेन—( आ + √सद् + कः ) आसन्नायाः सख्याः
मुखेन ( तत्पुरुष ) or आसन्ना चासौ सखी आसन्नसखी ;

( १७ )
आसन्नमखी एव मुखं ( उपाय. ) तेन ( कर्मधारय ) through a
confidant friend आसन्नसखी lit means a friend sitting
near, but the sense is ' a reliable friend, or a friend
who was in her confidence' मुखं means साधनं ; उपायः
Cf, ' मुख निःसरणे वक्त्रे प्रारम्भोपाययोरपि ' इति विश्वः ।
फलोदयान्ताय-फलस्य उदयः ( प्राप्ति ) अन्तः यस्य, तस्मै i. e.
which will last till its fruit is achieved. तपः समाधये—
तपसः समाधिः तपः समाधिः, तस्मै तपो नियमार्थम् to perform
austere penance. Or, तपसि समाधिः तपः समाधिः, तस्मै for
contemplation. In former case समाधि means नियम
( a rigid rule of conduct ) and in the latter ध्यान
( contemplation ) ' समाधिर्ध्याननीषाकनियमेषु समर्थने '
इति विश्वः । The Dative is used for a noun expressive
of the purpose for which any thing is done ( तादर्थ्ये
चतुर्थी वाच्या ) or, it is used for the object governed by
an infinitive not actually used ( तपः समाधिं कर्त्तुम् )
as in case of तपसे in stanza 3 above अरण्यनिवासं—
अरण्ये निवास residence in forest This is the Principal
object ( प्रधान कर्म ) of अयाचत । अयाचत—begged It
is Imperfect ( लङ् ) of √याच् to beg, which governs
double accusatives according to the following Karika—
' दुह् याच् पच् दण्ड् रुधि प्रच्छि चि ब्रू शासु जि मन्थ् मुषाम् ।
कर्मयुक् स्यादकथितं तथा स्यान्नी ह कृष् वहाम् ॥'
CHANGE OF VOICE: -कदाचिन्मनस्विन्या तया मनोरथज्ञः
पिता आसन्नसखीमुखेन फलोदयान्ताय तप समाधये आत्मनोऽ-
रण्यनिवासं अयाच्यत ॥ ६ ॥

( १८ )
HINDI TRANSLATION :- एक बार दृढ़ निश्चय वाली उस
( पार्वती ) ने एक अभिन्नहृदया सहेली के द्वारा ( अपने )
पिता जी से, जो उसकी इच्छा से परिचित थे, फलप्राप्ति
पर्यन्त तप करने के लिये अपने आप वन में रहने की आज्ञा
माँगी ॥ ६ ॥
ENGLISH TRANSLATION - Once, that firm-minded girl,
through a close friend, begged of her father, who knew
her desire, her residence in the forest in order to per-
form penance till their fruition 6.
PURPORT IN SANSKRIT :- गौर्याः पिता तस्या अभिप्राय-
मजानात्, परं सा तदाज्ञां विना वनं गन्तुमनुचितमिति निश्चित्य
स्वपितुरनुज्ञां स्वयमेव ग्रहीतुमशक्नुवती निजाभिन्नहृदयसखीद्वा-
रेणाभीष्टलाभपर्यन्तं तपश्चरितुं वने वसति स्वपितरं ययाचे ॥ ६ ॥
अथानुरूपाभिनिवेशतोषिणा
कृताभ्यनुज्ञा गुरुणा गरीयसा ।
प्रजासु पश्चात्प्रथितं तदाख्यया
जगाम गौरी शिखरं शिखण्डिमत् ॥ ७ ॥
अथेति। अथ गौरी अनुरूपाभिनिवेशतोषिणा अनुरूपेण योग्येन
अभिनिवेशेन आग्रहेण तुष्यतीति तथोक्तेन गरीयसा पूज्यतमेन
गुरुणा पित्रा कृताभ्यनुज्ञा तपः कुरु इति कृतानुमतिः सती पश्चात्
तपःसिद्धयुत्तरकालं प्रजासु जनेषु तदाख्यया तस्या गौर्याः संज्ञया
प्रथितम् । गौरीशिखरमिति प्रसिद्धमित्यर्थः । शिखण्डिमत् । न तु
हिंस्रप्राणिप्रचुरमिति भावः शिखर शृङ्गं जगाम ययौ ॥
PROSE ORDER :- अथ गौरी अनुरूपाभिनिवेशतोषिणा

