याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
शोध्यो जलं प्रविशेत् जले निमज्जेत् । एतच्च वरुणपूजायां सत्याम् ; 'गन्ध-
माल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः । वरुणाय प्रकुर्वीत पूजामादौ समाहितः ॥'
इति नारदस्मरणात् । तथा साधारणधर्मेषु धर्मावाहनादिसकल१देवतापूजाहो-
मसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा—'तोय ! त्वं प्राणिनां
प्राणः सृष्टेराद्यं तु निर्मितम् । शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥
अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥' इति प्राड्विवाकेनोदकाभिमन्त्रणे कृते
शोध्यः 'सत्येन माऽभिरक्ष त्वं वरुण !' इति जलं प्रार्थयेत् । उदकस्थानानि च
नारदेनोक्तानि ( १३०५ )—'नदीषु तनुवेगासु सागरेषु वहेषु च । ह्रदेषु देव-
खातेषु तडागेषु सरःसु च' इति । तथा पितामहेनापि—'स्थिरतोये निर्मज्जेत
न ग्राहिणि न चाल्पके । तृणशैवालरहिते जलौकामत्स्यवर्जिते ॥ देवखातेषु
यत्तोयं तस्मिन्कुर्याद्विशोधनम् । आहार्यं वर्जयेन्नित्यं शीघ्रगासु नदीषु च ॥
आविशेत्सलिले नित्यमूर्निमपङ्कविवर्जिते ॥' इति । आहार्यं तडागादिभ्य आहृतं
ताम्रकटाहादिस्थितं जलम् । नाभिप्रमाणोदकस्थश्च यज्ञियवृक्षोद्भवां धर्मस्थूणाम-
वष्टभ्य प्राङ्मुखस्तिष्ठेत् ; 'उदके प्राङ्मुखस्तिष्ठेद्धर्मस्थूणां प्रगृह्य च ।' इति
स्मरणात् ॥ १०८ ॥
भाषा—'हे वरुण ! तुम सत्य द्वारा मेरी रक्षा करो' इस प्रकार जल का
आवाहन कर के नाभि तक जल में खड़े हुए पुरुष की जाँघों को पकड़कर
जल में डुबकी लगावे ॥ १०८ ॥
ततः किं कर्तव्यमित्यत आह—
समकालमिषुं मुक्तमानीय़ान्यो जवी नरः ।
गते तस्मिन्निमग्नाङ्गं पश्येच्चेच्छुद्धिमाप्नुयात् ॥ १०९ ॥
निमज्जनसमकालं गते तस्मिन् जविन्येकस्मिन्पुरुषे अन्यो जवी शरपात-
स्थानस्थितः पूर्वमुक्तमिषुमानीय जले निमग्नाङ्गं यदि पश्यति तदा स शुद्धो
भवति । एतदुक्तं भवति—त्रिषु शरेषु मुक्तेष्वेको वेगवान्मध्यमशरपातस्थानं
गत्वा तमादाय तत्रैव तिष्ठति । अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थाने तोरण-
मूले तिष्ठति । एवं स्थितयोस्तृतीयास्यां करतालिकायां शोध्यो निमज्जति ।
तत्समकालमेव तोरणमूलस्थितोऽपि द्रुततरं मध्यशरपातस्थानं गच्छति । शर-
ग्राही च तस्मिन्प्राप्ते द्रुततरं तोरणमूलं प्राप्य़ान्तर्जलगंतं यदि न पश्यति १०तदा
१. देवपूजा । २. इत्युक्तं प्रार्थयते । ३. निमज्जेत्तु । ४. जलूका ।
५. मानयेद्यो । ६. गतेऽन्यस्मिन् । ७. तदा शुद्धो । ८. स्थितयो-
स्तयोस्तृतीय । ९. मध्यमशर । १०. तदा शुद्धिं व्रजतीति ।
[Page Header: २५८ याज्ञवल्क्यस्मृतिः]
शुद्धो भवतीति । एतदेव स्पष्टीकृतं पितामहेन—'गन्तुश्चापि च कर्तुश्च समं
गमनमज्जनम् । गच्छेत्तोरणमूलात्तु लक्ष्यस्थानं जवी नरः ॥ तस्मिन्गते द्विती-
योऽपि वेगादादाय सायकम् । गच्छेत्तोरणमूलं तु यतः स पुरुषो गतः ॥ आग-
तस्तु शरग्राही न पश्यति यदा जले । अन्तर्जलगतं सम्यक्तदा शुद्धं विनिद्दिँ-
शेत् ॥' इति । जविनोश्च पुरुषयोर्निर्धारणं कृतं नारदेन—'पञ्चाशतो धावकानां
यौ स्यातामधिकौ जवे । तौ च तत्र नियोक्तव्यौ शरानयनकारणात् ॥' इति ।
तोरणं च निमज्जनसमीपस्थाने समे शोध्यकर्णप्रमाणोच्छ्रितं कार्यम् ; 'गत्वा
तु तज्जलस्थानं तटे तोरणमुच्छ्रितम् । कुर्वीत कर्णमात्रं तु भूमिभागे समे
शुचौ ॥' इति नारदस्मरणात् । शरत्रयं वैणवं च धनुर्मङ्गलद्रव्यैः श्वेतपुष्पादिभिः
प्रथमं संपूजयेत् ; 'शरान्संपूजयेत्पूर्वं वैणवं च धनुस्तथा । मङ्गलैर्धूपपुष्पैश्च ततः
कर्म समाचरेत् ॥' इति पितामहवचनात् । धनुषः प्रमाणं लक्ष्यस्थानं च नारदे-
नोक्तम्—'क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् । मन्दं पञ्चशतं ज्ञेयमेष
ज्ञेयो धनुर्विधिः ॥ मध्यमेन तु चापेन प्रक्षिपेच्च शरत्रयम् । हस्तानां तु शते
सार्धे लक्ष्यं कृत्वा विचक्षणः ॥ न्यूनाधिके तु दोषः स्यात्क्षिपतः सायकां-
स्तथा ॥' इति । अङ्गुलानां सप्ताधिकं शतं सप्तशतं क्रूरं धनुः । एवं षट्शतं
पञ्चशतं च । एवं चैकादशाङ्गुलाधिकं हस्तचतुष्टयं क्रूरस्य धनुषः प्रमाणम्,
मध्यमस्य दशाङ्गुलाधिकम्, मन्दस्य नवाङ्गुलाधिकमित्युक्तं भवति ।
शराश्चानायसाग्रा वैणवाः कार्याः; •'शरांश्चानाय साग़्रांस्तु प्रकुर्वीत
विशुद्धये । वेणुकाण्डमयांश्चैव क्षेप्ता तु सुदृढं क्षिपेत् ॥' इति स्मरणात् ।
क्षेप्ता क्षत्रियस्तद्वृत्तिर्वा ब्राह्मणः सोपवासो नियोक्तव्यः । यथाह—'क्षेप्ता च
क्षत्रियः प्रोक्तस्तद्वृत्तिर्ब्राह्मणोऽपि वा । अक्रूरहृदयः शान्तः सोपवासस्ततः
क्षिपेत् ॥' इति । त्रिषु मुक्तेषु मध्यमः शरो ग्राह्यः; तेषां च प्रोषितानां च
शराणां शास्त्रचोदनात् । मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा ॥' इति वच-
नात् । तत्रापि पतनस्थानादानेतव्यः; न सर्पणस्थानात्, 'शरस्य पतनं ग्राह्यं
सर्पणं तु विवर्जयेत् । सर्पन्सर्पन्शरो यायाद् दूराद्दूरतरं यतः ॥' इति वचनात् ।
वाते च प्रवायति विषमादिदेशे च शरमोक्षो न कर्तव्यः; 'इषुं न प्रक्षिपेद्विद्वा-
न्मारुते चातिवायति । विषमे भूप्रदेशे च वृक्षस्थानसमाकुले ॥ तृणगुल्मलता-
वल्लीपङ्कपाषाणसंयुते ॥' इति पितामहवचनात् । निमग्नाङ्गं पश्येच्चेच्छुद्धिमा-
प्नुयादिति वदता उन्मज्जिताङ्गस्याशुद्धिर्दर्शिता । स्थानान्तरगमने चाशुद्धिः
पितामहेनोक्ता; 'अन्यथा न विशुद्धिः स्यादेकाङ्गस्यापि दर्शनात् ॥' इति 'स्था-
नाङ्गाऽन्यत्र गमनाद्यस्मिन्पूर्वं निवेशितः ॥' इति एकाङ्गस्यापि दर्शनादिति च
१. प्रक्षितानां च । २. च प्रवाति ।
व्यवहाराध्यायः २५६
कर्णाद्यभिप्रायेण । 'शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका । अप्सु प्रवेशने
यस्य शुद्धं तमपि निर्दिशेत् ॥' इति विशेषाभिधानात् । अयमत्र प्रयोगक्रमः—
'उक्तलक्षणजलाशयसंनिधावुक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं
निधाय तोरणसंनिधौ १ सशरं धनुः संपूज्य जलाशये वरुणमावाह्य पूजयित्वा
