सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:

१३० याज्ञवल्क्यस्मृतिः
प्रवाह वाले मनु आदि ऋषियों ने जिसे पवित्र बनाया है उस जल से
(विनायक गृहीत) तुम्हारा अभिषिञ्चन करता हूँ। ये जल तुम्हें पवित्र
करें॥ २८१ ॥
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ २८२ ॥
तदनन्तरं दक्षिणदेशावस्थितं द्वितीयं कलशमादायानेन मन्त्रेणाभिषिञ्चेत् ।
भगं कल्याणं ते तुभ्यं वरुणो राजा भगं सूर्यो, भगं बृहस्पतिः भगमिन्द्रश्च वायुश्च
भगं सप्तर्षयश्च ददुरिति ॥ २८२ ॥
भाषा—( तब दक्षिण की ओर रखे हुए दूसरे कलश को लेकर उसे
अभिषिञ्चित करे ) राजा वरुण ने तुझे कल्याण दिया है, सूर्य और बृहस्पति ने
कल्याण ( प्रदान किया), इन्द्र और वायु ने कल्याण दिया है और सप्तर्षियों
ने तुम्हें कल्याण दिया है ॥ २८२ ॥
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद् घ्नन्तु सर्व्वदा ॥ २८३ ॥
ततस्तृतीयं कलशमादायानेन मन्त्रेणाभिषिञ्चेत् । ते तव केशेषु यद्दौर्भाग्य-
मकल्याणं सीमन्ते मूर्धनि च ललाटे कर्णयोरक्षणोश्च तत्सर्वमापो देव्यो घ्नन्तु
उपशमयन्तु सर्व्वदा इति ॥ २८३ ॥
भाषा—( तब तीसरे कलश को लेकर इस मन्त्र से अभिषिञ्चन करें )
तुम्हारे केशों में, सीमन्त में, शिर, ललाट, कानों और आँखों में जो कुछ भी
दौर्भाग्य या अकल्याण हो उसे आप ( जल ) देवता सदैव नष्ट करें ॥ २८३ ॥
स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु ।
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च ॥ २८४ ॥
ततश्चतुर्थं कलशमादाय पूर्वोक्तैस्त्रिभिर्मन्त्रैरभिषिञ्चेत् । 'सर्वमन्त्रैश्चतुर्थम्'
इति मन्त्रलिङ्गात्² । उक्तेन प्रकारेण कृताभिषेकस्य मूर्धनि सव्यपाणिगृहीत-
कुशान्तर्हिते सार्षपं तैलं उदुम्बरवृक्षोद्भवेन स्रुवेण वक्ष्यमाणैर्मन्त्रैर्जुहुयादा-
चार्यः॥ २८४॥
भाषा—( तब चौथा कलश लेकर तीनों मन्त्रों से उसको स्नान करावे )
उसके स्नान कर लेने पर उसके सिर पर बायें हाथ से कुश फेर कर उदुम्बर
वृक्ष की स्रुवा से सरसों के तेल का ( आचार्य ) हवन करे ॥ २८४ ॥


१. ते सदा । २. स्मृतिलिङ्गात् ।

आचाराध्यायः १३१
मितश्च संमितश्चैव तथा शालकटङ्कटौ ।
कूश्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः ॥ २८५ ॥
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।
मितसंमितादिभिर्विनायकस्य नामभिः स्वाहाकारान्तैः प्रणवादिभिः ‘जुहु-
यात्’ इति गतेन संबन्धः । स्वाहाकारयोगाच्चतुर्थी विभक्तिः । अतश्च ॐमिताय
स्वाहा, ॐ संमिताय स्वाहा, ॐ शालाय स्वाहा, ॐ कटङ्कटाय स्वाहा,
ॐकूश्माण्डाय स्वाहा, ॐ राजपुत्राय स्वाहेति षण्मन्त्रा भवन्ति । अनन्तरं
लौकिकेऽग्नौ स्थालीपाकविधिना चरुं श्रपयित्वा एतैरेव षड्भिर्मन्त्रैस्तस्मिन्नेवाग्नौ
हुत्वा तच्छेषं बलिमन्त्रैरिन्द्राग्नियमनिरृतिवरुणवायुसोमेशानब्रह्मानन्तानां
नामभिश्चतुर्थ्यन्तैर्नमोन्वितैस्तेभ्यो बलिं दद्यात् ॥ २८५ ॥
अनन्तरं किं कुर्यादित्याह³—
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥ २८६ ॥
कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।
मत्स्यान्यक्कांस्तथैवान्मांसमेतावदेव तु ॥ २८७ ॥
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ।
मूलकं पूरिकापूपांस्तथैवोण्डेरकजः ॥ २८८ ॥
दध्यन्नं पायसं चैव ⁷गुडपिष्टं समोदकम् ।
एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ॥ २८९ ॥
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।
कृताकृताद्युपहारद्रव्यजातं विनायकस्योपाहृत्य संनिधानात्तज्जनन्यश्च शिरसा
भूमिं गत्वा—‘तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात्’
इत्यनेन मन्त्रेण विनायकं, —‘सुभगायै विद्महे काममालिन्यै धीमहि । तन्नो गौरी
प्रचोदयात्’ इत्यनेनाम्बिकां च नमस्कुर्यात् । तत उपहारशेषमास्तीर्णकुशे
शूर्पे निधाय चतुष्पथे निदध्यात्—‘बलिं गृह्णन्त्विमे देवा आदित्या वस-
वस्तथा । मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥ असुरा यातुधानाश्च
९पिशाचोरगमातरः । शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ जृम्भकाः
१. शालकंटंकटः । २. कुष्मा (श्मा ?)ण्डराज । ३. दित्याह
दद्यादित्यादिचतुर्भिः । ४. स्तथा चामान् । ५. विविधा । ६. पुष्पं
तथैव । तथैवोण्डेरकस्त्रजम् । ७. गुडमिश्रं । ८. अपरार्कासंमतमिदमर्धम् ।
९. तताऽम्बिकाम् । १०. पिशाचा मातरोरगाः ।

१३२ याज्ञवल्क्यस्मृतिः
सिद्धगन्धर्वा १मायाविद्याधरा नराः। दिक्पाला लोकपालाश्च ये च विघ्नविना-
यकाः॥ जगतां शान्तिकर्तारो ब्रह्माद्याश्च महर्षयः। मा विघ्नो मा च मे
पापं मा सन्तु परिपन्थिनः॥ सौम्या भवन्तु तृप्ताश्च भूतप्रेताः सुखावहाः॥
इत्येतैर्मन्त्रैः॥ कृताकृताः सकृदवहतास्तण्डुलाः, २पललं तिलपिष्टं तन्मिश्र
ओदनः पललौदनः, मत्स्याः पक्वा अपक्वाश्च, मांसमेतावदेव पक्वमपक्वं च,
पुष्पं चित्रं रक्तपीतादिनानावर्णम्। चन्दनादि सुगन्धिद्रव्यम्, सुरा त्रिविधा
गौडी माध्वी पैष्टी च मूलकं कन्दाकारो भक्ष्यविशेषः, पूरिका प्रसिद्धा,
अपूपोऽस्नेहपक्वो गोधूमविकारः। उण्डेरकस्त्रजः उण्डेरकाः पिष्टादिमय्यस्ताः
प्रोताः स्रजः, दध्यन्नं दधिमिश्रमन्नं। पायसं पयः ३पयः शृतम्। गुडपिष्टं
गुडमिश्रं शाख्यादिपिष्टम्। मोदकाः लड्‌डुकाः। अनन्तरं विनायकं तज्जननी-
मम्बामम्बिकां वक्ष्यमाणमन्त्रेणोपतिष्ठेत्॥ २८६-२८९॥
किं कृत्वेत्याह-
दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम्॥ २९०॥
सकृसुमोदकेनाघ्र्यं दत्त्वा दूर्वासर्षपपुष्पाणां पूर्णमञ्जलिं दत्त्वा, 'उपतिष्ठेत्'
इति गतेन संबन्धः॥ २९०॥
भाषा—मित, संमित, शाल, कटङ्कट, कूष्माण्ड और राजपुत्र के अन्त में
स्वाहा जोड़कर हवन के मन्त्र होते हैं (यथा-ओं मिताय स्वाहा आदि)
इन्हीं मन्त्रों से इन्द्र से लेकर ब्रह्मा तक अनन्त देवताओं के नाम से नमस्कार
पूर्वक बलि देवे। (तब बचे हुए अंश को) सूप में कुश बिछाकर चौराहे
पर रखे। बनाये गये और न बनाये गये चावल, पीसे हुए तिल से युक्त
चावल, पकी-अधपकी मछली, पका और न पका हुआ मांस, अनेक वर्ण के
फूल, चन्दन आदि सुगन्धि द्रव्य, (गौडी, माध्वी, पैष्टी) तीन प्रकार की
सुरा, कन्द के समान मूल फल, पूरी, पूआ, उण्डेरक (छोटे-छोटे रोट) की
माला, दही मिला हुआ अन्न, खीर, गुड से बनाये गये लड्डू-इन सब को
लेकर भूमि में शिर लगाकर विनायक की माता अम्बिका को नमस्कार करे।
इसके पहले दूब, सरसों और फूल अञ्जलि में लेकर अर्घ्य देवे॥ २८५-२९०॥
उपस्थानमन्त्रमाह-
रूपं देहि ४यशो देहि भगं ५भवति देहि मे।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे॥ २९१॥
१. माला विद्या; नागा विद्याधरा। २. पललं पिष्टं। ३. पैरेयी।
४. जयं देहि। ५. भगवन्।

