याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 327, कुल 782 में से
संदर्भ में पढ़ें[Page Header]
व्यवहाराध्यायः २७१
'ज्येष्ठं वा श्रेष्ठभागेन' ( व्य० ११४ ) इति न्यूनाधिकविभागो दर्शितः ।
तत्र शास्त्रोक्तोद्धारादिविषमविभागव्यतिरेकेणान्यथाविषमविभागनिषेधार्थमाह—
न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ॥ ११६ ॥
न्यूनाधिकविभागेन विभक्तानां पुत्राणामसौ न्यूनाधिकविभागो यदि धर्म्यः
शास्त्रोक्तो भवति तदाऽसौ पितृकृतः कृत एव न निवर्तत इति मन्वादिभिः
स्मृतः । अन्यथा तु पितृकृतोऽपि निवर्तत इत्यभिप्रायः । यथाह नारदः
( १३।६ )—'व्याधितः कुपितश्चैव विषयासक्तमानसः । अन्यथाशास्त्रकारी
च न विभागे पिता प्रभुः ॥' इति ॥ ११६ ॥
भाषा—जो पुत्र स्वयं द्रव्यार्जन करने में समर्थ हो उसे उसके न चाहने
पर भी कुछ देकर बँटवारा करना चाहिए । यदि पिता द्वारा पुत्रों में किया
गया न्यून या अधिक विभाजन धर्म के अनुसार है तो वह परिवर्तनीय
नहीं होता ॥ ११६ ॥
इदानीं विभागस्य कालान्तरं कर्तृन्तरं प्रकारनियममाह—
विभजेरन्सुताः पित्रोरूर्ध्वं रिक्थमृणं समम् ।
पित्रोर्मातापित्रोरूर्ध्वं ४प्रयाणादिति कालो दर्शितः । सुता इति कर्तारो
दर्शिताः । सममिति प्रकारनियमः । सममेवेति रिक्थमृणं च विभजेरन् । ननु-
'ऊर्ध्वं पितुश्च मातुश्च' ( मनुः ९।१०४ ) इत्युपक्रम्य ( मनुः ९।१०५ )—'ज्येष्ठ
एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥'
इत्युक्त्वोक्तम् ( मनुः ९।११२ )—'ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् ।
ततोऽर्धं मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥' इति । सर्वस्माद्द्रव्यसमुदाया-
द्विशतितमो भागः सर्वद्रव्येभ्यश्च यच्छ्रेष्ठं तज्ज्येष्ठाय दातव्यम् ; तदर्धं चत्वारिं-
शत्तमो भागो मध्यमं च द्रव्यं मध्यमाय दातव्यम् ; तुरीयमशीतितमो भागो
हीनं द्रव्यं च कनिष्ठाय दातव्यमिति मातापित्रोरूर्ध्वं विभजतामुद्धारविभागो
मनुना दर्शितः । तथा ( ९।११६।११७ )—'उद्धारेऽनुद्धृते त्वेषामियं स्यादंश-
कल्पना । एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः ॥ अंशमंशं यवीयांस
इति धर्मो व्यवस्थितः ॥' इति । ज्येष्ठस्य द्वौ भागौ, तदनन्तरजातस्य सार्ध
एको भागः ततोऽनुजानामेकैकौ विभाग इत्युद्धारव्यतिरेकेणापि विषमो विभागो
१. धर्मः । २. विभजेयुः । ३. रूध्वंमृणं । ४. प्रायणात् ।
५. तदर्धं मध्यमस्य स्यात्तदधं तु कनीयस इति । ६. द्वनसमुच्चयात् ।