तत्तीरे धर्मादींश्च देवान्हवनान्तेमिष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रमाबध्य
प्राड्विवाको जलमभिमन्त्रयते-'तोय ! त्वं प्राणिनां प्राणः' इत्यादिना मन्त्रेण ।
अथ शोध्यः—'सत्येन' इत्यादिना मन्त्रेण जलमभिमन्त्र्य गृहीतस्थूणस्य
नाभिमात्रोदकावस्थितस्य बलीयसः पुरुषस्य समीपमुपसर्पति । अथ शरेषु त्रिषु
मुक्तेषु मध्यमशरपातस्थाने मध्यमं शरं गृहीत्वा जविन्वेकस्मिन्पुरुषे स्थिते
अन्यस्मिंश्च तोरणमूले स्थिते प्राड्विवाकेन तालत्रये दत्ते युगपद्गमनमज्जनमथ
शरानयनमिति ॥ १०९ ॥
भाषा—उसके डुबकी लगाने के समय ही छोड़े गये बाण को लानेके
लिए एक तेज दौड़ने वाला व्यक्ति जावे; लौटने पर यदि वह दिव्य करने वाले
व्यक्ति को जल डूबा हुआ ही पावे तो वह शुद्ध होता है ॥ १०९ ॥
इत्युदकविधिः ॥
इदानीं विषविधानमाह—
त्वं विष ! ब्रह्मणः पुत्रः सत्ये धर्मे २ व्यवस्थितः ।
त्रायस्वास्मादभीशापात्सत्येन भव मेऽमृतम् ३ ॥ ११० ॥
एवमुक्त्वा विषं शार्ङ्गं भक्षयेद्धिमशैलजम् ।
यस्य वेगैर्विना ४ जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥ १११ ॥
'त्वं विष'इत्यादिमन्त्रेण विषमभिमन्त्र्य कर्ता विषं हिमशैलजं शृङ्गभवं भक्षयेत् ।
तच्च भक्षितं सत् यस्य विषं वेगैर्विना जीर्यति स शुद्धो भवति । विषवेगो नाम
धातोर्धात्वन्तरप्राप्तिः । 'धातोर्धात्वन्तरप्राप्तिर्विषवेग इति स्मृतः' इति वचनात् ।
धातवश्च त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राणीति सप्त । एवं च सप्तैव विषवेगा
भवन्ति । तेषां च लक्षणानि पृथगेव विषतन्त्रे कथितानि—'वेगो रोमाञ्चमाद्यो
रचयति विषजः स्वेदवक्त्रोपशोषौ तस्योर्ध्वंस्तत्परौ द्वौ वपुषि जनयतो वर्णभे-
दप्रवेपौ । यो वेगः पञ्चमोऽसौ नयति विवशतां कण्ठभङ्गं च हिक्कां षष्ठो
निःश्वासमो हौ वितरति च मृतिं सप्तमो भक्षकस्य ॥' इति । अत्र च महादेवस्य
१. समीपे सशरं । २. सत्ये धर्मे, ; सत्यधर्मेव्यवस्थितः । ३. व्यव-
स्थितम् । ४. जीर्णं तस्य शुद्धिं विनिर्दिशेत् । ५. नयनविवशतां ।
१७ या०
२६० याज्ञवल्क्यस्मृतिः
पूजा कर्तव्या । यथाह नारदः- 'दद्याद्विषं सोपवासो देवब्राह्मणसंनिधौ ।
धूपोपहारमन्त्रैश्च पूजयित्वा महेश्वरम् ॥' इति प्राड्विवाकः कृतोपवासो महादेवं
पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादिपूजां हवनान्तां विधाय प्रति-
ज्ञापत्रं शोध्यस्य शिरसि निधाय विषमभिमन्त्रयते—'त्वं विष ! ब्रह्मणा
सृष्टं परीक्षार्थं दुरात्मनाम् । पापानां दर्शयात्मानं शुद्धानाममृतं भव ॥ मृत्यूमूर्ते
विष ! त्वं हि ब्रह्मणा परिनिर्मितम् । त्रायस्वैनं नरं पापात्सत्येनास्यामृतं भव ॥'
इति । एवमभिमन्त्र्य दक्षिणाभिमुखावस्थिताय दद्यात् ; 'द्विजानां संनिधावेक
दक्षिणाभिमुखे स्थिते । उदङ्मुखः प्राङ्मुखो वा विषं दद्यात्समाहितः ॥' इति
नारद्वचनात् । विषं च वत्सनाभादि ग्राह्यम् ; 'शृङ्गिणो वत्सनाभस्य हिमजस्य
विषस्य वा ॥' इति पितामहवचनात् । वर्ज्यानि च तेनैवोक्तानि—'चारितानि च
जीर्णानि कृत्रिमाणि तथैव च । भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् ॥'
इति । तथा नारदेनापि ( १।३२१ )—'अदृष्टं च चारितं चैव धूपितं मिश्रितं
तथा । कालकूटमलाबुं च विषं यत्नेन वर्जयेत् ॥' इति । कालश्च नारदेनोक्तः
( १।३१९ )—'तोलयित्वेप्सितं काले देयं तद्धि हिमागमे । नापराह्ने न
मध्याह्ने न संध्यायां तु धर्मवित् ॥' इति । कालान्तरे तूक्तप्रमाणादल्पं देयम् ;
'वर्षे चतुर्यवा मात्रा ग्रीष्मे पञ्चयवा स्मृता । हेमन्ते सा सप्तयवा शरद्यल्पा
ततोऽपि हि ॥' इति स्मरणात् । अल्पेति षड्यवेत्यर्थः । 'हेमन्त'ग्रहणेन
शिशिरस्यापि ग्रहणम् । 'हेमन्तशिशिरयोः समासेन' इति श्रुतेः । वसन्तस्य
च सर्वदिव्यसाधारणत्वात्तत्रापि सप्त यवा विषं च घृतप्लुतं देयं; नारदवचनात् ।
'विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः । तमष्टभागहीनं तु शोध्ये दद्याद्घृत-
प्लुतम् ॥' (नारदः १।३२३) इति । पलं चात्र चतुःसुवर्णकम् । तस्य षष्ठो
भागो दश माषाः दश यवाश्च भवन्ति । 'त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको
माषः' इत्येको माषः पञ्चदश यवा भवन्ति । एवं दशानां माषाणां यवाः
सार्धशतं भवन्ति । पूर्वे च दश यवा इति षष्ट्यधिकं शतं यवाः पलस्य षष्ठो
भागस्तस्माद्विंशतितमो भागोऽष्टौ यवास्तस्याष्टभाग एकयवः, तेन हीनं विंशति-
तमं भागं सप्तयवं घृतप्लुतं दद्यात् । घृतं च विषात्त्रिंशद्गुणं ग्राह्यम् ; 'पूर्वाह्णे
शीतले देशे विषं देयं तु देहिनाम् । घृते नियोजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणा-
न्वितम् ॥' इति कात्यायनवचनात् । त्रिंशद्गुणेन घृतेनान्वितं विषम् । शोध्यश्च
कुहकादिभ्यो रक्षणीयः; 'त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्ठितम् । कुहकादि-
भयाद्राजा रक्षयेद्दिव्यकारिणम् ॥ ओषधीर्मन्त्रयोगांश्च मणीनथ विषापहान् ।
कर्तुः शरीरसंस्थांस्तु गूढोऽपञ्चानुपरीक्षयेत् ॥' इति पितामहस्मरणात् । तथा
१. पूजा कार्या । २. तथैवोक्तानि । ३. यत्नेन परि ।
विषमपि र॑क्षणीयम्—‘शाङ्गं हैमवतं शस्तं गन्धवर्णरसान्वितम् । अकृत्रिमम-
संमूढम मन्त्रोपहतं च यत् ॥’ (१।३२२) इति नारदस्मरणात् । तथा विषे
पीते यावत्करतालिकाशतपञ्चकं तावत्प्रतीक्षणीयोऽनन्तरं चिकित्सनीयः । यथाह
नारदः— ‘पञ्चतालशतं कालं निर्विकारो यदा भवेत् । तदा भवति संशुद्धस्ततः
कुर्याच्चिकित्सितम् ॥’ इति । पितामहेन तु दिनान्तोऽवधिरुक्तोऽल्पमात्रा-
विषयः—‘भक्षिते तु यदा स्वस्थो मूर्च्छाच्छर्दिविवर्जितः । निर्विकारो दिनस्यान्ते
शुद्धं तमपि निर्दिशेत् ॥’ इति । अत्र च प्राड्विवाकः सोपवासो महादेवं संपूज्य
तत्पुरतो विषं स्थापयित्वा धर्मादीनिष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रं निधाय
विषमभिमन्त्र्य दक्षिणाभि³मुखस्थिताय विषं प्रयच्छति । स च शोध्यो विषम-
भिमन्त्र्य भक्षयतीति क्रमः ॥ ११०–१११ ॥
भाषा—‘हे विष ! तुम ब्रह्मा के पुत्र हो और सत्यधर्म में प्रतिष्ठित हो ।