आचाराध्यायः १३३
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
ब्राह्मणाम्भोजयेद्द्वाद्धवस्त्रयुग्मं गुरोरपि ॥ २९२ ॥
विनायकोपस्थाने 'भगवन्' इत्यूहः । ततोऽभिषेकानन्तरं यजमानः शुक्ला-
म्बरधरः शुक्लमाल्यानुलेपनो ब्राह्मणान्भोजयेत् । यथाशक्ति गुरवे श्रुताध्ययन-
वृत्तसंपन्नाय विनायकस्नपनविधिज्ञाय वस्त्रयुग्मं दद्यात् । 'अपि' शब्दाद्यथाशक्ति
दक्षिणां विनायकोद्देशेन ब्राह्मणेभ्यश्च । तत्रायं प्रयोगक्रमः--चतुर्भिर्ब्राह्मणैः
सार्धमुक्तलक्षणो गुरुर्मन्त्रज्ञो भद्रासनरचनानन्तरं तत्संनिधौ विनायकं तज्जननीं
चोक्तमन्त्राभ्यां गन्धपुष्पादिभिः समभ्यर्च्य चरुं श्रपयित्वा भद्रासनोपविष्टस्य
यजमानस्य पुण्याहवाचनं कृत्वा, चतुर्भिः कलशैरभिषिच्य, सार्षपं तैलं शिरसि
हुत्वा, चरुहोमं विधायाभिषेकशालायां चतुर्दिक्षु इन्द्रादिलोकपालेभ्यो बलिं
दद्यात् । यजमानस्तु स्नानानन्तरं शुक्लमाल्याम्बरधरो गुरुणा सहितो विनाय-
काम्बिकाभ्यामुपहारं दत्त्वा शिरसा भूमिं नत्वा कुसुमोदकेनायं दत्त्वा दूर्वासर्षप-
पुष्पाञ्जलिं च दत्त्वा विनायकमम्बिकां चोपतिष्ठेत् । गुरुरुपहारशेषं शूर्पे
कृत्वा चत्वरे निदध्यात् । अनन्तरं वस्त्रयुग्मं दक्षिणां ब्राह्मणेभ्यो भोजनं
दद्यादिति ॥ २९१-२९२ ॥
भाषा--( नमस्कार का मन्त्र यह है ) देवि ! मुझे रूप दो, यश दो,
कल्याण दो, पुत्र दो, धन दो और सभी अभिलाषाएँ पूरी करो । इसके बाद
श्वेत वस्त्र धारण करके, श्वेत पुष्पों की माला पहन कर, चन्दन आदि का
लेप करके, ब्राह्मणों को भोजन करावे और गुरु के लिये भी जोड़ा वस्त्र
देवे ॥ २९१-२९२ ॥
इति विनायकस्नपनविधिः ।
अस्यैव विनायकस्नपनस्योक्तोपसंहारेण संयोगान्तरं दर्शयितुमाह-
एवं विनायकं पूज्यं ग्रहांश्चैव विधानतः ।
कर्मणां फलमाप्नोति २श्रियं चाप्नोत्यनुत्तमाम् ॥ २९३ ॥
एवमुक्तेन प्रकारेण विनायकं संपूज्य कर्मणां फलमविघ्नेनाप्नोतीत्युक्तोप-
संहारः । संयोगान्तरमाह--श्रियं चोत्कृष्टतमामाप्नोतीति । श्रीकामश्चानेनैव
विधानेन विनायकं पूजयेदित्यर्थः । आदित्यादिग्रहपीडाशान्तिकामस्य लक्ष्म्या-
विदाप्तस्य च ग्रहपूजादिकल्पं विधास्यन् ३ग्रहपूजामुपक्षिपति-ग्रहांश्चैव
१. अम्बिकोपस्थाने भवतीत्यूहः । २. श्रियमाप्नोत्यनुत्तमाम् ।
३. ग्रहपूजां लक्षयति ।

१३४ याज्ञवल्क्यस्मृतिः
विधानत इति । ग्रहानादित्यादीन्वक्ष्यमाणेन विधिना संपूज्य कर्मणां सिद्धि-
माप्नोति श्रियं चाप्नोति इति ॥ २९३ ॥
भाषा—इस प्रकार विनायक की पूजा करके और सभी ग्रहों की
विधिपूर्वक पूजा करके सभी कर्मों का फल प्राप्त करता है और उत्कृष्ट
समृद्धि का लाभ करता है ॥ २९३ ॥
नित्यकाम्यसंयोगानाह—
आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ।
महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ॥ २९४ ॥
आदित्यस्य भगवतः सदा प्रतिदिवसं रक्तचन्दनकुङ्कुमकुसुमादिभिः पूजां
कुर्वन् स्कन्दस्य महागणपतेश्च नित्यं पूजां कुर्वन् सिद्धिं मोक्षमात्मज्ञानद्वारेण
प्राप्नोतीति नित्यसंयोगः । आदित्यस्कन्दगणपतीनामन्यतमस्य सर्वेषां वा
तिलकं स्वर्णनिर्मितं रूप्यनिर्मितं वा कुर्वन् सिद्धिमभिलषितामाप्नोति । तथा
चक्षुषी चेति काम्यसंयोगः ॥ २९४ ॥
भाषा—प्रतिदिन सूर्य भगवान् को (लाल चन्दन, कुङ्कुम और पुष्प
आदि से) तथा महागणपति की पूजा करने और इनके लिये (सोने या
चाँदी का) तिलक बनवाने वाला अभिलषित फल प्राप्त करता है (सिद्धि
प्राप्त करता है) ॥ २९४ ॥
इति महागणपतिकल्पः ।
ग्रहशान्तिप्रकरणम्
‘एवं विनायकं पूज्य ग्रहांश्चैव विधानतः । कर्मणां फलमाप्नोति श्रियं
चाप्नोत्यनुत्तमाम्’ ( आ० २९३ ) इत्यनेन ग्रहपूजायाः कर्मणामसिद्धिानेन
फलसिद्धिः श्रीश्च फलमित्युक्तम् । इदानीं फलान्तराण्याह—
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाऽभिचरन्नपि ॥ २९५ ॥
श्रीकाम इति पूर्वोक्तस्यानुवादः, शान्तिकाम आपदुपशान्तिकामः, सस्या-
दिवृद्ध्यर्थं प्रवर्षणं वृष्टिः, आयुरपमृत्युजयेन दीर्घकालजीवनम् । पुष्टिरनवद्य-
शरीरत्वं, एताः कामयत इति वृष्ट्यायुःपुष्टिकामः। एते श्रीकामादयो ग्रहयज्ञं
ग्रहपूजां समाचरेयुः। तथाऽभिचरन्नपि अघशेोपायेन परपीडा अभिचारस्तत्कामश्च
ग्रहयज्ञं समाचरेत् ॥ २९५ ॥

