सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 318, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 318

२६२ याज्ञवल्क्यस्मृतिः
'विस्तम्भे सर्वशङ्कासु संधिकार्थे तथैव च । एषु कोशः प्रदातव्यो नित्यं चित्तवि-
शुद्धये ॥' इति कार्यनियमः । 'पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च । सशू-
कस्याव्यसनिनः कोशपानं विधीयते ॥' ( नारदः १।३२८ ) सशूक आस्तिकः ।
'मद्यपस्त्रीव्यसनिनां कितवानां तथैव च । कोशः प्राज्ञैर्न दातव्यो ये च नास्तिक-
वृत्तयः ॥ महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते । नास्तिकव्रात्यदोषेषु कोशपानं
विवर्जयेत् ॥' इति । महापराधो महापातकी, निर्धर्मो वर्णाश्रमधर्मरहितः
पाखण्डी, कुत्सितः प्रतिलोमजः । दाशाः कैवर्ताः, इत्यधिकारिनियमः । तथा
गोमयेन मण्डलं कृत्वा तत्र शोध्यमादित्याभिमुखं स्थापयित्वा पाययेदिति
नारदवचनादवगन्तव्यम् । यथाह—'तमाहूयाभिशस्तं तु मण्डलाभ्यन्तरे
स्थितम् । आदित्याभिमुखं कृत्वा पाययेत्प्रसृतित्रयम् ॥' इति ॥ ११२ ॥
भाषा—(दुर्गा आदि) उग्रदेवताओं की गन्ध, पुष्प आदि से पूजा करके
उनके स्नान का जल लेवे; उसे दूसरे पात्र में रखकर तीन अंजलि जल दिव्य
करने वाले को पिलावे ॥ ११२ ॥
ननु तुलादिषु विषान्तेषु समनन्तरमेव शुद्धयशुद्धिभावना, कोशे तु कथमित्यत आह—
अर्वाक् चतुर्दशादह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः ॥ ११३ ॥
चतुर्दशादहः पूर्वं यस्य राजिकं राजनिमित्तं दैविकं देवप्रभवं व्यसनं दुःखं
घोरं महत् नो नैव जायते अहपस्य देहिनामपरिहार्यत्वात्स शुद्धो वेदितव्यः ।
ऊर्ध्वं पुनरवधेर्न दोषः । यथाह नारदः ( १।३३१ )—'ऊर्ध्वं यस्य द्विसप्ताहा-
द्वैकृतं तु महद्भवेत् । नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥' इत्यर्थ-
सिद्धमेवोक्तम् । 'अर्वाक् चतुर्दशादहः' इत्येतन्महाभियोगविषयम्; 'महाभियोगे-
ष्वेतानि' इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेनोक्तान्यल्पविषयाणि,
'कोशमल्पेऽपि दापयेत्' इति स्मरणात् तानि च—'त्रिरात्रात्सप्तरात्राद्वा द्वाद-
शाहाद् द्विसप्तकात् । वैकृतं यस्य दृश्येत पापकृत्स उदाहृतः ॥' इति । महा-
भियोगोक्तद्रव्यादर्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्राद्यपि पक्षत्रयं व्यवस्थापनी-
यम् ॥ ११३ ॥
भाषा—जिस (इस दिव्य को करनेवाले) व्यक्ति पर चौदह दिन के भीतर
राजकृत या दैवकृत घोर दुःख नहीं गिरता वह शुद्ध होता है, इसमें
संशय नहीं ॥ ११३ ॥
इति कोशविधिः ॥
१. विभेदे । २. बालेषु ।