इस अभिशाप से सत्य के द्वारा मेरी रक्षा करो और मेरे लिये अमृत बनो'
इस प्रकार विष से प्रार्थना करके दिव्य करने वाला व्यक्ति हिमालय से उत्पन्न
एवं शृङ्ग से निकले हुए विष का भक्षण करे । यदि विष बिना प्रभाव दिखाये
ही पच जाय तो वह उसकी शुद्धि प्रकट करता है ॥ ११०–१११ ॥
इति विषविधानम् ॥
अथ कोशविधिमाह—
देवानुग्रान्समभ्यर्च्य तत्स्नानोदकमाहरेत् ।
संश्राव्य४ पाययेत्तस्माज्जलं तु प्रसृतित्रयम् ॥ ११२ ॥
उग्रान्देवान्दुर्गादित्यादीन् समभ्यर्च्य गन्धपुष्पादिभिः पूजयित्वा संस्नाप्य
तत्स्नानोदकमाहरेत् । आहृत्य च ‘तोय ! त्वं प्राणिनां प्राणः’ इत्यादिना
तत्तोयं प्राड्विवाकः संश्राव्य शोध्येन च तत्तोयं पात्रान्तरे कृत्वा ‘सत्येन माभि-
रक्ष त्वं वरुण !’ इत्यनेनाभिमन्त्रितं पाययेत्प्रसृतित्रयम् । एतच्च साधारण-
धर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु
सत्सु । अत्र च स्नाप्यदेवतानियमः कार्यनियमोऽधिकारिनियमश्च पिता५महादि-
भिरुक्तः—‘भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम् । समभावे तु देवाना-
मादित्यस्य च पा६ययेत् ॥ दुर्गायाः पाययेच्चौरान्ये च शस्त्रोपजीविनः । भास्क-
रस्य तु यत्तोयं ब्राह्मणं तन्न पाययेत् ॥ दुर्गायाः स्नापयेच्छूलमादित्यस्य तु
मण्डलम् । अन्येषामपि देवानां स्नापयेदायुधानि तु ॥’ इति देवतानियमः ।
१. परीक्षणीयं । २. तथापि । ३. भिमुखाय स्थिताय । मुखाय विष ।
४. संश्राव्य । ५. पितामहनारदादिभिः । ६. स्नापयेत् ।
२६२ याज्ञवल्क्यस्मृतिः
'विस्तम्भे सर्वशङ्कासु संधिकार्थे तथैव च । एषु कोशः प्रदातव्यो नित्यं चित्तवि-
शुद्धये ॥' इति कार्यनियमः । 'पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च । सशू-
कस्याव्यसनिनः कोशपानं विधीयते ॥' ( नारदः १।३२८ ) सशूक आस्तिकः ।
'मद्यपस्त्रीव्यसनिनां कितवानां तथैव च । कोशः प्राज्ञैर्न दातव्यो ये च नास्तिक-
वृत्तयः ॥ महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते । नास्तिकव्रात्यदोषेषु कोशपानं
विवर्जयेत् ॥' इति । महापराधो महापातकी, निर्धर्मो वर्णाश्रमधर्मरहितः
पाखण्डी, कुत्सितः प्रतिलोमजः । दाशाः कैवर्ताः, इत्यधिकारिनियमः । तथा
गोमयेन मण्डलं कृत्वा तत्र शोध्यमादित्याभिमुखं स्थापयित्वा पाययेदिति
नारदवचनादवगन्तव्यम् । यथाह—'तमाहूयाभिशस्तं तु मण्डलाभ्यन्तरे
स्थितम् । आदित्याभिमुखं कृत्वा पाययेत्प्रसृतित्रयम् ॥' इति ॥ ११२ ॥
भाषा—(दुर्गा आदि) उग्रदेवताओं की गन्ध, पुष्प आदि से पूजा करके
उनके स्नान का जल लेवे; उसे दूसरे पात्र में रखकर तीन अंजलि जल दिव्य
करने वाले को पिलावे ॥ ११२ ॥
ननु तुलादिषु विषान्तेषु समनन्तरमेव शुद्धयशुद्धिभावना, कोशे तु कथमित्यत आह—
अर्वाक् चतुर्दशादह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः ॥ ११३ ॥
चतुर्दशादहः पूर्वं यस्य राजिकं राजनिमित्तं दैविकं देवप्रभवं व्यसनं दुःखं
घोरं महत् नो नैव जायते अहपस्य देहिनामपरिहार्यत्वात्स शुद्धो वेदितव्यः ।
ऊर्ध्वं पुनरवधेर्न दोषः । यथाह नारदः ( १।३३१ )—'ऊर्ध्वं यस्य द्विसप्ताहा-
द्वैकृतं तु महद्भवेत् । नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥' इत्यर्थ-
सिद्धमेवोक्तम् । 'अर्वाक् चतुर्दशादहः' इत्येतन्महाभियोगविषयम्; 'महाभियोगे-
ष्वेतानि' इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेनोक्तान्यल्पविषयाणि,
'कोशमल्पेऽपि दापयेत्' इति स्मरणात् तानि च—'त्रिरात्रात्सप्तरात्राद्वा द्वाद-
शाहाद् द्विसप्तकात् । वैकृतं यस्य दृश्येत पापकृत्स उदाहृतः ॥' इति । महा-
भियोगोक्तद्रव्यादर्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्राद्यपि पक्षत्रयं व्यवस्थापनी-
यम् ॥ ११३ ॥
भाषा—जिस (इस दिव्य को करनेवाले) व्यक्ति पर चौदह दिन के भीतर
राजकृत या दैवकृत घोर दुःख नहीं गिरता वह शुद्ध होता है, इसमें
संशय नहीं ॥ ११३ ॥
इति कोशविधिः ॥
१. विभेदे । २. बालेषु ।
व्यवहाराध्यायः २६३
तुलादीनि कोशान्तानि पञ्च महादिव्यानि यथोद्देशं योगिश्वरेण व्याख्या-
तानि । स्मृत्यन्तरे स्वल्पाभियोगविषयाण्यन्यान्यपि दिव्यानि कथितानि ।
यथाह पितामहः—'तण्डुलानां प्रवक्ष्यामि विधिं श्रवणनोदितम् । चौरे तु
तण्डुला देया नान्यत्रेति विनिश्चयः ॥ तण्डुलान्कारयेच्छुक्लाञ्छालेर्नान्यस्य
कस्यचित् । मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥ स्नानोदकेन संमि-
श्रात्रात्रौ तत्रैव वासयेत् । प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् ॥ तण्डु-
लान्भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः । पिप्पलस्य तु नान्यस्य अभावे भूर्ज एव
तु ॥ लोहितं दृश्यते यस्य हनुस्तालु च शीर्यते । गात्रं च कंपते यस्य तमशुद्धं
विनिर्दिशेत् ॥' इति । शिरोरोपितपत्रकं तण्डुलान्भक्षयित्वा निष्ठीवयेत्प्राड्वि-
वाकः ॥ भक्षयित्वेति च ण्यन्तात्त्विचि रूपम् । सर्वदिव्यसाधारणं च धर्मावा-
हनादि पूर्ववदिहापि कर्तव्यम् ॥
इति तण्डुलविधिः ॥
तप्तमाषविधिः पितामहेनोक्तः । तथा हि—'सौवर्णं राजतं वापि ताम्रं वा
षोडशाङ्गुलम् । चतुरङ्गुलखातं तु मृन्मयं वाऽथ मण्डलम् ॥' वर्तुलमित्यर्थः ।
'पूरयेद्धृततैलाभ्यां विंशत्या तु पलैस्तु तत् । सुवर्णमाषकं तस्मिन्सुतप्ते निक्षि-
पेत्ततः ॥ अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तप्तमाषकम् । कराग्रं यो न धुनुयाद्विस्फोटो वा
न जायते । शुद्धो भवति धर्मेण निर्विकारकराङ्गुलिः ॥' इति । 'उद्धरेत्'इति
वचनात्पात्रादुत्क्षेपणमात्रं, न बहिः प्रक्षेपणमादरणीयम् ॥
अपरः कल्पः—'सौवर्णे राजते ताम्रे आयसे मृन्मयेऽपि वा । गव्यं घृतमु-
पादाय तदग्नौ तापयेच्छुचिः । सौवर्णी राजतीं ताम्रीमायसीं वा सुशोधिताम् ।
सलिलेन सकृद्धौतां प्रक्षिपेत्तान्मुद्रिकाम् ॥' (नारदः १।३३४) 'अमङ्गोचित-
रङ्गाष्ठये ह्यनलस्पर्शगोचरे । परीक्षेतार्द्रपर्णेन चुरुकारं सुघोषकम् ॥ ततश्चानेन
मन्त्रेण सकृत्तदभिमन्त्रयेत् ॥ परं पवित्रममृतं घृत त्वं यज्ञकर्मसु । दह पावक !
