याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 332, कुल 782 में से
संदर्भ में पढ़ें२०६ याज्ञवल्क्यस्मृतिः
भाइयों को अंश न देवे; तथा अपनी विद्या के द्वारा प्राप्त धन में भी दायादों
का अंश नहीं होता ॥ ११८-११९ ॥
अस्यापवादमाह—
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।
अविभक्तानां भ्रातृणां सामान्यस्यार्थस्य कृषिवणिज्यादिना संभूय समुत्थाने
सम्प्रवर्धने केनचित्कृते सम एव विभागो नार्जयितुरं²शद्वयम् ॥—
पित्र्ये द्रव्ये पुत्राणां विभागो दर्शितः; इदानीं पैतामहे पौत्राणां विभागे
विशेषमाह—
अनेकपितृकाणां तु पितृतो भागकल्पना ॥ १२० ॥
यद्यपि पैतामहे द्रव्ये पौत्राणां जन्मना स्वत्वं पुत्रैरविशिष्टं, तथापि तेषां
पितृद्वारेणैव पैतामहद्रव्ये³ विभागकल्पना, न स्वरूपापेक्षया । एतदुक्तं
भवति—यदाऽविभक्ता भ्रातरः पुत्रानुत्पाद्य दिवं गतास्तदैकस्य द्वौ पुत्रौ, अन्यस्य
त्रयोऽपरस्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वावेकं ५स्वपित्र्यमंशं लभेते, अन्ये
त्रयोऽप्येकमंशं पित्र्यं, चत्वारोऽप्येकमेवांशं पित्र्यं लभन्त इति । तथा केषुचि-
त्पुत्रेषु म्रियमाणेषु केषुचित्पुत्रानुत्पाद्य विनष्टेष्वप्ययमेव न्यायः । म्रियमाणाः
स्वानंशानेव लभन्ते, नष्टानामपि पुत्राः पित्र्यानेवांशांल्लभन्त इति वाचनिकी
व्यवस्था ॥ १२० ॥
भाषा—विभाजन के पहले भाइयों के एक में रहते समय के सामान्य
धन की कृषि व्यापार आदि से वृद्धि होने पर उसमें सबका समान अंश होता
है । पितामह के धन में पिता के अंश के आधार पर ही पुत्र के अंश का
निर्धारण होता है ( अर्थात् पितामह की सम्पत्ति में अपने-अपने पिता का भाग
लगाकर और फिर अपने-अपने पिता के भाग में अपने अंश का भाग लगाने
पर ही पौत्र का भाग आता है ॥ १२० ॥
अधुना विभक्ते पितर्यविद्यमानभ्रातृके वा पौत्रस्य पैतामहे द्रव्ये विभागो
नास्ति । ६अध्रियमाणे पितरि ‘पितृतो भागकल्पना’ (व्य० १२०) इत्युक्तत्वात् ।
भवतु वा स्वार्जितवत्पितुरिच्छयैवेत्याशङ्कित आह—
भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा ।
तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य ७चैव हि ॥ १२१ ॥
१. साधारणस्यार्थस्य । २ भागद्वयम् । ३. द्रव्यविभाग । ४. पित्रंशं ।
५. द्वयमेव । ६. म्रियमाणे तु पितरि । ७. चोभयोः ।