सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 322, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 322

[Page Header]
२६६ याज्ञवल्क्यस्मृतिः

रूपेण पाकादिसाधनत्वम् । किं तर्हि ? प्रत्यक्षादिपरिदृश्यमानानल्यादिरूपेण । इह
तु सुवर्णादिरूपेण न क्रयादिसाधनत्वमपि तु स्वत्वेनैव । नहि यस्य यत्स्वं न भवति
तत्तस्य क्रयाद्यर्थक्रियां साधयति ॥ अपि च,-प्रत्यन्तवासिनामप्यदृष्टशास्त्रव्यवहा-
राणां स्वत्वव्यवहारो दृश्यते; क्रयविक्रयादिदर्शनात् । किंच,-नियतोपायकं स्वत्वं
लोकसिद्धमेवेति न्यायविदो मन्यन्ते । तथा हि—लिप्स़ासूत्रे तृतीये वर्णके
द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वमेव न स्यात् । स्वत्वस्यालौकिकत्वादिति
पूर्वपक्षासंभवमाशङ्क्य द्रव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं लोकसिद्ध-
मिति पूर्वपक्षः समर्थितो गुरुणा—ननु च द्रव्यार्जनस्य क्रत्वर्थत्वे स्वत्वमेव न
भवतीति याग एव न संवर्तेत । प्रलपितमिदं केनापि ‘अर्जनं स्वत्वं नापादय-
तीति विप्रतिषिद्धम्' इति वदता । तथा सिद्धान्तेऽपि स्वत्वस्य लौकिकत्वम-
ङ्गीकृत्यैव विचारप्रयोजनमुक्तम् , अतो 'नियमातिक्रमः पुरुषस्य न क्रतोः’
इति । अस्य चार्थ एवं विवृतः—यदा द्रव्यार्जननियमानां क्रत्वर्थत्वं तदा
नियमार्जितेनैव द्रव्येण क्रतुसिद्धिनं नियमातिक्रमार्जितेन द्रव्येण न क्रतुसिद्धि-
रिति न पुरुषस्य नियमातिक्रमदोषैः पूर्वपक्षे । सिद्धान्ते स्वजंननियमस्य पुरुषा-
र्थत्वात्तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धिर्भवति, पुरुषस्यैव नियमातिक्रम-
दोष इति नियमातिक्रमार्जितस्यापि स्वत्वमङ्गीकृतम्,-अन्यथा क्रतुसिद्ध्यभा-
वात् , न चैतावता चौर्यादिप्राप्तस्यापि स्वत्वं स्यादिति मन्तव्यम् । लोके तत्र
स्वत्वप्रसिद्ध्यभावात् , व्यवहारविसंवादाच्च एवं प्रतिग्रहाद्युपायके स्वत्वे लौकिके
स्थिते—‘ब्राह्मणस्य प्रतिग्रहादय उपायाः, क्षत्रियस्य विजितादयः, वैश्यस्य
कृष्यादयः, शूद्रस्य शुश्रूषादयः' इत्यदृष्टार्था नियमाः । रिक्थादयस्तु सर्वसा-
धारणाः—‘स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु’ ( गौ० १०।३९ )
इत्युक्ताः । तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः प्रसिद्धः । संविभागः सप्रति-
बन्धो दायः । परिग्रहोऽनन्यपूर्वस्य जलतृणकाष्ठादेः स्वीकारः । अधिगमो
निध्यादेः प्राप्तिः । एतेषु निमित्तेषु सत्सु स्वामी भवति । ज्ञातेषु ज्ञायते
स्वामी । ‘ब्राह्मणस्याधिकं लब्धम्’ ( गौ० १०।४० ) इति ब्राह्मणस्य प्रतिग्र-
हादिना यल्लब्धं तदधिकमसाधारणम् । ‘क्षत्रियस्य विजितम्’ ( गौ०
१०।४१ ) इत्यत्राधिकमित्यनुवर्तते । क्षत्रियस्य विजयदण्डादिलब्धमसाधार-
णम् । 'निर्विरुं वैश्यशूद्रयोः' ( गौ० १०।४२ ) इत्यत्राप्यधिकमित्यनुवर्तते ।
वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं तदसाधारणम् । शूद्रस्य द्विजशुश्रूषादिना
भृतिरूपेण यल्लब्धं तदसाधारणम् । एवमनुलोमजानां प्रतिलोमजानां च

१. नियतोपाधिकं । २. क्रतुसिद्धिनियमातिक्रमार्जितेन द्रव्येण न
क्रतुसिद्धिरिति । ३. दोष इति पूर्वपक्षे । ४. कृतेषु ।