पापं त्वं हिमशीतं शुचौ भव ॥ उपोषितं ततः स्नातमार्द्रवाससमागतम् । ग्राहये-
न्मुद्रिकां तां तु घृतमध्यगतां तथा ॥ प्रदेशिनीं च तस्याथ परीक्षेरन् परीक्षकाः ।
यस्य विस्फोटका न स्युः शुद्धोऽसावन्यथाऽशुचिः ॥' इति । अत्रापि धर्मावाह-,
नाद्यनुसंधातव्यम् ॥ घृतानुमन्त्रणं प्राड्विवाकस्य । 'त्वमग्ने ! सर्वभूतानाम्'
इति शोध्यस्याग्म्यभिमन्त्रणमन्त्रः । 'प्रदेशिनीं परीक्षेरन्'इति वचनात् प्रदेशिन्यैव
मुद्रिकोद्धरणम् ॥
इति तप्तमाषकविधिः ॥
१. कम्पयेद्यस्य । २. न प्रक्षेपं । ३. माहरणीयं । ४. चूहकारं ।
२६४ याज्ञवल्क्यस्मृतिः
धर्माधर्मदिव्यविधिः ॥ धर्माधर्माख्यदिव्यविधिश्च पितामहेनोक्तः । तथाच—
'अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् । हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां
नृणाम् ॥' इति । हन्तॄणामिति साहसाभियोगेषु, याचमानानामिति अर्थाभियोगेषु,
प्रायश्चित्तार्थिनामिति पातकाभियोगेषु; 'राजतं कारयेद्धर्ममधर्मं सीसकायसम्'
इति प्रतिमाविधानं सीसकं वा आयसं वेति ॥ पक्षान्तरमाह—'लिखेद्भूर्जे पटे
वापि धर्माधर्मौ सितासितौ । अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥
सितपुष्पस्तु धर्मः स्यादधर्मोऽसितपुष्पधृक् । एवंविधायोपलिख्य पिण्डयोस्तौ
निधापयेत् ॥ गोमयेन मृदा वापि पिण्डौ कार्यौ समंततः । मृद्भाण्डकेऽनुपहते
स्थाप्यौ चानुपलक्षितौ ॥ उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ । आवाहयेत्ततो
देवाँल्लोकपालांश्च पूर्ववत् ॥ धर्मावाहनपूर्वं तु प्रतिज्ञापत्रके लिखेत् ॥' ततः—
'यदि पापविमुक्तोऽहं धर्मस्त्वायातु मे करे । अशुद्धश्चेन्मम करे पापे आयातु
धर्मतः ॥' इति ॥ अभिशस्तोडभिमन्त्रयते—'अभियुक्तस्तयोश्चैकं प्रगृह्णीताविल-
म्बितः । धर्मे गृहीते शुद्धः स्यादधर्मे तु स हीयते ॥ एवं समासतः प्रोक्तं
धर्माधर्मपरीक्षणम् ॥' इति ॥
इति धर्माधर्मदिव्यविधिः ॥
अन्ये च शपथा द्रव्याहपत्वमहत्त्वविषया जातिविशेषविषयाश्च मन्वादि-
भिरुक्ताः । ते यथा—'निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् । त्रिकाद्-
र्वाक्तु पुण्यं स्यात्कोशपानमतः परम् ॥' (मनुः ८।११३ ) 'सत्येन शापयेद्विप्रं
क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥' ( मनुः
८।११३ ) इत्यादयः । अत्र च शुद्धिविभावना मनुनेोक्ता (८।११५ )—'न
चाऽऽर्त्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः' इति । आर्तिरपि 'यस्य नो राज-
दैविकं व्यसनं जायते घोरम्' इत्युक्तैव । कालनियमश्च एकरात्रमारभ्य त्रिरात्र-
पर्यन्तं त्रिरात्रमारभ्य पञ्चरात्रपर्यन्तम् । एकरात्रप्रभृतित्वं कार्यलाघवगौरवप-
र्यालोचनया द्रष्टव्यम् ॥ एवं दिव्यैर्जयपरा जयावधारणे दण्डविशेषोऽपि दर्शितः
कात्यायने—'शताधं दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत्' इति । तं दण्डमाह—
'विषे तोये हुताशे च तुलाकोशे च तण्डुले । तप्तमाषकदिव्ये च क्रमाद्दण्डं
प्रकल्पयेत् ॥ सहस्रं षट्शतं चैव तथा पञ्चशतानि च । चतुस्त्रिद्व्येकमेवं च हीनं
हीनेषु कल्पयेत् ॥' इति ॥ 'निह्नवे भावितो दद्याद्' इत्युक्तदण्डेनायं दिव्य-
निबन्धनो दण्डः समुच्चीयते ॥
इति दिव्यप्रकरणम् ॥
१. पापमायातु ।
अथ दायविभागप्रकरणम् ८
व्यवहारोध्यायः २६५
अथ दायविभागप्रकरणम् ८
प्रमाणं मानुषं दैवमिति भेदेन वर्णितम् ।
अधुना वर्ण्यते दायविभागो योगमूर्त्तिना ॥
तत्र 'दाय' शब्देन यद्धनं स्वामिसंबन्धादेव निमित्तादन्यस्य स्वं भवति
तदुच्यते । स च द्विविधः-अप्रतिबन्धः, सप्रतिबन्धश्च । तत्र पुत्राणां पौत्राणां च
पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धो दायः ।
पितृव्यभ्रात्रादीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो
दायः । एवं तत्पुत्रादिष्वप्यूहनीयः । विभागो नाम द्रव्यसमुदायविषयाणामने-
कस्स्वाम्यानां तदेकदेशेषु व्यवस्थापनम् । एतदेवाभिप्रेत्योक्तं नारदेन-'विभागो-
ऽर्थस्य पित्र्यस्य तनयैर्यत्र कल्प्यते । दायभाग इति प्रोक्तं व्यवहारपदं बुधैः
(ना० १३।१) ॥' इति । पित्र्यस्येति स्वत्वनिमित्तसंबन्धोपलक्षणम् । 'तनयैः'
इत्यपि प्रत्यासन्नोपलक्षणम् । इदमिह निरूपणीयम् ,-कस्मिन्काले कस्य कथं
कैश्च विभागः कर्तव्य इति । तत्र कस्मिन्काले कथं कैश्चेति तत्र तत्र श्लोकव्याख्यान
एव वक्ष्यते । कस्य विभाग इत्येतावदिह चिन्त्यते । किं विभागात्स्वत्वमुत
स्वस्य सतो विभाग इति । तत्र स्वत्वमेव तावन्निरूप्यते-किं शास्त्रैकसमधिगम्यं
स्वत्वमुत प्रमाणान्तरसमधिगम्यमिति । तत्र शास्त्रैकसमधिगम्यमिति तावद्युक्तं;
गौतमवचनात्-'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं
लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः ॥' (गौ० १०।३९-४२) इति ।
प्रमाणान्तरगम्ये स्वत्वे नेदं वचनमर्थवत्स्यात् । तथा स्तेनातिदेशे मनुः (८।
३४०)-'योऽदत्तादायिनो हस्तात्किलिप्सेत ब्राह्मणो धनम् । याजनाध्यापने-
नापि यथा स्तेनस्तथैव सः ॥' इति । अदत्तादायिनः सकाशाद्याजनादिद्वारे-
णापि द्रव्यमर्जयतां दण्डविधानमनुपपन्नं स्यात्स्वत्वस्य लौकिकत्वे । अपि च,
लौकिकं चेत्स्वत्वं मम स्वमनेनापहृतमिति न ब्रूयात्; अपहर्तुरेव स्वस्वात् ।
अन्यर्थाऽन्यस्य स्वं तेनापहृतमिति नापहर्तुः स्वम् । एवं तर्हि सुवर्णरजतादिस्व-
रूपवदस्य वा स्वमन्यस्य वा स्वमिति संशयो न स्यात् । तस्माच्छास्त्रैकसमधि-
गम्यं स्वत्वमिति । अत्रोच्यते-'लौकिकमेव स्वत्वं लौकिकार्थक्रियासाधनत्वात्
व्रीह्यादिवत् । आहवनीयादीनां हि शास्त्रगम्यानां न लौकिकक्रियासाधनत्वमस्ति ॥
नन्वाहवनीयादीनामपि पाकादिसाधनत्वमस्त्येव । नैतत्-नहि तत्राहवनीयादि-
१. अत्र पुत्रसद्भावः स्वामिसद्भावश्च प्रतिबन्धः, तदभावे पितृव्यत्वेन भ्रातृ-
त्वेन च स्वं भवतीति विशेषः । २. द्रव्यस्य व्यवस्थापनं । ३. पैत्रस्य ।
४. अदत्तदायिनश्चौरस्य । ५. याजनाध्यापनाद्वापि । ६. अन्यथास्वं ।
[Page Header]
२६६ याज्ञवल्क्यस्मृतिः
रूपेण पाकादिसाधनत्वम् । किं तर्हि ? प्रत्यक्षादिपरिदृश्यमानानल्यादिरूपेण । इह
तु सुवर्णादिरूपेण न क्रयादिसाधनत्वमपि तु स्वत्वेनैव । नहि यस्य यत्स्वं न भवति
तत्तस्य क्रयाद्यर्थक्रियां साधयति ॥ अपि च,-प्रत्यन्तवासिनामप्यदृष्टशास्त्रव्यवहा-
राणां स्वत्वव्यवहारो दृश्यते; क्रयविक्रयादिदर्शनात् । किंच,-नियतोपायकं स्वत्वं
लोकसिद्धमेवेति न्यायविदो मन्यन्ते । तथा हि—लिप्स़ासूत्रे तृतीये वर्णके
द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वमेव न स्यात् । स्वत्वस्यालौकिकत्वादिति
पूर्वपक्षासंभवमाशङ्क्य द्रव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं लोकसिद्ध-
मिति पूर्वपक्षः समर्थितो गुरुणा—ननु च द्रव्यार्जनस्य क्रत्वर्थत्वे स्वत्वमेव न
भवतीति याग एव न संवर्तेत । प्रलपितमिदं केनापि ‘अर्जनं स्वत्वं नापादय-
तीति विप्रतिषिद्धम्' इति वदता । तथा सिद्धान्तेऽपि स्वत्वस्य लौकिकत्वम-
ङ्गीकृत्यैव विचारप्रयोजनमुक्तम् , अतो 'नियमातिक्रमः पुरुषस्य न क्रतोः’