आचाराध्यायः १३५
भाषा—समृद्धि की इच्छा रखने वाला, आपत्ति से शान्ति चाहने वाला,
(खेती के लिये) वृष्टि, दीर्घजीवन, पुष्टि की कामना करने वाला तथा
अदृष्ट उपाय से दूसरे (शत्रु आदि) को पीडित करने की इच्छा वाला
ग्रह यज्ञ करे ॥ २९५ ॥
ग्रहानाह—
सूर्य्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥ २९६ ॥
एते सूर्यादयो नव ग्रहाः ॥ २९६ ॥
भाषा—सूर्य, चन्द्रमा, मंगल, बुध (चन्द्रमा का पुत्र), बृहस्पति,
शुक्र, शनि, राहु और केतु—ये नवग्रह कहे गये हैं ॥ २९६ ॥
'ग्रहाः पूज्याः' इत्युक्तं, कि कृत्वेत्याह—
ताम्रात्स्फटिकाद्रक्तचन्दनात्स्वर्णकादुभौ ।
राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् ॥ २९७ ॥
स्ववर्णैर्वा पटे लेख्या १गन्धैर्मण्डलकेषु वा ।
सूर्यादीनां मूर्तयस्ताम्रादिभिर्यथाक्रमं कार्याः । तदलाभे स्ववर्णैर्वर्णकैः पटे
लेख्याः, मण्डलकेषु वा । गन्धैः रक्तचन्दनादिभिर्यथावर्णं लेख्या इत्यन्वयः ।
द्विभुजत्वादिविशेषस्तु मत्स्यपुराणोक्तो द्रष्टव्यः । यथा—'पद्मासनः पद्मकरः
पद्मगर्भसमद्युतिः । सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात्सदा रविः ॥ श्वेतः श्वेता-
म्बरधरो दशाश्वः श्वेतभूषणः । गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥
रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः । चतुर्भुजो मेषगमो वरदः स्याद्धरा-
सुतः॥ पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः। खड्गचर्मगदापाणिः सिंहस्थो
वरदो बुधः ॥ देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ । दण्डिनौ वरदौ कार्यौ
साक्षसूत्रकमण्डलू॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः। बाणबाणासनधरः
कर्तव्योऽर्कसुतः सदा ॥ करालवदनः खड्गचर्मशूली वरप्रदः। नीलः ३सिंहासन-
रथश्च राहुरत्र प्रशस्यते ॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृतानना। गृध्रासन-
गता नित्यं केतवः स्युर्वरप्रदाः ॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः ।
स्वाङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा' इति ॥ एतेषां स्थापनदेशश्च तत्रै-
वोक्तः—'मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु । उत्तरेण गुरुं विद्याद् बुधं
: पूर्वोत्तरेण तु ॥ पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके । पश्चिमेन शनिं विद्या-
न्द्राहुं पश्चिमदक्षिणे ॥ पश्चिमोत्तरतः केतुं स्थाप्या वै शुक्लतण्डुलैः ॥' इति ॥ २९७ ॥

१. गन्धमण्डलकेषु वा । २. सप्ताश्वरथसंस्थश्च । ३. नीलसिंहासनः ।

१३६ याज्ञवल्क्यस्मृतिः
पूजाविधिमाह—
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ २९८ ॥
गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः ।
कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् ॥ २९९ ॥
यथावर्णं यस्य ग्रहस्य यो वर्णस्तद्वर्णानि वस्त्रगन्धपुष्पाणि देयानि ।
बलयश्च धूपश्च सर्वेभ्यो गुग्गुलुर्देयः । चरवश्च प्रतिदैवतमग्निप्रतिष्ठापनान्वा-
धानादिपूर्वकं ‘चतुरश्चतुरो मुष्टीन्निर्वपति’, ‘अमुष्मै त्वा जुष्टं निर्वपामी'त्यादिवि-
धिना कार्याः । अनन्तरं सुसमिद्धेऽग्नाविध्माधानाद्याघारान्तं कर्म कृत्वा१
आदित्याद्युद्देशेन यथाक्रमं वक्ष्यमाणमन्त्रैर्वक्ष्यमाणाः समिधो वक्ष्यमाणप्रकारेण
हुत्वा चरवो होतव्याः ॥ २९८-२९९ ॥
भाषा—( सूर्य आदि ग्रहों की मूर्तियाँ ) क्रमशः तांबे, स्फटिक, लाल-
चन्दन, सोने की दो, चाँदी, लोहा, सीसा की क्रमशः बनवानी चाहिए ।
अथवा (इनकी आकृतियाँ) तत्तत् रंगों से वस्त्र पर अथवा मण्डल में
चन्दनादि गन्धों से बनावे। ग्रह के वर्ण के अनुसार (उस-उस वर्ण का)
वस्त्र और फूल दे। गन्ध, बलि, धूप और गुग्गुल देना चाहिए और प्रत्येक
देवता के लिए मन्त्र के साथ चरु बनाकर (उसका हवन करना
चाहिए) ॥ २९७-२९९ ॥
मन्त्रानाह—
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ ३०० ॥
बृहस्पते अतियदर्यस्तथैवान्नात्परिस्रुतः ।
शं नो देवीस्तथा काण्डात्तेकेतुं कृण्वन्निमांस्तथा ॥ ३०१ ॥
‘आकृष्णेन रजसा वर्तमान’ (ऋ. १।३५।२) इत्यादयो नव मन्त्राः
यथाक्रमादित्यादीनां वेदितव्याः ॥ ३००-३०१ ॥
भाषा—'आकृष्णेन’, ‘इमं देवा', 'अग्निर्मूर्धा दिवः ककुत्' ‘उद्बुध्यस्व’,
'बृहस्पते अतियदर्यः', 'अन्नात्परिस्रुतः', 'शं नो देवी', और 'काण्डात्'
'केतुं कृण्वन्' ये यथाक्रम नौ देवताओं के मन्त्र हैं ॥ ३००-३०१ ॥
इदानीं समिध आह—
अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ ३०२ ॥
१. ऽग्नावन्वाधानादनन्तरं कर्म कृत्वा । २. न्निमा अपि । ३. औदुम्बर ।

आचाराध्यायः १३७
अर्कपलाशादयो यथाक्रमं सूर्यादीनां समिधो भवन्ति । तश्चार्द्रा अभग्नाः
सत्वचः प्रादेशमात्राः कर्तव्याः ॥ ३०२ ॥
भाषा--अर्क, पलाश, खदिर, अपामार्ग, पीपल, उदुम्बर, शमी, दूर्वा और
कुश-ये क्रमशः (इन नौ ग्रहों के लिए) समिधू होते हैं ॥ ३०२ ॥
एकैकस्य¹ त्वष्टशतमष्टाविंशतिरेव वा।
होतव्या मधुसर्पिभ्यां दध्ना क्षीरेण वा² युताः ॥ ३०३ ॥
किंच, आदित्यादीनामेकैकस्याष्टशतसंख्या अष्टाविंशतिसंख्या वा
यथासंभवं मधुना सर्पिषा दध्ना क्षीरेण वा युता युक्ता अर्कादिसमिधो
होतव्याः ॥ ३०३ ॥
भाषा--(आदित्यादि में) प्रत्येक ग्रह के लिए आठ-आठ सौ या अठाइस-
अठाइस समिधाएँ मधु और घी दही या दूध में भिगोकर हवन करे ॥ ३०३ ॥
इदानीं भोजनान्याह-
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं ³हविश्चूर्णं मांसं चित्रान्नमेव च ॥ ३०४ ॥
दद्याद् ग्रहक्रमादेवं द्विजेभ्यो भोजनं ⁴बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ ३०५ ॥
गुडमिश्र ओदनो गुडौदनः, पायसं पायसान्नम् , हविष्यं मुन्यन्नादि,
क्षीरषाष्टिकं क्षीरमिश्रः षाष्टिकोदनः, दध्ना मिश्र ओदनो दध्योदनः, हविर्घृतौ-
दनः । चूर्णं तिलचूर्णमिश्रं ओदनः, मांसं भक्ष्यमांसमिश्र ओदनः, चित्रौदनो
नानावर्णौदनः, एतानि गुडौदनादीनि यथाक्रममादित्याद्युद्देशेन भोजनार्थं
द्विजेभ्यो ब्राह्मणेभ्यो दद्यात् । ब्राह्मणसंख्या यथाविभवं द्रष्टव्या । गुडौदनाद्यभावे
तु यथालाभमोदनादि पादप्रक्षालनादिविधिपूर्वकं सत्कृत्य संमान-पुरःसरं
दद्यात् ॥ ३०४-३०५ ॥
भाषा-गुड़ मिला हुआ भात, खीर, हविष्य (तीनी का भात), दूध
के साथ साठी का भात, दही-भात, घी-भात, भक्ष्यमांस युक्त भात, तिल
युक्त भात, अनेक वर्ण के चावल आदि का भात, ये क्रमशः इन ग्रहों के लिये
ब्राह्मणों को विद्वान् पुरुष अपनी शक्ति के अनुसार या अपने लाभ के अनुसार
उनका सत्कार करके, विधिपूर्वक भोजन देवे ॥ ३०४-३०५ ॥
१. कस्यात्राष्टशतं । एकैकस्याष्टशतक। २. संयुताः । ३. घृतान्नं
च कृसरामिषचित्रकम् । ४. द्विजः ।