( ११ )
गरीयसा गुरुणा कृताभ्यनुज्ञा पश्चात् प्रजासु तदाख्यया प्रथितं
शिखण्डिमत् शिखरं जगाम ॥ ७ ॥
NOTES :—गौरी—पार्वती known so because of her
brilliant complexion अनुरूपामिनिवेशतोषिणा । अनुरूपः—
रूपस्य योग्य सदृशो वा अनुरूपः ( अनुकूलः ) worthy of one.
अभिनिवेशः—( अभि + नि + √विश् + घञ् ) intentness or
determination (to effect a purpose or attain an object).
It also means devotion or love. तोषिणा—who was
satisfied Instrumental Sing of तोषिन् ( √तुष् + णिनिः ) ।
अनुरूपेण अभिनिवेशेन तुष्यति इति अनुरूपामिनिवेशतोषी तेन
who was satisfied with her determination worthy of
her गरीयसा—अतिशयेन गुरु. गरीयान, तेन, by the highly
venerable; exalted. Instrumental Sing of गरीयस् (गुरु+
ईयसुन् ) comparative degree of गुरु । Decline as गरीयान्,
गरीयांसौ, गरीयांसः । गरीयांसं, गरीबांसौ, गरीयसः । To form
comparative and superlative degrees of adjectives तरप्
or ईयसुन् and तमप् or इष्ठन् are respectively added by
' द्विवचनविभज्योपपदे तरप् ईयसुनौ ' पा० ५ ३ ५७ । and; अति-
शायने तमप् इष्ठनौ ' पा० ५ ३.५५ । गुरुणा—पित्रा by the
father Cf. ' गुरु गीष्यति पित्राद्यौ ' इत्यमरः । कृताभ्यनुज्ञा—
कृता ( दत्ता ) अभ्यनुज्ञा ( अनुमतिः ) यस्यै यस्या. वा सा To
whom consent or permission had been granted. अनुज्ञा
—( अनु + √ज्ञा + अङ् ) permission. पश्चात्—afterwards
i. e. when Parvati had finished her penance प्रजासु—
जनेषु among the people. तदाख्यया—तस्याः (गौर्याः)
आख्यया (संज्ञया) तदाख्यया after her name Cf गौरीशिखर,

( २० )
name of a peak of the Himalayas आख्या is formed from
√चक्षिङ्+थ, चक्षिङ् being replaced by √ख्याञ् by
‘चक्षिङः ख्याञ् २.४.५४. प्रथितं—(√प्रथ्+क्तः) प्रसिद्धं
known शिखण्डिमत्। शिखण्डिन्—(शिखण्ड+इनिः) शिखण्डः
(शिखा) अस्य अस्तीति one having a crest i e., a pea-cock.
शिखण्डिमत्—(शिखण्डिन्+मतुप्) शिखण्डिनः (मयूरा )
सन्ति अस्मिन् इति abounding in pea-cocks This shows
the absence of poisonous serpents and other ferocious
beasts The suffix मतुप् is added by ‘तदस्यास्त्यस्मिन्निति
मतुप्’ पा० ५ २ ९४ in the sense of ‘it has that or that is
in it’ शिखरं—a peak जगाम—गता resorted to Perfect
(लिट् ) √of गम् to go
Cf in this connection—‘गौरी विजयया सख्या जयया
च सुनेत्रया। साकं सखीभ्यां सुमुखी सा गौरीशिखरं ययौ। चकार
वसतिं यस्माद्गौरीशिखरमुच्यते ॥’ शिवपुराण ।
Change of Voice :—अथ गौर्या अनुरूपामिनिवेशतोषिया
गरीयसा गुरुणा कृताभ्यानुज्ञया पश्चात् प्रजासु तदाख्यया प्रथितं
शिखण्डिमत् शिखरं जग्मे ॥ ७ ॥
Hindi Translation:—तदनन्तर (उसके) योग्य निश्चय
से सन्तुष्ट हुए, पूज्य पिता से आज्ञा दी जाती हुई गौरी मोरो से
युक्त (हिमालय की एक) चोटी पर गई, जो कि बाद में जनता में
उसी के नाम से प्रसिद्ध हुई ॥ ७ ॥
English Translation —Being permitted by her
highly venerable father, who was satisfied with her
determination worthy of her, Gaurī resorted to a peak,