इति । अस्य चार्थ एवं विवृतः—यदा द्रव्यार्जननियमानां क्रत्वर्थत्वं तदा
नियमार्जितेनैव द्रव्येण क्रतुसिद्धिनं नियमातिक्रमार्जितेन द्रव्येण न क्रतुसिद्धि-
रिति न पुरुषस्य नियमातिक्रमदोषैः पूर्वपक्षे । सिद्धान्ते स्वजंननियमस्य पुरुषा-
र्थत्वात्तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धिर्भवति, पुरुषस्यैव नियमातिक्रम-
दोष इति नियमातिक्रमार्जितस्यापि स्वत्वमङ्गीकृतम्,-अन्यथा क्रतुसिद्ध्यभा-
वात् , न चैतावता चौर्यादिप्राप्तस्यापि स्वत्वं स्यादिति मन्तव्यम् । लोके तत्र
स्वत्वप्रसिद्ध्यभावात् , व्यवहारविसंवादाच्च एवं प्रतिग्रहाद्युपायके स्वत्वे लौकिके
स्थिते—‘ब्राह्मणस्य प्रतिग्रहादय उपायाः, क्षत्रियस्य विजितादयः, वैश्यस्य
कृष्यादयः, शूद्रस्य शुश्रूषादयः' इत्यदृष्टार्था नियमाः । रिक्थादयस्तु सर्वसा-
धारणाः—‘स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु’ ( गौ० १०।३९ )
इत्युक्ताः । तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः प्रसिद्धः । संविभागः सप्रति-
बन्धो दायः । परिग्रहोऽनन्यपूर्वस्य जलतृणकाष्ठादेः स्वीकारः । अधिगमो
निध्यादेः प्राप्तिः । एतेषु निमित्तेषु सत्सु स्वामी भवति । ज्ञातेषु ज्ञायते
स्वामी । ‘ब्राह्मणस्याधिकं लब्धम्’ ( गौ० १०।४० ) इति ब्राह्मणस्य प्रतिग्र-
हादिना यल्लब्धं तदधिकमसाधारणम् । ‘क्षत्रियस्य विजितम्’ ( गौ०
१०।४१ ) इत्यत्राधिकमित्यनुवर्तते । क्षत्रियस्य विजयदण्डादिलब्धमसाधार-
णम् । 'निर्विरुं वैश्यशूद्रयोः' ( गौ० १०।४२ ) इत्यत्राप्यधिकमित्यनुवर्तते ।
वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं तदसाधारणम् । शूद्रस्य द्विजशुश्रूषादिना
भृतिरूपेण यल्लब्धं तदसाधारणम् । एवमनुलोमजानां प्रतिलोमजानां च
१. नियतोपाधिकं । २. क्रतुसिद्धिनियमातिक्रमार्जितेन द्रव्येण न
क्रतुसिद्धिरिति । ३. दोष इति पूर्वपक्षे । ४. कृतेषु ।
व्यवहाराध्यायः २६७
लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारणमुक्तं 'सूतानामश्वसारथ्यम्' इत्यादि
तत्तत्सर्वं निर्विष्टशब्देनोच्यते सर्वस्यापि भृतिरूपत्वात् ॥ 'निर्वेशो भृतिभो-
गयोः' (तृ० ना० २।४) इति त्रिकाण्डीस्मरणात् । तत्तदसाधारणं वेदि-
तव्यम् । यदपि 'पत्नी दुहितरश्चैव' (व्य० १३५) इत्यादिस्मरणं तत्रापि
स्वामिसंबन्धितया बहुषु दायविभागितया प्राप्तेषु लोकप्रसिद्धेऽपि स्वत्वे
व्यामोहनिवृत्त्यर्थं स्मरणमिति सर्वमनवद्यम् ॥ यदपि मम स्वमनेनापहृतमिति
न ब्रूयात्स्वत्वस्य लौकिकत्व इति;-तदप्यसत् ; स्वत्वहेतुभूतक्रयादिसंदेहात्स्वत्व-
संदेहोपपत्तेः । विचारप्रयोजनं तु-'यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥' इति । शास्त्रैकसमधिगम्ये स्वत्वे ।
गर्हितेनासत्प्रतिग्रहवाणिज्यादिना लब्धस्य स्वत्वमेव नास्तीति तत्पुत्राणां
१तदविभाज्यमेव । यदा तु २लौकिकं स्वत्वं तदाऽसत्प्रतिग्रहादिलब्धस्यापि
स्वत्वात्तत्पुत्राणां तद्विभाज्यमेव । 'तस्योत्सर्गेण शुद्ध्यन्ति' इति प्रायश्चित्तमर्ज-
यितुरेवं, तत्पुत्रादीनां तु दायत्वेन स्वत्वमिति न तेषां दोषसंबन्धः; 'सप्त वित्ता-
गमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥'
इति (१०।११५) मनुस्मरणात् ॥
इदानीमिदं संदिह्यते-'किं विभागात्स्वत्वं३मुत स्वस्य सतो विभाग इति ।
तत्र विभागात्स्वत्व३मिति तावद्युक्तम् ; जातपुत्रस्याधानविधानात् । यदि जन्मनैव
स्वत्वं स्यात्तदोत्पन्नस्य पुत्रस्यापि तत्स्वं साधारणमिति द्रव्यसाध्येष्वाधानादिषु
पितुरनधिकारः स्यात् । तथा विभागात्प्राक् पितृप्रसादलब्धस्य विभागप्रतिषेधो
नोपपद्यते; सर्वानुमत्या दत्तत्वाद्विभागप्राप्त्यभावात् । यथाह-'शौर्यभार्याधने
चोभे यच्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥'
(ना० १३।६) इति ॥ तथा 'भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् ।
सा यथाकाममश्नीयाद्दद्याद्वा स्थावरादृते ॥' इति प्रीतिदानवचनं च नोपपद्यते-
जन्मनैव स्वत्वे । नच 'स्थावरादृते यद्दत्तम्' इति संबन्धो युक्तः; व्यवहितयो-
जनाप्रसङ्गात् । यदपि-'मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य
तु सर्वस्य न पिता न पितामहः ॥' तथा-'पितृप्रसादाद्भुज्यन्ते वस्त्राण्याभरणानि
च । स्थावरं तु न भुज्येत प्रसादे सति पैतृके ॥'इति स्थावरस्य प्रसाद४दानप्रतिषे-
धवचनं, तत्पितामहोपात्तस्थावरविषयम् । अतीते पितामहे तद्धनं पित्रापुत्रयोः
साधारणमपि५ मणिमुक्तादि पितुरेव, स्थावरं तु साधारणमित्यस्मादेव वचनाद-
वगम्यते । तस्मान्न जन्मना स्वत्वं किंतु स्वामिनाशाद्विभागाद्वा स्वत्वम् । अत
१. न विभाज्यमेव । २. स्वत्वं लौकिकं तदा । ३. स्वत्वमुत । ४. प्रसा-
दादिह न प्रति । प्रसाददाने प्रति । ५. समानमपि ।
२६८ याज्ञवल्क्यस्मृतिः
एव पितुरूर्ध्वं विभागातप्राग्द्रव्यस्वत्वस्य प्रहीणत्वादन्येन गृह्यमाणं न निवार्यत
इति चोद्यस्यानवकाशः । तथैकपुत्रस्यापि पितृप्रयाणादेव पुत्रस्य स्वमिति न
विभागमपेक्षत इति । अत्रोच्यते-लोकप्रसिद्धमेव स्वत्वमित्युक्तम् । लोके च
पुत्रादीनां जन्मनेव स्वत्वं प्रसिद्धतरं नापहूवमर्हति । 'विभाग'शब्दश्च बहुस्वा-
मिकधनविषयो¹ लोकप्रसिद्धः, नान्यदीयैविषयो न प्रहीणविषयः; तथा³ 'उत्प-
त्यैवार्थस्वामित्वं लभेतेत्याचार्याः' इति गौतमवचनाच्च । 'मणिमुक्ताप्रवाला-
नाम्' इत्यादिवचनं च जन्मना स्वत्वपक्ष एवोपपद्यते । नच पितामहो-
पात्तस्थावरविषयमिति युक्तम् ; 'न पिता न पितामहः' इति वचनात् ।
पिता⁴महस्य हि स्वार्जितमपि पुत्रे पौत्रे च सत्यदेयमिति वचनं जन्मना
स्वत्वं गमयति । तथा परमते मणिमुक्ता⁵प्रवालवस्त्राभरणादीनां पैतामहाना-
मपि पितुरेव स्वत्वं; वचनात् , एवमस्मन्मतेऽपि पित्रार्जितानामप्येतेषां⁶
पितुर्दानाधिकारः, वचनादित्यविशेषः ॥ यत्तु 'भर्त्रा प्रीतेन' इत्यादि विष्णु-
वचनं स्थावरस्य प्रीतिदानज्ञापनं तत्स्वोपार्जितस्यापि पुत्राद्यभ्यनुज्ञयै-
वेति व्याख्येयम् ; पूर्वोक्तैर्मणिमुक्तादिवचनैः स्थावरव्यतिरिक्तस्यैव प्रीति-
दानयोग्यत्वनिश्चयात् ॥ यदप्यर्थसाध्येषु वैदिकेषु कर्मस्वनधिकार इति,
तन्न तद्विधानबलादेवाधिकोरो गम्यते । तस्मात्पैतृके पैतामहे च द्रव्ये जन्म-
नैव स्वत्वम् , तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकु-
तुम्बभरणापद्विमोक्षादिषु⁷ च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्त्र्यमिति
स्थितम् । स्थावरे तु स्वार्जिते पित्रादिप्राप्ते चपुत्रादिपारतन्त्र्यमेव; 'स्थावरं द्विपदं
चैव यद्यपि स्वयमर्जितम् । असंभूय सुतान्सर्वान्न दानं न च विक्रयः ॥ ये
जाता येऽप्यजाताश्च ये च गर्भे व्यवस्थिताः । वृत्तिं च तेऽभिकाङ्क्षन्ति न दानं
न च विक्रयः ॥' इत्यादिसमरणात् । अस्यापवादः—'एकोऽपि स्थावरे कुर्याद्दा-
नाधमनविक्रयम् । आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः ॥' इति । अस्यार्थः-
अप्राप्तव्यवहारेषु पुत्रेषु पौत्रेषु वाऽनुज्ञानादावसमर्थेषु भ्रातृषु वा तथाविधेष्व-
विभक्तेष्वपि सकलकुटुम्बव्यापिन्यामापदि तत्पोषेणे वाऽवश्यं कर्तव्येषु च पितृ-