१३८ याज्ञवल्क्यस्मृतिः
दक्षिणामाह—
धेनुः शङ्खस्तथानड्‌वान् हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः ॥ ३०६ ॥
धेनुर्दोग्ध्री, शङ्खः प्रसिद्धः, अनड्वान् भारसहो¹ बलीवर्दः, हेम सुवर्णम्,
वासः पीतम्, हयः पाण्डुरः, कृष्णा गौः, ²आयसं शस्त्रादि, छागप्रसिद्धः, एता
धेन्वादयो यथाक्रममादित्याद्युद्देशेन ब्राह्मणानां दक्षिणाः स्मृताः उक्ता मन्वा-
दिभिः । एतच्च संभवे सति, असंभवे तु यथालाभं शक्तितोऽन्यदेव यत्किं-
चिद्देयम् ॥ ३०६ ॥
भाषा—(दूध देने वाली) गाय, शंख, (भार ढोने वाला) बैल,
सोना, पीला वस्त्र, पाण्डुवर्ण का घोड़ा, काली गाय, लोहे के शस्त्र आदि
और बकरा—ये क्रमशः इन ग्रहों के लिये (ब्राह्मण की) दक्षिणा होते हैं ॥
'शान्तिकामेनःविशेषेण सर्वे ग्रहाः पूजयितव्याः' (आ० २९५) इत्युक्तं,
तत्र विशेषमाह—
यश्च यस्य यदा ³दुःस्थ स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ ३०७ ॥
यस्य पुरुषस्य यो ग्रहो यदा दुःस्थोऽष्टमादिदुष्टस्थानस्थितः स तं ग्रहं तदा
यत्नेन विशेषेण पूजयेत् । यस्मादेषां ग्रहाणां ब्रह्मणा पूर्वं वरो दत्तः 'पूजिताः
सन्तो यूयमिष्टप्रापणेनानिष्टसनेन च पूजयितारं पूजयिष्यथ' इति ॥ ३०७ ॥
भाषा—जिस पुरुष के लिए जो प्रतिकूल (अष्टम आदि स्थान में
स्थित) हो वह उस-उस ग्रह की विधिपूर्वक पूजा करे । ब्रह्मा ने इन्हें वर
दिया है कि तुम्हारी पूजा किये जाने पर तुम लोग पूजा करने वाले को
सुखी और प्रसन्न करोगे ॥ ३०७ ॥
अविशेषेण द्विजानधिकृत्य शान्तिकपौष्टिकादीनि कर्माण्यनुक्रान्तानि,
तत्राभिषेकँगुणयुक्तस्य राज्ञो विशेषेणाधिकार इति दर्शयति—
ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनानि च ।
भावाभावौ च जगतस्तस्मात्पूज्यत मा ग्रहाः ॥ ३०८ ॥
[ ग्रहाणामिदमातिथ्यं कुर्यात्संवत्सरादपि ।
आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् ॥ ]
१. भारवाही । २. आयसमस्त्रादि, आयसं ताम्रादि । ३. दुष्टो ।
४. भिषेकयुक्तस्य ।

आचाराध्यायः १३६
नरेन्द्राणामभिषिक्तक्षत्रियाणां ग्रहाः पूज्यतमाः, इत्यनेनान्येषामपि$^१$ पूज्या
इति गम्यते । उभयत्र कारणमाह—प्राणिनामभ्युदयविनिपाता ग्रहाधीनाः
यस्मात्तस्मादधिकारिभिः पूज्याः । किंच जगतः स्थावरजङ्गमात्मकस्य भावा-
भावावुत्पत्तिनिरोधौ ग्रहाधीनौ । तत्र यद्येते पूजितास्तदा स्वकोल$^२$ एवोत्पत्ति-
निरोधौ भवतः, अन्यथा उत्पत्तिसमये $^३$नोत्पादः, न काले निरोधश्च । जगदीश्वर-
त्वाच्च नरेन्द्राणां तयोर्योगक्षेमकारिणां पूज्यतमा ग्रहा इति तेषां विशेषेण शान्ति-
कादिष्वधिकारः । तथा च गौतमेन ( ११।१ ) ‘—राजा सर्वस्येष्टे ब्राह्मण-
वर्ज्यम्’ इति राजानमधिकृत्य ‘वर्णानाश्रमांश्च न्यायतोऽभिरक्षेत्’ ( गौ. ११।९ )
चलतश्चैतान्स्वधर्मे स्थापयेत्’ इत्यादीन्कांश्चिद्धर्मानुक्त्वा—‘यानि च दैवोत्पात-
चिन्तकाः प्रब्रूयुस्तान्याद्रियेत ( गौ. ११।१० ) तदधीनमपि ह्येके योगक्षेमं प्रतिजा-
नते’ इति । शान्तिकपौष्टिकाद्यनुष्ठानहेतुमभिधाय ‘शान्तिकपुण्याहस्वस्त्ययना-
युष्यमङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषण$^४$स्तम्भनाभिचारद्विषद्द्वृद्धियुक्तानि च
शालाग्नौ कुर्यात्’ ( गौ. ११।११।१५-१७) इति शान्तिकादीनि दर्शितानि ॥ ३०८ ॥
भाषा—राजाओं का अभ्युदय और पतन, तथा संसार का अस्तित्व
एवं विनाश ग्रहों के अधीन होते हैं; इसलिये ये ग्रह सबसे अधिक पूज्य
होते हैं ।
[ जो व्यक्ति वर्ष में एक बार भी इन ग्रहों की पूर्वोक्त विधि से पूजा
करता है वह स्वास्थ्य और बल से युक्त होकर सौ वर्ष तक जीवित
रहता है । ] ॥ ३०८ ॥
इति ग्रहशान्तिप्रकरणम् ।
राजधर्मप्रकरणम्
साधारणगृहस्थधर्मानुक्त्वेदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य
विशेषधर्मानह—
महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥ ३०९ ॥
$^५$अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥ ३१० ॥
स्वरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥ ३११ ॥
१. अथ चान्येषामपि । २. स्वकालादुत्पत्ति । ३. तस्य नोत्पादो
न काले । ४. संवननाभिचार । ५ अदीर्घसूत्री ।

