सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 23, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 23

( ४ )
कामदेव को जलाने वाले शिव के द्वारा निष्फल इच्छा वाली पार्वती
ने अन्दर से (अपनी) सुन्दरता की निन्दा की, क्योंकि सुन्दरता
वही है जिसके द्वारा प्यारे का सुख मिले ॥ १ ॥
ENGLISH TRANSLATION :-Parvati, baffled in her
hopes by Shiva who, thus, burnt the mind-born
(Cupid) in her presence, cursed her beauty in her
heart: for beauty has for its fruit good fortune as
regards one's beloved. 1.
PURPORT IN SANSKRIT :- शिवेन मदनदहनं रत्या च
तत्कृते कृतं विलापं दर्शयित्वा कविकालिदासः शिवमभिमुखीकर्त्तुं
पार्वत्या कृतं तपो वर्णयितुं श्लोकेऽस्मिन् तपोबीजं गौरी-
नैराश्यं दर्शयति—यदा हि शिवेन स्वतृतीयनेत्राग्निना पार्वत्याः
प्रत्यक्षमेव कामः भस्मसात्कृतस्तस्याः शिवपरिणयविषयिका-
भिलाषा समूलं नष्टा। एवञ्च शिवेन नाकृष्टचित्तमात्मनः
सौन्दर्यं पार्वती निन्दति स्म, यतः वल्लभस्य प्रेम तज्जनितं
सुखञ्च सौन्दर्यस्य फलम्। यद्रूपं भर्त्रे न रोचते तन्निरर्थकमेव
इति मत्वा सात्मानं धिक्कृतवती ॥ १ ॥
इयेष सा कर्तुमवन्ध्यरूपतां
समाधिमास्थाय तपोभिरात्मनः।
अवाप्यते वा कथमन्यथा द्वयं
तथाविधं प्रेम पतिश्च तादृशः ॥ २ ॥
इयेषेति। सा पार्वती समाधिम् एकाग्रताम् आस्थाय अवलम्ब्य
तपोभिः वक्ष्यमाणनियमैः करणभूतैः आत्मनः स्वस्य अवन्ध्यरूपतां
सफलसौन्दर्यं कर्त्तुं इयेष इच्छति स्म। तपसा शिवं वशीकर्तुमुद्युक्ते-
त्यर्थः। अन्यथा ततोऽन्यप्रकारेण कथं तत् द्वयं अवाप्यते। किं