श्राद्धादिषु स्थावरस्य दानाधमनविक्रयमेकोऽपि समर्थः कुर्यादिति । यत्तु वच-
नम्—'विभक्ता वाऽविभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्वत्र
दानाधमनविक्रये ॥' इति, तदप्यविभक्तेषु द्रव्यस्य मध्यस्थत्वादेकस्यानीश्वरं-
त्वात् सर्वाभ्यनुज्ञाऽवश्यं कार्या । विभक्तेषु तूत्तरकालं विभक्ताविभक्तसंशयव्यु-
१. प्रसिद्धो । २. न्यदीयधनविषयो । ३. तं तथोत्पत्त्येव । ४. पितृपि-
तामहस्य । ५. मुक्तावस्त्राभरणा । ६. एतेषां मणिमुक्तादीनां । ७. विमोक्ष-
णादिषु । ८. वा अनुज्ञादा । अनुज्ञादानादाव : ९. अनीशकत्वात् ।
व्यवहाराध्यायः
२६६
दानेन व्यवहारसौकर्याय सर्वाभ्यनुज्ञा न पुनरेकस्यानीश्वरत्वेन, अतो विभक्ता-
नुमतिव्यतिरेकेणापि व्यवहारः सिद्धयेवेति व्याख्येयम् । यदपि—'स्वग्रामज्ञा-
तिसामन्तदायादानुमतेन च । हिरण्योदकदानेन षड्भिर्गच्छति मेदिनी ॥' इति,
तत्रापि ग्रामानुमतिः, 'प्रतिग्रहप्रकाशः स्यात्स्थावरस्य विशेषतः' ( व्य० १७६ )
इति स्मरणात् व्यवहारप्रकाशनार्थमेवापेक्ष्यते, न पुनर्ग्रामानुमत्या विना
व्यवहारासिद्धिः । सामन्तानुमतिस्तु सीमाविप्रतिपत्तिनिरासाय । ज्ञातिदाया-
दानुमतेस्तु प्रयोजनमुक्तमेव 'हिरण्योदकदानेन' इति; 'स्थावरे विक्रयो
नास्ति कुर्यादाधिमनुज्ञया' इति स्थावरस्य विक्रयप्रतिषेधात्, 'भूमिं यः प्रति-
गृह्णाति यश्च भूमिं प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥'
इति दानप्रशंसादर्शनाच्च । विक्रयेऽपि कर्तव्ये सहिरण्यमुदकं दत्वा दानरूपेण
स्थावरविक्रयं कुर्यादित्यर्थः । पैतृके पैतामहे च धने जन्मनेव स्वत्वेऽपि विशेषं
'भूर्या पितामहोपात्ता' ( व्य० १२१ ) इत्यत्र वक्ष्यामः ॥ इदानीं यस्मिन्काले
येन च यथा विभागः कर्तव्यस्तद्दर्शयंन्नाह—
विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ ११४ ॥
यदा विभागं पिता चिकीर्षति तदा इच्छया विभजेत् पुत्रान्नात्मनः सका-
शात्·पुत्रं पुत्रौ पुत्रान् । इच्छाया निरङ्कुशत्वान्नियमप्राप्तौ नियमार्थमाह—
ज्येष्ठं वा श्रेष्ठभागेनेति । ज्येष्ठं श्रेष्ठभागेन, मध्यमं २मध्यभागेन, कनिष्ठं कनिष्ठ-
भागेन, 'विभजेत्' इत्यनुवर्तते । श्रेष्ठादिविभागश्च मनुनोक्तः ( ९।११२ )—
'ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् । ततोऽर्धं मध्यमस्य स्यात्तुरीयं तु
यवीयसः ॥' इति । 'वा' शब्दो वक्ष्यमाणपक्षापेक्षः । सर्वे वा स्युः समांशिन
इति । सर्वे वा ज्येष्ठादयः समांशभाजः कर्तव्याः । अयं च विषमो विभागः
स्वार्जितद्रव्यविषयः । पितृक्रमायाते तु समस्वाम्यस्य वक्ष्यमाणत्वान्नेच्छया
विषमो विभागो युक्तः । विभागं चेत्पिता कुर्यादिति । यदा पितुर्विभागेच्छा स
तावदेकः कालः । अपरोऽपि जीव३त्यपि पितरि द्रव्यनिःस्पृहे निवृत्तरमणे मातरि
च निवृत्तरजस्कायां, पितुरनिच्छायामपि पुत्रेच्छयैव विभागो भवति । यथोक्तं
नारदेन ( १३।३ )—'अत ऊर्ध्वं पितुः पुत्रा विभजेयुर्धनं समम्' इति पित्रो-
रूर्ध्वं विभागं प्रतिपाद्य—'मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निवृत्ते चापि
रमणे पितुर्युपरतस्पृहे ॥' इति दर्शितः । अत्र 'पुत्रा धनं समं विभजेयुः'
इत्यनुषज्यते । गौतमेनापि—'ऊर्ध्वं पितुः पुत्रा रिक्थं विभजेरन्' ( २८।१ )
१. सीमाप्रतिपत्ति । २. मध्यमभागेन । ३. जीवत्येव ।
२७० याज्ञवल्क्यस्मृतिः
इत्युक्त्वा ‘निवृत्ते चापि रजसि’ (गौ० २८।२) इति द्वितीयः कालो दर्शितः ।
‘जीवति चेच्छति’ (गौ० २८।२) इति तृतीयः कालो दर्शितः । तथा सरज-
स्कायामपि मातर्यनिवृत्तस्पृहेऽपि पितर्यधर्मवर्तिनि दीर्घरोगग्रस्ते च पुत्राणामिच्छया
भवति विभागः । यथाह शङ्खः—‘अकामे पितरि रिक्थविभागो वृद्धे विपरीत-
चेतसि रोगिणि च’ इति ॥ ११४ ॥
भाषा—यदि पिता (संपत्ति का) विभाग करे तो उसे अपनी इच्छानुसार
पुत्रों में बाँटे । ज्येष्ठ पुत्र को श्रेष्ठभाग (मझले को मध्यम और
सबसे छोटे को कनिष्ठभाग) देकर विभाजन करे अथवा सबको समान
अंश देवे ॥ ११४ ॥
पितुरिच्छया विभागो द्विधा दर्शितः-समो विषमश्च; तत्र समविभागे
विशेषमाह—
यदि कुर्यात्समानांशान् पत्न्यः कार्याः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ ११५ ॥
यदा स्वेच्छया पिता सर्वानैन सुतान् समविभागिनः करोति तदा पत्न्यश्च
पुत्रसमांशभाजः कर्तव्याः, यांसां पत्नीनां भर्त्रा श्वशुरेण वा स्त्रीधनं न दत्तम् ।
दत्ते तु स्त्रीधने अर्धांशं वक्ष्यति (व्य० १४८)—‘दत्ते त्वर्धं प्रकल्पयेत्’ इति ॥
यदा तु श्रेष्ठभागादिना ज्येष्ठादीन् विभजति तदा पत्न्यः श्रेष्ठादिभागान्न
लभन्ते, किंतुद्धृतोद्धारात्समुदायात्समानेवांशॉल्लभन्ते स्वोद्धारं च ॥
यथाहापस्तम्बः (ध० २।१४।९)—‘परीभाण्डं च गृहेऽलङ्कारो भार्यायाः’
इति ॥ ११५ ॥
भाषा—यदि अपनी इच्छा से पिता सभी पुत्रों को समान अंश देता
है तो उसे उन पत्नियों को भी समान भाग देना चाहिए, जिन्हें अपने
पति से या श्वशुर स्त्रीधन नहीं मिला है ॥ ११५ ॥
‘ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः’ (व्य० ११४) इति
पक्षद्वयेऽप्यपवादमाह—
शक्तस्यानीहमानस्य किंचिद्दत्त्वा पृथक्क्रिया ।
स्वयमेव द्रव्यार्जनसमर्थस्य पितृद्रव्यमनीहमानस्यानिच्छतोऽपि यत्किंचिद-
सारमपि दत्त्वा पृथक्क्रिया विभागः कर्तव्यः पित्रा । तत्पुत्रादीनां नादजिघृक्षा
मा भूदिति ॥—
१. निच्छुतो यत्किंचिदसारमपृथक् ।
[Page Header]
व्यवहाराध्यायः २७१
'ज्येष्ठं वा श्रेष्ठभागेन' ( व्य० ११४ ) इति न्यूनाधिकविभागो दर्शितः ।
तत्र शास्त्रोक्तोद्धारादिविषमविभागव्यतिरेकेणान्यथाविषमविभागनिषेधार्थमाह—
न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ॥ ११६ ॥
न्यूनाधिकविभागेन विभक्तानां पुत्राणामसौ न्यूनाधिकविभागो यदि धर्म्यः
शास्त्रोक्तो भवति तदाऽसौ पितृकृतः कृत एव न निवर्तत इति मन्वादिभिः
स्मृतः । अन्यथा तु पितृकृतोऽपि निवर्तत इत्यभिप्रायः । यथाह नारदः
( १३।६ )—'व्याधितः कुपितश्चैव विषयासक्तमानसः । अन्यथाशास्त्रकारी
च न विभागे पिता प्रभुः ॥' इति ॥ ११६ ॥
भाषा—जो पुत्र स्वयं द्रव्यार्जन करने में समर्थ हो उसे उसके न चाहने
पर भी कुछ देकर बँटवारा करना चाहिए । यदि पिता द्वारा पुत्रों में किया
गया न्यून या अधिक विभाजन धर्म के अनुसार है तो वह परिवर्तनीय
नहीं होता ॥ ११६ ॥
इदानीं विभागस्य कालान्तरं कर्तृन्तरं प्रकारनियममाह—
विभजेरन्सुताः पित्रोरूर्ध्वं रिक्थमृणं समम् ।
पित्रोर्मातापित्रोरूर्ध्वं ४प्रयाणादिति कालो दर्शितः । सुता इति कर्तारो
दर्शिताः । सममिति प्रकारनियमः । सममेवेति रिक्थमृणं च विभजेरन् । ननु-
'ऊर्ध्वं पितुश्च मातुश्च' ( मनुः ९।१०४ ) इत्युपक्रम्य ( मनुः ९।१०५ )—'ज्येष्ठ
एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥'
इत्युक्त्वोक्तम् ( मनुः ९।११२ )—'ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् ।
ततोऽर्धं मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥' इति । सर्वस्माद्द्रव्यसमुदाया-