पुरुषार्थसाधनकर्मारम्भाध्यवसाय उत्साहः, महानुत्साहो यस्यासौ महो-
त्साहः, बहुदेयार्थदर्शी स्थूललक्षः, परकृतोपकारापकारौ न विस्मरतीति कृतज्ञः,
तपोध्ञानादिवृद्धानां सेवकः, वृद्धसेवकः, विनयेन युक्तो विनीतः, 'विनय' शब्दे-
नाविरुद्धः पूर्वोक्तस्नातकधर्मकलाप उच्यते—'न संशयं प्रपद्येत नाकस्मादप्रियं
वदेत्' (आं. १३२) इत्यादिनाक्तः। सत्त्वसंपन्नः संपदापदोर्हर्षविषादरहितः,
मातृतः पितृतश्चाभिजनवान् कुलीनः, सत्यवाक् सत्यवचनशीलः। शुचिर्बाह्या-^१
भ्यन्तरशौचयुक्तः अवश्यकार्याणां कर्मणामारम्भे प्रारब्धानां च समापने यो न
विलम्बतेऽसावदीर्घसूत्रः, अधिगतार्थाऽविस्मरणशीलः स्मृतिमान्, अक्षुद्रोऽसद्-
गुणद्वेषी, अपरुषः परदोषाकीर्तनशीलः, धार्मिको वर्णाश्रमधर्मान्वितः, न विद्यन्ते
व्यसनानि यस्यासावव्यसनः। व्यसनानि चाष्टादश, यथाह मनुः (७।४७-
४८)—'मृगयाऽक्षो दिवास्वप्नः परिवादः स्त्रियो मदः। तौर्यत्रिकं वृथाट्या च
कामजो दशको गणः ॥ पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च
पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥' इति तत्र च सप्त कष्टतमानि । यथाह मनुः
(७।५०-५१)—'पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं
विद्याच्चतुष्कं कामजे गणे ॥ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजे-
ऽपि गणे विद्यात्कष्टमेतन्त्रिकं सदा ॥' इति प्राज्ञो गम्भीरार्थावधारणक्षमः, शूरो
निर्भयः, रहस्यवित् गोपनीयगोपनचतुरः, स्वरन्ध्रगोप्ता स्वस्य सप्तसु
राज्याङ्गेषु यत्परप्रवेशद्वारशैथिल्यं तत्स्वरन्ध्रं तस्य गोप्ता प्रच्छादयिता। आन्वी-
क्षिक्यामात्मविद्यायां, दण्डनीत्यामर्थयोगक्षेमोपयोगिन्यां, वार्तायां कृषिवाणिज्य-
पशुपालनरूपायां धनोपचयहेतुभूतायां, त्रय्यां ऋग्यजुः ^२सामरूपायां च विनी-
तस्तत्तदभिज्ञैः प्रावीण्यं नीतः। यथाह मनुः (७।४३)—'त्रैविद्येभ्यस्त्रयीं विद्यां
दण्डनीतिं ^३ शाश्वतीम् । आन्वीक्षिकीं चात्मविद्भ्यो वार्तारम्भांश्च लोकतः ॥
इति। नराधिपो 'राज्याभिषिक्तः स्यात्' इति सर्वत्र संबन्धः ॥ ३०९-३११ ॥

भाषा—राजा को महान् उत्साही, अत्यन्त धन देने वाला, कृतज्ञ, (तप
एवं ज्ञान में बढ़े हुए) वृद्धों की सेवा करने वाला, विनीत, सत्त्वसंपन्न
(सम्पत्ति और विपत्ति में एक सा आचरण करने वाला), कुलीन, सत्य
वचन बोलने वाला, पवित्र, आलस्यरहित, (जाने हुए कार्यों को), स्मरण
रखने वाला, सद्गुणी, दूसरे का दोष न कहने वाला, धार्मिक, (मृगया
आदि) व्यसन न करने वाला, बुद्धिमान्, वीर, रहस्य को छिपाने में चतुर,
अपने राज्य के प्रवेशद्वारों को गुप्त रखने वाला, आन्वीक्षिकी (आत्म-विद्या)

१. सत्यवादन । २. साममय्यां । ३. च तद्विदः ।

एवं दण्डनीति ( योग क्षेमोपयोगी ) विद्या एवं वार्ता ( कृषिवणिज्य ) तीनों
में प्रवीण होना चाहिए ॥ ३०९-३११ ॥
एवमभिषेकयुक्तस्यान्तरङ्गान्धर्मानभिधायेदानीं बहिरङ्गानाह-
स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिराञ्शुचीन् ।
तैः सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥ ३१२ ॥
महोत्साहादिगुणैर्युक्तो राजा मन्त्रिणः कुर्वीत । कथंभूतान् ? प्राज्ञान् हिता-
हितविवेककुशलान्, मौलान् स्ववंशपरम्परायातान्, स्थिरान् महत्यपि ^२हर्ष-
विषादस्थाने विकाररहितान् । शुचीन् धर्मार्थकामभयोपधाशुद्धान्, ते च सप्ताष्टौ
वा कार्याः । यथाह मनुः ( ७।५४ ) - 'मौलाञ्शास्त्रविदः शूरान्लब्धलक्षान्कुलोद्ग-
बान् । सचिवांस्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥' इति । एवं मन्त्रिणः पूर्वं
कृत्वा तैः सार्धं राज्यं संधिविग्रहादिलक्षणं कार्यं चिन्तयेत् समस्तैर्व्यस्तैश्च ।
अनन्तरं तेषामभिप्रायं ज्ञात्वा सकलशास्त्रार्थविचारकुशलेन ब्राह्मणेन पुरोहितेन
सह कार्यं विचिन्त्य ततः स्वयं बुद्धया कार्यं चिन्तयेत् ॥ ३१२ ॥
भाषा - वह ज्ञानी ( विवेकी ), वंशपरम्परा से चले आने वाले, धैर्यवान्
एवं पवित्र पुरुषों को मन्त्री बनावे; उनके साथ राज्य के ( संधि, विग्रह
आदि ) कार्यों पर विचार करे, फिर ब्राह्मण ( पुरोहित ) से परामर्श ले और
तब स्वयं ( अपनी बुद्धि से ) कर्तव्य का चिन्तन करे ॥ ३१२ ॥
कीदृशं पुरोहितं कुर्यादित्याह-
पुरोहितं ^३प्रकुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ ३१३ ॥
पुरोहितं च सर्वेषु दृष्टार्थेषु ^४कर्मसु पुरतो निहितं दानमानसत्कारैरात्मसं-
बद्धं कुर्यात् । कथंभूतम् ? दैवज्ञं ग्रहोत्पाततच्छमनादेर्वेदितारम्, उदितोदितं
विद्याभिजनानुष्ठानादिभिरुदितैः शास्त्रोक्तैरुदितं समृद्धम्, दण्डनीत्यामर्थशास्त्रे
कुशलम्, अथर्वाङ्गिरसे च शान्त्यादिकर्मणि ॥ ३१३ ॥
भाषा - दैवज्ञ ( ग्रहों के उत्पात एवं शमन का ज्ञान रखने वाले ) सभी
शास्त्रों के ज्ञान एवं अनुष्ठान से समृद्ध, दण्ड और नीति में कुशल तथा
अथर्वाङ्गिरस ( शान्त और घोर कर्म ) में प्रविष्ट ब्राह्मण को पुरोहित बनावे ॥
श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव चर्त्विजः ।
यज्ञांश्चैव प्रकुर्वीत विधिवद्द्वूरिदक्षिणान् ॥ ३१४ ॥
१. ततः परम् । २. हर्षविकारस्थाने विषादरहितान् । ३. च कुर्वीत ।
४. कर्मंसु पुरो निहितं ।

१४२ याज्ञवल्क्यस्मृतिः
श्रौताग्निहोत्रादि-स्मार्तोपासनादिक्रियानुष्ठानसिद्ध्यर्थं ऋत्विजो वृणुयात् ।
यज्ञांश्च राजसूयादीन् विधिवत् यथाविधानं भूरिदक्षिणान् बहुदक्षिणानैव
कुर्यात् ॥ ३१४ ॥
भाषा-(अग्निहोत्रादि) श्रौत एवं (उपासनादि) स्मार्त कर्मों का
अनुष्ठान कराने के लिए ऋत्विजों का वरण करे। विधिपूर्वक प्रचुर दक्षिणा
के साथ राजसूय आदि यज्ञ करे ॥ ३१४ ॥
भोगांश्च १दद्याद्विप्रेभ्यो वसूनि विविधानि च ।
अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥ ३१५ ॥
किंच, ब्राह्मणेभ्यो भोगान् सुखानि तत्साधनदानद्वारेण दद्यात् । वसूनि
च सुवर्णरूप्यभूप्रभृतीनि विविधानि नानाप्रकाराणि देयानि । यस्मादेष राज्ञा-
मक्षयो निधिः शेवधिर्यद् ब्राह्मणेभ्यो दीयते । साधारणधर्मत्वेन दानप्राप्तौ सत्यां
राज्ञां दानप्राधान्यप्रतिपादनार्थं पुनर्वचनम् ॥ ३१५ ॥
भाषा-ब्राह्मणों को भोग अर्थात् सुख और (सोना, चाँदी आदि)
अनेक प्रकार का धन प्रदान करे; क्योंकि राजा जो कुछ भी ब्राह्मणों को देते
हैं वह उनकी अक्षय सम्पत्ति हो जाता है ॥ ३१५ ॥
अस्कन्नमव्यथं चैव प्रायश्चित्तैरदूषितम् ।
अग्नेः सकाशाद्विप्राग्नौ हुतं श्रेष्ठमिहोच्यते ॥ ३१६ ॥
किंच, अग्नेः सकाशादग्निसाध्याद्भूरिदक्षिणाद्राजसूयादेरपि विप्राग्नौ हुतं
श्रेष्ठमिहोच्यते । यदेतदस्कन्नं क्षरणरहितं २अव्यथं पशुहिंसारहितं, प्रायश्चित्तैरदूषितं
३प्रायश्चित्तरहितम् ॥ ३१६ ॥
भाषा-अग्नि में हवन करने की अपेक्षा ब्राह्मण रूपी अग्नि में हवन
करना श्रेयस्कर है, क्योंकि वह (ब्राह्मण रूपी अग्नि में हवन दोषादि
की शङ्का से शून्य, पशुहिंसादि कष्ट से हीन और प्रायश्चित्त से अदूषित
होता है ॥ ३१६ ॥
'वसूनि विप्रेभ्यो दद्यात्' (आ० ३१५) इत्युक्तम्, कया परिपाट्या
दद्यादित्याह-
अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ ३१७ ॥
१. दत्त्वा विप्रेभ्यो । २. अव्ययं । ३. प्रायश्चित्तायासरहितं ।

