सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 319, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 319

व्यवहाराध्यायः २६३
तुलादीनि कोशान्तानि पञ्च महादिव्यानि यथोद्देशं योगिश्वरेण व्याख्या-
तानि । स्मृत्यन्तरे स्वल्पाभियोगविषयाण्यन्यान्यपि दिव्यानि कथितानि ।
यथाह पितामहः—'तण्डुलानां प्रवक्ष्यामि विधिं श्रवणनोदितम् । चौरे तु
तण्डुला देया नान्यत्रेति विनिश्चयः ॥ तण्डुलान्कारयेच्छुक्लाञ्छालेर्नान्यस्य
कस्यचित् । मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥ स्नानोदकेन संमि-
श्रात्रात्रौ तत्रैव वासयेत् । प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् ॥ तण्डु-
लान्भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः । पिप्पलस्य तु नान्यस्य अभावे भूर्ज एव
तु ॥ लोहितं दृश्यते यस्य हनुस्तालु च शीर्यते । गात्रं च कंपते यस्य तमशुद्धं
विनिर्दिशेत् ॥' इति । शिरोरोपितपत्रकं तण्डुलान्भक्षयित्वा निष्ठीवयेत्प्राड्वि-
वाकः ॥ भक्षयित्वेति च ण्यन्तात्त्विचि रूपम् । सर्वदिव्यसाधारणं च धर्मावा-
हनादि पूर्ववदिहापि कर्तव्यम् ॥
इति तण्डुलविधिः ॥
तप्तमाषविधिः पितामहेनोक्तः । तथा हि—'सौवर्णं राजतं वापि ताम्रं वा
षोडशाङ्गुलम् । चतुरङ्गुलखातं तु मृन्मयं वाऽथ मण्डलम् ॥' वर्तुलमित्यर्थः ।
'पूरयेद्धृततैलाभ्यां विंशत्या तु पलैस्तु तत् । सुवर्णमाषकं तस्मिन्सुतप्ते निक्षि-
पेत्ततः ॥ अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तप्तमाषकम् । कराग्रं यो न धुनुयाद्विस्फोटो वा
न जायते । शुद्धो भवति धर्मेण निर्विकारकराङ्गुलिः ॥' इति । 'उद्धरेत्'इति
वचनात्पात्रादुत्क्षेपणमात्रं, न बहिः प्रक्षेपणमादरणीयम् ॥
अपरः कल्पः—'सौवर्णे राजते ताम्रे आयसे मृन्मयेऽपि वा । गव्यं घृतमु-
पादाय तदग्नौ तापयेच्छुचिः । सौवर्णी राजतीं ताम्रीमायसीं वा सुशोधिताम् ।
सलिलेन सकृद्धौतां प्रक्षिपेत्तान्मुद्रिकाम् ॥' (नारदः १।३३४) 'अमङ्गोचित-
रङ्गाष्ठये ह्यनलस्पर्शगोचरे । परीक्षेतार्द्रपर्णेन चुरुकारं सुघोषकम् ॥ ततश्चानेन
मन्त्रेण सकृत्तदभिमन्त्रयेत् ॥ परं पवित्रममृतं घृत त्वं यज्ञकर्मसु । दह पावक !
पापं त्वं हिमशीतं शुचौ भव ॥ उपोषितं ततः स्नातमार्द्रवाससमागतम् । ग्राहये-
न्मुद्रिकां तां तु घृतमध्यगतां तथा ॥ प्रदेशिनीं च तस्याथ परीक्षेरन् परीक्षकाः ।
यस्य विस्फोटका न स्युः शुद्धोऽसावन्यथाऽशुचिः ॥' इति । अत्रापि धर्मावाह-,
नाद्यनुसंधातव्यम् ॥ घृतानुमन्त्रणं प्राड्विवाकस्य । 'त्वमग्ने ! सर्वभूतानाम्'
इति शोध्यस्याग्म्यभिमन्त्रणमन्त्रः । 'प्रदेशिनीं परीक्षेरन्'इति वचनात् प्रदेशिन्यैव
मुद्रिकोद्धरणम् ॥
इति तप्तमाषकविधिः ॥


१. कम्पयेद्यस्य । २. न प्रक्षेपं । ३. माहरणीयं । ४. चूहकारं ।