द्विशतितमो भागः सर्वद्रव्येभ्यश्च यच्छ्रेष्ठं तज्ज्येष्ठाय दातव्यम् ; तदर्धं चत्वारिं-
शत्तमो भागो मध्यमं च द्रव्यं मध्यमाय दातव्यम् ; तुरीयमशीतितमो भागो
हीनं द्रव्यं च कनिष्ठाय दातव्यमिति मातापित्रोरूर्ध्वं विभजतामुद्धारविभागो
मनुना दर्शितः । तथा ( ९।११६।११७ )—'उद्धारेऽनुद्धृते त्वेषामियं स्यादंश-
कल्पना । एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः ॥ अंशमंशं यवीयांस
इति धर्मो व्यवस्थितः ॥' इति । ज्येष्ठस्य द्वौ भागौ, तदनन्तरजातस्य सार्ध
एको भागः ततोऽनुजानामेकैकौ विभाग इत्युद्धारव्यतिरेकेणापि विषमो विभागो
१. धर्मः । २. विभजेयुः । ३. रूध्वंमृणं । ४. प्रायणात् ।
५. तदर्धं मध्यमस्य स्यात्तदधं तु कनीयस इति । ६. द्वनसमुच्चयात् ।
दर्शितैः पित्रोरूर्ध्वं विभजताम् । जीवद्विभागे च स्वयमेव विषमो विभागो
दर्शितः—'ज्येष्ठं वा श्रेष्ठभागेन' ( व्य० ११४ ) इति । अतः सर्वस्मिन्नपि काले
विषमो विभागोऽस्तीति कथं सममेव विभजेरन्निति नियम्यते ॥ अत्रोच्यते—
सत्यम्, अयं विषमो विभागः शास्त्रदृष्टस्तथापि लोकविद्विष्टत्वान्नानुष्ठेयः;
'अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु' ( आ० १५६ ) इति निषेधात् ।
यथा 'महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्' ( आ० १०९ ) इति
विधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । यथा वा—'मैत्रावरुणीं गां वशामनु-
बन्ध्यामालभेत' इति गवालम्भनविधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । उक्तं
च—'यथा नियोगधर्मो ४नो नानुबन्ध्यावधोऽपि वा । तथोद्धारविभागोऽपि
नैव संप्रति वर्तते ॥' इति । ( नियोगमनतिक्रम्य यथानियोगं, नियोगाधीनो
यो धर्मो 'देवराच्च सुतोत्पत्ति'रित्यादिः स नो भवति ) आपस्तम्बोऽपि ( आ०
ध० २।१४।१ )—'जीवन्पुत्रेभ्यो दायं विभजेत्समम्' इति ५समतामुक्त्वा—
'ज्येष्ठो दायाद इत्येके' ( आ० ध० २।१४।५ ) इति 'कृत्स्नधन' ग्रहणं ज्येष्ठ-
स्यैकीयमतेनोपन्यस्य देशविशेषे६ सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य रथः
पितुः ७परीभाण्डं च गृहेऽलंकारो भार्याया ज्ञातिधनं चेत्येके' ( ध० २।१४।
६-९ ) इत्येकीयमतेनैवमुद्धारविभागं दर्शयित्वा 'तच्छास्त्रैर्विप्रतिषिद्धम्' ( आ०
ध० २।१४।१० ) इति निराकृतवान् । तं च ८शास्त्रविप्रतिषेधं स्वयमेव
दर्शयति स्म 'मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण श्रूयते' (अ० २।१४।११)
इति । तस्माद्विषमो विभागः शास्त्रदृष्टोऽपि लोकविरोधाच्छ्रुतिविरोधाच्च नानु-
ष्ठेय इति सममेव विभजेरन्निति नियम्यते ॥—
मातापित्रोर्धनं सुता विभजेरन्नित्युक्तं, तत्र मातृधनेऽपवादमाह—
मातुर्दुहितरः शेषमृणात्
मातृधनं दुहितरो विभजेरन् । ऋणाच्छेषं मातृकृतर्णपाकरणावशिष्टम् ।
अतश्चर्णसमं न्यूनं वा मातृधनं सुता विभजेरन्नित्यस्य विषयः । एतदुक्तं भवति
—मातृकृतमृणं पुत्रैरेवापाकरणीयं, न दुहितृभिः । ऋणावशिष्टं तु धनं दुहितरो
गृह्णीयुरिति । युक्तं चैतत्—'पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः'
( मनुः ३।४९ ) इति स्त्र्यवयवानां दुहितृषु बाहुल्यात् स्त्रीधनं दुहितृगामि,
पितृधनं पुत्रगामि; पित्रवयवानां पुत्रेषु बाहुल्यादिति । तत्र च गौतमेन विशेषो
१. दर्शितो मनुना । २. कथं विभजेरन्निति सममेव नियम्यते । ३. शास्त्र-
दृष्टोऽस्ति । ४. धर्मोऽन्यो । ५. स्वमत्तमुक्त्वा । ६. विशेषेषु । विशेषेण ।
७. परिभाण्डं । ८. विप्रतिषिद्धं । ९. कृतर्णं ।
व्यवहाराध्यायः २७३
दर्शितः ( २८।२४ )—'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च' इति ।
अस्यार्थः—प्रत्ताऽप्रत्तासमवायेऽप्रत्तानामेव स्त्रीधनम् । प्रत्तासु च प्रतिष्ठिताप्रति-
ष्ठितासमवायेऽप्रतिष्ठितानां चेवेति । अप्रतिष्ठिता निर्धनाः ॥—
दुहित्रभावे मातृधनमृणावशिष्टं को गृह्णीयादित्यत आह—
ताभ्य ऋतेऽन्वयः ॥ ११७ ॥
ताभ्यो दुहितृभ्यो विना दुहितॄणामभावे अन्वयः पुत्रादिर्गृह्णीयात् ।
एतच्च—'विभजेरन्सुताः पित्रोरूर्ध्वम्' ( व्य० ११७ ) इत्यनेनैव सिद्धं स्पष्टार्थ-
मुक्तम् ॥ ११७ ॥
भाषा—माता और पिता की मृत्यु के बाद सभी पुत्र मिल कर पिता की
सम्पत्ति एवं ऋण का बराबर-बराबर विभाजन कर लें । माता का धन पुत्रियाँ
बाँट लें और पुत्रियाँ न हों तो ( माता का धन भी ) पुत्र ग्रहण करें ॥११७॥
अविभाज्यमाह—
पितृद्रव्याविरोधेन यदन्यत् स्वयमर्जितम् ।
मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत् ॥ ११८ ॥
क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेत्तु यः ।
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥ ११९ ॥
मातापित्रोर्द्रव्याविनाशेन यत्स्वयमर्जितं, मैत्रं मित्रसकाशाल्लब्धं,
औद्वाहिकं विवाहलब्धं दायादानां भ्रातृणां तन्न भवेत् । क्रमात्पितृक्रमादायातं
यत्किञ्चिद्द्रव्यं अन्यैर्हतमसामर्थ्यादिना पित्रादिभिरनुद्धृतं यः पुत्राणां मध्य
इतराभ्यनुज्ञयोद्धरति तद्दायादेभ्यो भ्रात्रादिभ्यो न दद्यात्, उद्धर्तैव गृह्णीयात् ।
तत्र क्षेत्रे तुरीयांशमुद्धर्ता लभते, शेषं तु सर्वेषां सममेव । यथाह शङ्खः—'पूर्वं
नष्टां तु यो भूमिमेकश्चेदुद्धरेत्क्रमात् । यथाभागं लभन्तेऽन्ये दत्त्वांशं तु तुरीय-
कम् ॥' इति । क्रमादभ्यागतमिति शेषः । तथा विद्यया वेदाध्ययनेनाध्यापनेन
वेदार्थव्याख्यानेन वा यल्लब्धं तदपि दायादेभ्यो न दद्यात्, अर्जक एव
गृह्णीयात् । अत्र च 'पितृद्रव्याविरोधेन यत्किंचित्स्वयमर्जितम् ॥' इति सर्वत्र
शेषः । अतश्च पितृद्रव्याविरोधेन यन्मैत्रमर्जितं पितृद्रव्याविरोधेन यदौद्वाहिकं,
पितृद्रव्याविरोधेन यत्क्रमादायातमुद्धृतं, पितृद्रव्याविरोधेन विद्यया यल्लब्धमिति
प्रत्येकमभिसंबध्यते । तथा च पितृद्रव्याविरोधेन प्रत्युपकारेण यन्मैत्रम् ,
आसुरादिविवाहेषु यल्लब्धम् , तथा पितृद्रव्यव्ययेन यत्क्रमायातमुद्धृतं तथा
पितृद्रव्यव्ययेन लब्धया विद्यया यल्लब्धम् , तत्सर्वं सर्वैर्भातृभिः पित्रा च
१. मभ्युद्धरेत्तु । २. सर्वत्र शेषः । ३. क्रमायातं ।
२७४ याज्ञवल्क्यस्मृतिः
विभेजनॊयम् १ । तथा ‘पितृद्रव्याविरोधेन’ इत्यस्य सर्वशेषत्वादेव पितृद्रव्य-
विरोधेन प्रतिग्रहलब्धमपि विभजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौद्वा-
हिकमित्यादिनारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन्मैत्रादिलब्धं तस्या-
विभाज्यत्वाय मैत्रादिवचनमर्थवदित्युच्यते । तथा सति समाचारविरोधः, विद्या-
लब्धे नारदवचनविरोधश्च ।—‘कुटुम्बं बिभृयाद् भ्रातुर्यो विद्यामधिगच्छतः ।
भागं विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन् ॥’ (नारदः १३।१०) इति । तथा
विद्याधनस्याविभाज्यस्य लक्षणमुक्तं कात्यायनेन—‘परभक्तोपयोगेन विद्या प्राप्ता-
न्यतस्तु या । तया लब्धं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥’ इति । तथा ‘पितृ-
द्रव्याविरोधेन’ इत्यस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्याविभाज्यत्वमाचारविरुद्धा२-
मापद्येत । एतदेव स्पष्टीकृतं मनुना ( ९।२०८)—‘अनुपघ्नन्पितृद्रव्यं श्रमेण