आचाराध्यायः १४३
अलब्धलाभाय धर्मशास्त्रानुसारेण यतेत । यत्नेन लब्धं तत् परिपालयेत्
स्वयमवेक्ष्य रक्षेत् । पालितं ^१तत्परतया रक्षितं नीत्या ^२वणिक्पथादिकया
वृद्धिं नयेत् । वृद्धं च पात्रेषु त्रिविधेषु धर्मार्थकामयुक्तेषु निक्षिपेद्दद्यात् ॥ ३१७ ॥
भाषा-अप्राप्त लाभ की प्राप्ति के लिये ( धर्मानुसार ) प्रयत्न करना
चाहिए यत्न से प्राप्त वस्तु की रक्षा करना चाहिए । रक्षित वस्तु की नीतिपूर्वक
( वाणिज्यादि से ) वृद्धि करनी चाहिए और बढ़े हुए धनादि को ( धर्म अर्थ
और काम ) पात्रों में लगाना चाहिए ॥ ३१७ ॥
पात्रे निक्षिप्य किं कुर्यादित्याह-
दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु^३ कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥ ३१८ ॥
यथोक्तविधिना भूमिं दत्त्वा स्वत्वनिवृत्तिं कृत्वा निबन्धं वा एकस्य भाण्ड-
भरकस्येयन्तो रूपकाः, एकस्य पर्णभरकस्येयन्ति पर्णानीति वा निबन्धं कृत्वा
लेख्यं कारयेत् । किमर्थम् ? आगामिनः एष्यन्तो ये भद्राः साधवो नृपतयो
भूपास्तेषां 'अनेन दत्तम् , अनेन प्रतिगृहीतम्' इति परिज्ञानाय । पार्थिवो
भूपतिः । अनेन भूपतेरेव भूमिदाने निबन्धदाने वाऽधिकारो न भोगपतेरिति
दर्शितम् ॥ ३१८ ॥
भाषा-राजा भूमि देकर या उसका निर्धारण करके भविष्य के साधु-
वृत्ति वाले राजाओं के ज्ञान के लिये लिखवा दे ॥ ३१८ ॥
'लेख्यं कारयेत्' ( आ० ३१८ ) इत्युक्तं, कथं कारयेदित्याह-
पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।
अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥ ३१९ ॥
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् ॥ ३२० ॥
कार्पासिके पटे ताम्रपट्टे^४ ताम्रफलके वा आत्मनो वंश्यान् प्रपितामहपि-
तामहपितॄन् बहुवचनस्यार्थवत्त्वात् वंशवीर्यश्रुतादिगुणोपवर्णनपूर्वकमभिलेख्य
आत्मानं च शब्दात् प्रतिग्रहीतारं, प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनं चाभि-
लेख्य । प्रतिगृह्णात इति प्रतिग्रहो निबन्धस्तस्य रूपकादिपरिमाणम् । दीयत
इति दानं क्षेत्रादि तस्य छेदः छिद्यतेऽनेनेति छेदः ^५नद्याघाटौ ^६निवर्तनं तत्प-
१. तत्परतया रक्षेत् । २. वाणिज्यादिकया । ३. च । ४. पट्टे
फलके वा । ५. नद्याघाटौ । ६. निवर्त्तनंपरिमाणं च ।

१४४ याज्ञवल्क्यस्मृतिः
रिमाणं च तस्योपवर्णनं, 'अमुकनद्या दक्षिणतोऽयं ग्रामः क्षेत्रं वा, पूर्वतोऽमुक-
ग्रामस्य' एतावन्निवर्तनमित्यादिनिवर्तनपरिमाणं च लेख्यम् । एवं आघाटस्य
नदीनगरवर्त्मादेः संचारित्वेन भूमेर्न्यूनाधिकभावसंभवात्तन्निवृत्त्यर्थम्, स्वहस्तेन
स्वहस्तलिखितेन मतं मे अमुकनाम्नः अमुकपुत्रस्य यदत्रोपरि लिखितमित्यनेन
संपन्नं संयुक्तं, कालेन च द्विविधेन शकनृपातीतरूपेण संवत्सररूपेण च दानकालेन
चन्द्रसूर्योपरागादिना संपन्नं स्वमुद्रया गरुडवाराहादिरूपयोपरि बहिश्चिह्नितमङ्कितं
स्थिरं दृढं शासनं १शिष्यन्ते भविष्यन्तो नृपतयोऽनेन 'दानाच्छ्रेयोऽनुपालनम्'
इति शासनं कारयेत्, महीपतिर्न भोगपतिः । संधिविग्रहाधिकारिणा २येन
केनचिल्लेख्यम् ; 'संधिविग्रहकारी तु भवेद्यत्तस्य लेखकः । स्वयं राज्ञा समा
दिष्टः स लिखेद्राजशासनम् ॥' इति स्मरणात् । दानमात्रेणैव दानफले सिद्धे
शासनकरणं भोगाभिवृद्धया फलातिशयार्थम् ॥ ३१९-३२० ॥
भाषा—(कपास आदि के) वस्त्र पर या ताम्रपट्ट पर अपनी मुद्रा
(मुहर) अङ्कित करके राजा अपने वंश के पूर्वपुरुषों के नाम तथा अपना
नाम दान के वस्तु की मात्रा और (खेत आदि हो तो) चौहद्दी का विवरण
लिखावे और तब अपने हाथ से पितृनाम सहित अपना नाम एवं तिथि
लिखकर उस राजाज्ञा को पुष्ट (प्रामाणिक) बनावे ॥ ३१९-३२० ॥
इदानीं राज्ञो निवासस्थानमाह—
रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् ।
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥ ३२१ ॥
रम्यं रमणीयं अशोकचम्पकादिभिः । पशव्यं पशुभ्यो हितं पशुवृद्धिकरम् ।
आजीव्यमुपजीव्यं कन्दमूलपुष्पफलादिभिः । जाङ्गलं यद्यप्यल्पोदकतृणपर्वतो
देशो जाङ्गलस्तथाप्यत्र ३सजलतृणपर्वतो देशो 'जाङ्गल' शब्देनाभिधीयते । तं
देशमावसेदधिवसेत् । तत्रैवंविधे देशे जनानां कोशस्य सुवर्णादेरात्मनश्च
रक्षणार्थं दुर्गं कुर्वीत । तच्च षड्विधम् । यथाह मनुः ( ७।७० )—'धन्व-
दुर्गं महीदुर्गमब्दुर्गं वा वार्क्षमेव वा । नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत्पुरम् ॥'
इति ॥ ३२१ ॥
भाषा—रमणीक, पशुओं की (चारे आदि से) वृद्धि के योग्य जीवन-
निर्वाह में (कन्दमूल, पुष्प और फल से) सहायता देने वाले एवं वनप्राय
देश में निवास करें। उस स्थान पर परिजनों, कोश एवं अपनी रक्षा के लिये
दुर्ग बनवावे ॥ ३२१ ॥
१. शास्यन्ते । २. नान्येन ग; 'न येन केनचित्' । ३. समजल ।