यदुपार्जितम् । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥’ इति श्रमेण सेवा-
युद्धादिना । ननु पितृद्रव्याविरोधेन यन्मैत्रादिलब्धं द्रव्यं तदविभाज्यमिति न
वक्तव्यम् ; विभागप्राप्त्यभावात् । यद्येन लब्धं तत्तस्यैव, नान्यस्येति प्रसिद्ध-
तरम् । प्राप्तिपूर्वकश्च प्रतिषेधः ३ । अत्र कश्चिदिथं प्राप्तिमाह—‘यत्किञ्चित्पितरि
प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥’
( मनुः ९।२०४ ) इति । ज्येष्ठो वा कनिष्ठो वा मध्यमो वा पितरि प्रेते अप्रेते
वा यवीयसां वर्षीयसां चेति व्याख्यानेन पितरि सत्यसति च मैत्रादीनां
विभाज्यत्वं प्राप्तं प्रतिषिध्यत इति,—तदसत्; नह्यत्र प्राप्तस्य प्रतिषेधः, किंतु
सिद्धस्यैवानुवादोऽयम् । लोकसिद्धस्यैवानुवादकान्येव प्रायेणास्मिन्प्रकरणे
वचनानि । अथवा ‘समवेतैस्तु यत्प्राप्तं सर्वं तत्र समांशिनः ।’ इति प्राप्तस्या-
पवाद इति संतुष्यतु भवान् । अतश्च ‘यत्किञ्चित्पितरि प्रेते’ इत्यस्मिन्वचने
ज्येष्ठादिपदाविवक्षया प्राप्तिरिति व्यामोहमात्रम् । अतो मैत्रादिवचनैः पितुः
प्रागूर्ध्वं वा४विभाज्यत्वेनोक्तस्य ‘यत्किंचित्पितरि प्रेते’ इत्यपवादं ५ इति व्याख्ये-
यम् । तथाऽन्यदप्यविभाज्यमुक्तं मनुना ( ९।२१९ )—‘वस्त्रं पत्रमलंकारं कृता-
न्नमृदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥’ इति । धृतानामेव
वस्त्राणामविभाज्यत्वं, यद्येन धृतं तत्तस्यैव । पितृधृतवस्त्राणि ६ तु पितुरूर्ध्वं विभ-
जतां श्राद्धभोक्त्रे दातव्यानि । यथाह बृहस्पतिः—‘वस्त्रांलंकारशय्यादि पितुर्य-
द्वाहनादिकम् । गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे समर्पयेत् ॥’ इति । अभिन-
वानि तु वस्त्राणि विभाज्यान्येव । पत्रं वाहनमश्वशिविकादि, तदपि यद्येनारूढं
तत्तस्यैव । पित्र्यं तु वस्त्रवदेव, अश्वादीनां बहुत्वे तु तद्विक्रयोपजीविनां विभा-
१. समं विभजनीयं । २. विरोधाच्चापद्येत । ३. निषेधः । ४. चाविभाज्य ।
५. इत्यस्यापवाद । ६. पितृधृतानि ।
व्यवहाराध्यायः २७५
ज्येष्ठस्यैव । वैषम्येणाविभाज्यत्वे ज्येष्ठस्य ( मनुः ९।११९ ) - 'अजाविकं सैक-
शफं न जातु विषमं भजेत् । अजाविकं सैकैशफं ज्येष्ठस्यैव विधीयते ॥' इति
मनुस्मरणात् । अलंकारोऽपि यो येन धृतः स तस्यैव । अधृतः साधारणो
विभाज्य एव । ( मनुः ९।२०० ) - 'पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो
भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥' इति । 'अलंकारो धृतो
भवेत्' इति ३विशेषेणोपादानादधृतानां विभाज्यत्वं गम्यते । कृतान्नं तण्डुलमोद-
कादि तदप्यविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कृपादि, तच्च
विषमं मूल्यद्वारेण न विभाज्यं पर्यायेणोपभोक्तव्यम् । स्त्रियश्च दास्यो विषमाः
न मूल्यद्वारेण विभाज्याः, पर्यायेण कर्म कारयितव्याः । अवरुद्धास्तु पित्रा
स्वैरिण्याद्याः समा अपि पुत्रैर्न विभाज्याः । 'स्त्रीषु च संयुक्तास्वविभागः' ( २८।०-
४६) इति गौतमस्मरणात् । योगश्च क्षेमश्च योगक्षेमम् । 'योग'शब्देनालब्धलाभ-
कारणं श्रौतस्मार्ताग्निसाम्यं इष्टं कर्म लक्ष्यते । 'क्षेम'शब्देन लब्धपरिरक्षणहेतुभूतं
बहिर्वेदिदानतडागारामनिर्माणादि पूर्तं कर्म लक्ष्यते । तदुभयं पैतृकमपि
पितृद्रव्य विरोधाजितमप्यविभाज्यम् । यथाह लौगाक्षिः- 'क्षेमं पूर्तं योगमिष्ट-
मित्याहुस्तत्त्वदर्शिनः । अविभाज्ये च ते प्रोक्ते शयनासनमेव च ॥' इति ।
'योगक्षेम' शब्देन योगक्षेमकारिणो राजमन्त्रिपुरोहितादय उच्यन्ते-इति
केचित् । छत्रचामरशस्त्रोपानत्प्रभृतय इत्यन्ये । प्रचारो गृहारामादिषु
प्रवेशनिर्गममार्गः सोऽप्यविभाज्यः । यत्तूशनसा क्षेत्रस्याविभाज्यत्वमुक्तम्-
'अविभाज्यं सगोत्राणामासहस्रकुलादपि । याज्यं क्षेत्रं च पत्रं च कृतान्न-
मुदकं स्त्रियः ॥' इति, तद्ब्राह्मणोत्पन्नक्षत्रियादिपुत्रविषयम् । 'न प्रतिग्रह-
भूर्देया क्षत्रियादिसुताय वै । यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥'
इति स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धस्याविभाज्यत्वं
वक्ष्यते । नियमातिक्रमार्जितस्याविभाज्यत्वमनन्तरमेव वक्ष्यसि । पितृद्रव्य-
विरोधेन यदार्जितं तद्विभजनीयमिति स्थितं, तत्रार्जकस्य भागद्वयं; वसिष्ठ-
वचनात्- 'येन चैषां स्वयमुपार्जितं स्यात्स द्वयंशमेव लभेत' ( १७।५१ )
इति ॥ ११८-११९ ॥
भाषा - माता पिता के धन की सहायता के बिना स्वयं कहीं से स्वयं
उपार्जित धन, मित्र से मिले हुए तथा विवाह में प्राप्त धन में भाइयों का
हिस्सा नहीं होता । पितृ परम्परा से आया हुआ धन, जिसे किसी और ने
बलपूर्वक अधिकार में किया हो, छुड़ाने वाले पुत्र का होता है, उसमें से
१. तु विषमं-मनुस्मृतिः । २. पतन्त्यधः । ३. विशेषस्योपादाना ।
४. करणं ।
१८ या०
२०६ याज्ञवल्क्यस्मृतिः
भाइयों को अंश न देवे; तथा अपनी विद्या के द्वारा प्राप्त धन में भी दायादों
का अंश नहीं होता ॥ ११८-११९ ॥
अस्यापवादमाह—
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।
अविभक्तानां भ्रातृणां सामान्यस्यार्थस्य कृषिवणिज्यादिना संभूय समुत्थाने
सम्प्रवर्धने केनचित्कृते सम एव विभागो नार्जयितुरं²शद्वयम् ॥—
पित्र्ये द्रव्ये पुत्राणां विभागो दर्शितः; इदानीं पैतामहे पौत्राणां विभागे
विशेषमाह—
अनेकपितृकाणां तु पितृतो भागकल्पना ॥ १२० ॥
यद्यपि पैतामहे द्रव्ये पौत्राणां जन्मना स्वत्वं पुत्रैरविशिष्टं, तथापि तेषां
पितृद्वारेणैव पैतामहद्रव्ये³ विभागकल्पना, न स्वरूपापेक्षया । एतदुक्तं
भवति—यदाऽविभक्ता भ्रातरः पुत्रानुत्पाद्य दिवं गतास्तदैकस्य द्वौ पुत्रौ, अन्यस्य
त्रयोऽपरस्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वावेकं ५स्वपित्र्यमंशं लभेते, अन्ये
त्रयोऽप्येकमंशं पित्र्यं, चत्वारोऽप्येकमेवांशं पित्र्यं लभन्त इति । तथा केषुचि-
त्पुत्रेषु म्रियमाणेषु केषुचित्पुत्रानुत्पाद्य विनष्टेष्वप्ययमेव न्यायः । म्रियमाणाः
स्वानंशानेव लभन्ते, नष्टानामपि पुत्राः पित्र्यानेवांशांल्लभन्त इति वाचनिकी
व्यवस्था ॥ १२० ॥
भाषा—विभाजन के पहले भाइयों के एक में रहते समय के सामान्य
धन की कृषि व्यापार आदि से वृद्धि होने पर उसमें सबका समान अंश होता
है । पितामह के धन में पिता के अंश के आधार पर ही पुत्र के अंश का
निर्धारण होता है ( अर्थात् पितामह की सम्पत्ति में अपने-अपने पिता का भाग
लगाकर और फिर अपने-अपने पिता के भाग में अपने अंश का भाग लगाने
पर ही पौत्र का भाग आता है ॥ १२० ॥
अधुना विभक्ते पितर्यविद्यमानभ्रातृके वा पौत्रस्य पैतामहे द्रव्ये विभागो
नास्ति । ६अध्रियमाणे पितरि ‘पितृतो भागकल्पना’ (व्य० १२०) इत्युक्तत्वात् ।
भवतु वा स्वार्जितवत्पितुरिच्छयैवेत्याशङ्कित आह—
भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा ।
तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य ७चैव हि ॥ १२१ ॥
१. साधारणस्यार्थस्य । २ भागद्वयम् । ३. द्रव्यविभाग । ४. पित्रंशं ।
५. द्वयमेव । ६. म्रियमाणे तु पितरि । ७. चोभयोः ।