आचाराध्यायः १५३
तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्छुचीन् ।
प्रकुर्यादायकर्मान्तव्ययकर्मसु चोद्यतान् ॥ ३२२ ॥
किंच, तत्र तत्र ¹धर्मार्थकामादिषु अध्यक्षान् योग्यानधिकारिणः प्रकुर्यान्नियु-
ञ्जीत । यथाहुः- 'धर्मकृत्येषु धर्मज्ञानर्थकृत्येषु पण्डितान् । स्त्रीषु क्लीबान्नियु-
ञ्जीत नीचांश्चिच्छ्रेषु कर्मसु ॥' इति । कीदृशान् ? निष्णातानन्यव्यापारान् ।
कुशलान् तत्तद्व्यापारचतुरान् , शुचीन् चतुर्विधोपधाशुद्धान् । आयकर्मसु
सुवर्णाद्युत्पत्तिस्थानेषु व्ययकर्मसु सुवर्णादिदानस्थानेषु च उद्यताननलसान् ।
चशब्दात्प्राज्ञत्वादिगुणयुक्तान् । उक्तं च-'प्राज्ञत्वमुपधाशुद्धिरप्रमादोऽभियुक्तता ।
कार्येषु व्यसनाभावः स्वामिभक्तिश्च योग्यता ॥' इति ॥ ३२२ ॥
भाषा-तत्तत (धर्म, अर्थ, काम आदि) कर्मों में, आयकर्म और व्यय
कर्म में योग्य, कार्यकुशल, पवित्र एवं कर्त्तव्यनिष्ठ अध्यक्षों को नियुक्त
करे ॥ ३२२ ॥
'भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च' (आ० ३१५) इति सामा-
न्येन स्वस्वदानमुक्तम्, इदानीं नृपाणां विक्रमार्जितस्य दाने फलातिशयमाह-
नातः परतरो धर्मो नृपाणां यद्रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ ३२३ ॥
अस्मादुत्कृष्टतमो धर्मो नृपाणां न विद्यते यद्रणार्जितं द्रव्यं विप्रेभ्यो
दीयते । यच्च प्रजाभ्योऽभयदानम् ॥ ३२३ ॥
भाषा-राजाओं के लिए इससे बढ़कर कोई धर्म नहीं है कि युद्ध में
अपहृत धन ब्राह्मणों को दान करें और अपनी प्रजाओं को अभयदान दें ॥३२३॥
'रणार्जितं देयम्' इत्युक्तं, द्रव्यार्जनाय रणे प्रवृत्तस्य विपत्तिरपि संभवतीति
'न धर्मो नाप्यर्थ इति ततो निवृत्तिरेव ²श्रेयसीत्यत आह-
य आहवेषु वध्यन्ते भूम्यर्थमपराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ ३२४ ॥
ये भूम्यर्थमाहवेषु प्रवृत्ता अपराङ्मुखा अभिमुखा वध्यन्ते मार्यन्ते
ते स्वर्गं यान्ति। योगाभ्यासरता यथा । यद्यकूटैरविषदिग्धादिभिरायुधैर्योद्धारो
भवन्ति ॥ ३२४ ॥
भाषा-जो भूमि के लिये युद्ध में सन्मुख लड़ते हुए अकूट (विष से
न बुझे हुए) हथियारों से मारे जाते हैं वे योगियों के समान (मृत्यु के
उपरान्त) स्वर्ग को जाते हैं ॥ ३२४ ॥
१. धर्मादिस्त्यादिषु । २. ज्यायसी ।
१० या०

[Header]
१४६ याज्ञवल्क्यस्मृतिः

पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् ।
राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ ३२५ ॥
किंच, स्ववलेषु करितुरगरथपदातिषु भग्नेष्वविनिवर्तिनां परबलाभिमुख-
यायिनां पदानि क्रतुतुल्यान्यश्वमेधतुल्यानि विपर्यये दोषमाह-विपला-
यिनां पराङ्मुखानां हतानां राजा सुकृतमादत्ते ॥ ३२५ ॥
भाषा—अपनी (हाथी, घोड़े, रथ, पैदल आदि) सेना के नष्ट हो जाने
पर भी शत्रु की सेना की ओर लड़ते हुए राजा के प्रत्येकपग यज्ञों के तुल्य होते
हैं (अर्थात् जितने पग जाता है उतने यज्ञों का फल पाता है) और वह
चोट खाकर पलायन करने वालों के शुभ कर्मों के पुण्य प्राप्त करता है ॥ ३२५ ॥

तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् ।
न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥ ३२६ ॥
अपि च, तवाहमिति यो वदति तं क्लीबं नपुंसकं निर्हेतिं निरायुधं
परसंगतमन्येन सह युद्ध्यमानं विनिवृत्तं युद्धाद्विनिवृत्तं युद्धप्रेक्षकं युद्ध-
दर्शिनं । 'न हन्यात्' इति सर्वत्र संबन्धः । 'आदि' ग्रहणादश्वसारथ्यादीनां ग्रह-
णम् । यथाह गौतमः ( १०।१७-१८)—'न दोषो हिंसायामाहवेऽन्यत्र
व्यश्वसारथ्यानायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढोन्मत्तदूतगो-
ब्राह्मणादिभ्यः' इति । शङ्खोऽप्याह—'न पानीयं पिबन्तं न भुञ्जानं नोपानहौ
मुञ्चन्तं नावर्माणि सवर्माणं न स्त्रियं न करेणुं न वाजिनं न सारथिनं न सुतं न
दूतं न ब्राह्मणं न राजानमराजा हन्यात्' इति ॥ ३२६ ॥
भाषा—'मैं तुम्हारा ही हूँ' ऐसा कहनेवाले, नपुंसक, शस्त्रहीन, दूसरे के
साथ युद्ध में संलग्न, (युद्ध से) निवृत्त और युद्ध देखने के लिये आये हुए
व्यक्ति को नहीं मारना चाहिए ॥ ३२६ ॥

कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् ।
व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ ३२७ ॥
कृतरक्षः पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातः काल उत्थाय स्वयमे-
वायव्ययौ पश्येत् । ततो व्यवहारान् दृष्ट्वा मध्याह्नकाले स्नात्वा कामतो
यथाकालं भुञ्जीत ॥ ३२७ ॥
भाषा—(पुर की और अपनी) रक्षा करके वह स्वयं आय और व्यय
का लेखा देखे, इसके बाद व्यवहार (वाद-मुकदमे) देखे और तब स्नान
करके समय से भोजन करे ॥ ३२७ ॥

आचाराध्यायः १४७
१हिरण्यं व्यापृतानीतं भाण्डागारेषु२ निक्षिपेत् ।
पश्येच्चचारांस्ततो दूतान्प्रेषयेन्मन्त्रिसंगतः ॥ ३२८ ॥
तदनन्तरं हिरण्यं व्यापृतैर्हिरण्याद्यानयननियुक्तैरानीतं स्वयमेव निरीक्ष्य
भाण्डागारेषु निक्षिपेत् । ततश्चारां३स्पशान्प्रत्यागतान् पश्येत् । ये परराज्ये
वृत्तान्तपरिज्ञानाय परिव्राजकतापसादिरूपेण गूढचारिणः प्रेषितास्ताँश्चारान्दृष्ट्वा
क्वचिन्निवेशयेत् । तदनन्तरं दूतांश्च पश्येत् । दूताश्च ये प्रकटमेव ४राज्यान्तरं-
प्रति गतागतमाचरन्ति । ते च त्रिविधाः-निसृष्टार्थाः, संदिष्टार्थाः, ५शासनह-
राश्चेति । तत्र निसृष्टार्था राजकार्याणि देशकालोचितानि स्वयमेव कथयितुं
क्षमाः, उक्तमात्रं ये परस्मै निवेदयन्ति ते संदिष्टार्थाः, शासनहरास्तु राजलेख-
हारिणः, तान्पूर्वप्रेषितानागतान्मन्त्रिसङ्गतः पश्येत् । दृष्ट्वा तद्वार्तामाकलय्य
पुनः पुनः प्रेषयेत् ॥ ३२८ ॥
भाषा-(स्वर्ण आदि लाने के लिए) नियुक्त व्यक्तियों द्वारा लाये गये
स्वर्ण को (देखकर) भण्डार में रखे; तब गुप्तचरों से बातें करे और फिर
मन्त्री के साथ बैठकर दूतों को निर्दिष्ट कार्य करने के लिये भेजे ॥ ३२८ ॥
ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ ३२९ ॥
तदनन्तरमपराह्ने स्वैरं यथेष्टमेकोऽन्तःपुरविहारी स्यात् । मन्त्रिभिर्वा
विश्वासिभिः कलाकुशलैः परिहासवेदिभिः परिवृतः स्त्रीभिश्च रूपयौवनवैदग्ध्य-
शालिनीभिः-'भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं
पुनः कार्याणि चिन्तयेत् ॥' इति (७।२२१) मनुस्मरणात् । ततो विशिष्ठै-
र्वस्त्रकुसुमविलेपनालंकृतः हस्त्यश्वरथपदातिबलानि दृष्ट्वा सेनान्या सेना-
पतिना सह तद्रक्षणादि देशकालोचितं चिन्तयेत् ॥ ३२९ ॥
भाषा-तब (अपराह्न में) इच्छानुसार (अन्तः पुर में) विहार करे
अथवा मन्त्रियों के साथ बैठे । पुनः अपनी सेनाओं का निरीक्षण करके सेना-
पतियों के साथ (देशकालोचित) विचार विमर्श करे ॥ ३२९ ॥
संध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् ।
गीतनृत्तैश्च६ भुञ्जीत पठेत्स्वाध्यायमेव च ॥ ३३० ॥
ततः सायंकाले संध्यामुपास्य, सामान्येन प्राप्तस्यापि पुनर्वचनं कार्याकुल-
त्वाद्विस्मरणार्थम् । अनन्तरं ये पूर्वदृष्टाः क्वचित्स्थाने निवेशितास्तेषां चाराणां
१. हिरण्यादिकं । २. गारे न्यसेत्ततः । ३. श्चारान्विश्वस्तान् ।
४. राज्यान्तं । ५. शासनहस्ताश्चेति । ६. नृत्तैश्च ।

१४८ याज्ञवल्क्यस्मृतिः
गूढभाषितमन्तर्वेश्मनि शस्त्रपाणिः शृणुयात् । उक्तं च मनुना (७।२२३) -
'संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनां
च चेष्टितम् ॥' इति । ततो नृत्यगीतादिभिः कंचित्कालं क्रीडित्वा कक्षान्तरं
प्रविश्य भुञ्जीत, 'गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्वोजनार्थं
च स्त्रीभिरन्तःपुरं सह ॥' इति (मनुः ७।२२४) स्मरणात् । ततोऽविस्मरणार्थं
यथाशक्ति स्वाध्यायं पठेत् ॥ ३३० ॥
भाषा-(सायंकाल) सन्ध्योपासना करके गुप्तचरों के रहस्यमय वचनों
को (अकेले बैठकर) सुने । तब गीत और नृत्य का आनन्द ले, भोजन करे
और स्वाध्याय का अध्ययन करे ॥ ३३० ॥
संविशेत्तूर्यघोषेण प्रतिबुद्ध्येत्तथैव च ।
शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकर्तव्यतास्तथा ॥ ३३१ ॥
तदनन्तरं तूर्यशङ्खघोषेण संविशेत्स्वप्यात् । तथैव तूर्यादिघोषेण
प्रतिबुद्ध्येत् । प्रतिबुद्ध्य च शास्त्रविद्भिर्विश्वासिभिः सह एकाकी वा पश्चिमे
यामे शास्त्राणि चिन्तयेत् सर्वकर्तव्यताश्च सर्वकार्याणि च । एतच्च स्वस्थं
प्रत्युच्यते । अस्वस्थः पुनः सर्वकार्येष्वन्यं नियोजयेत् । यथाह मनुः (७।२२५)
-'एतद्वृत्तं समातिष्ठेद्रेरोगः पृथिवीपतिः । अस्वस्थः सर्वमेवैतन्मन्त्रिसुख्ये
निवेशयेत् ॥' इति ॥ ३३१ ॥
भाषा-तदनन्तर तूर्य और शंख ध्वनि के साथ सोवे और इसी प्रकार
जागे । अपनी बुद्धि से शास्त्रों का और किये जाने वाले सभी कार्यों का
चिन्तन करे ॥ ३३१ ॥
प्रेषयेच्च ततश्चारान् स्वेष्वन्येषु च साँदरान् ।
ऋत्विक्पुरोहिताचार्यैराशीर्भिरभिनन्दितः ॥ ३३२ ॥
दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गां काञ्चनं महीम् ।
नैवेशिकानि च तँतः श्रोत्रियेभ्यो गृहाणि च ॥ ३३३ ॥
अनन्तरं तत्रस्थ एव विश्वस्तान्स्वान् चारान् दानमानसत्कारैः पूजितान्
स्वेषु सामन्ताधिकारिषु अन्येषु च महीपतिषु प्रेषयेत्तत्तच्चिकीर्षितपरिज्ञानाय ।
ततः प्रातः संध्यामुपास्याऽग्निहोत्रं हुत्वा पुरोहितर्त्विगाचार्यादिभिराशीर्भिरभि-
नन्दितो ज्योतिर्विदो दृष्ट्वा तेभ्यश्च ग्रहादिस्थितिं विदित्वा शान्तिकादीनि च
१. स्त्रीवृत्तोऽन्तःपुरं पुनः । २. एतद्विधान । ३. सर्वमेतन्तु भृत्येषु
विनियोजयेत ४. सादरम् । ५. न्दृष्ट्वाङ्गाः । ६. तथा श्रोत्रियाणां ।

·आचाराध्यायः १४६
पुरोहितायादिश्य वैद्यांश्च दृष्ट्वा तेभ्यश्च स्वशरीरस्थितिं निवेद्य प्रतिविधानं
चादिश्य गां दोग्ध्रीं काञ्चनं महीं च नैवेशिकानि विवाहोपयोगीनि कन्यालं-
कारादीनि गृहाणि च सुधावलितादीनि श्रोत्रियेभ्योऽधीतवेदेभ्यो ब्राह्मणेभ्यः ।
‘दद्यात्’ इति प्रत्येकं संबध्यते ॥ ३३२-३३३ ॥
भाषा—तब गुप्तचरों को आदर के साथ अपने मन्त्रियों आदि के निकट
अथवा दूसरे राजाओं के समीप भेजे । ( प्रातः सन्ध्या और अग्निहोत्र के
उपरान्त ) ऋत्विज्, पुरोहित और आचार्य से आशीर्वाद ग्रहण करे । ज्योतिषी
और वैद्य से मिले ( उनसे क्रमशः ग्रहस्थिति और शारीरिक स्वास्थ्य की जान-
कारी प्राप्त करे ), इसके बाद श्रोत्रिय ( वेदज्ञ ) ब्राह्मणों को दुधार गाय,
सोना, भूमि, विवाह योग्य अलंकारादि उपकरण और वासभवन का दान
करे ॥ ३३२-३३३ ॥
ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ ३३४ ॥
किंच, ब्राह्मणेष्वधिक्षिप्तस्वपि क्षमी क्षमावान् । स्निग्धेषु स्नेहवत्सु
मित्रादिष्वजिह्मः अवक्रः । अरिषु क्रोधनः । भृत्यवर्गेषु प्रजासु च हिताचरणेना-
हितनिवर्तनेन च पितेव दयावान् । 'स्यात्' इति प्रत्येकं संबध्यते ॥ ३३४ ॥
भाषा—राजा को ब्राह्मणों के प्रति क्षमाशील होना चाहिए ( मित्रादि )
अनुराग रखने वालों के प्रति सरल, शत्रुओं के प्रति क्रोधी तथा सेवकों एवं
प्रजा के प्रति पिता के समान ( दयावान् एवं हितकारी ) होना चाहिए ॥ ३३४ ॥
प्रजापालनफलमाह—
पुंण्यात्षड्भागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ॥ ३३५ ॥
यस्मान्न्यायेन शास्त्रोक्तमार्गेण प्रजाः परिपालयन् परिपालितप्रजोपहित-
पुण्यात् षड्भागं षष्ठं भागमादत्ते । यस्माच्च सर्वेभ्यो भूम्यादिदानेभ्यः प्रजानां
परिपालनमधिक्फलम् । तस्मात् ‘प्रजासु यथा पिता तथैव स्यात्’ इति
गतेन संबन्धः ॥ ३३५ ॥
भाषा—न्यायपूर्वक प्रजा का पालन करने पर राजा प्रजाओं के पुण्य का
छठंवा भाग प्राप्त करता है । अतएव भूमि आदि सभी प्रकार के दान से
उत्पन्न पुण्यफल से प्रजापालन का फल अधिक होता है ॥ ३३५ ॥
१. भृत्यवर्गे च । २. पुण्यषड्भाग । ३. धर्मशास्त्रोक्तेन ।