याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 203, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः १४७
१हिरण्यं व्यापृतानीतं भाण्डागारेषु२ निक्षिपेत् ।
पश्येच्चचारांस्ततो दूतान्प्रेषयेन्मन्त्रिसंगतः ॥ ३२८ ॥
तदनन्तरं हिरण्यं व्यापृतैर्हिरण्याद्यानयननियुक्तैरानीतं स्वयमेव निरीक्ष्य
भाण्डागारेषु निक्षिपेत् । ततश्चारां३स्पशान्प्रत्यागतान् पश्येत् । ये परराज्ये
वृत्तान्तपरिज्ञानाय परिव्राजकतापसादिरूपेण गूढचारिणः प्रेषितास्ताँश्चारान्दृष्ट्वा
क्वचिन्निवेशयेत् । तदनन्तरं दूतांश्च पश्येत् । दूताश्च ये प्रकटमेव ४राज्यान्तरं-
प्रति गतागतमाचरन्ति । ते च त्रिविधाः-निसृष्टार्थाः, संदिष्टार्थाः, ५शासनह-
राश्चेति । तत्र निसृष्टार्था राजकार्याणि देशकालोचितानि स्वयमेव कथयितुं
क्षमाः, उक्तमात्रं ये परस्मै निवेदयन्ति ते संदिष्टार्थाः, शासनहरास्तु राजलेख-
हारिणः, तान्पूर्वप्रेषितानागतान्मन्त्रिसङ्गतः पश्येत् । दृष्ट्वा तद्वार्तामाकलय्य
पुनः पुनः प्रेषयेत् ॥ ३२८ ॥
भाषा-(स्वर्ण आदि लाने के लिए) नियुक्त व्यक्तियों द्वारा लाये गये
स्वर्ण को (देखकर) भण्डार में रखे; तब गुप्तचरों से बातें करे और फिर
मन्त्री के साथ बैठकर दूतों को निर्दिष्ट कार्य करने के लिये भेजे ॥ ३२८ ॥
ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ ३२९ ॥
तदनन्तरमपराह्ने स्वैरं यथेष्टमेकोऽन्तःपुरविहारी स्यात् । मन्त्रिभिर्वा
विश्वासिभिः कलाकुशलैः परिहासवेदिभिः परिवृतः स्त्रीभिश्च रूपयौवनवैदग्ध्य-
शालिनीभिः-'भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं
पुनः कार्याणि चिन्तयेत् ॥' इति (७।२२१) मनुस्मरणात् । ततो विशिष्ठै-
र्वस्त्रकुसुमविलेपनालंकृतः हस्त्यश्वरथपदातिबलानि दृष्ट्वा सेनान्या सेना-
पतिना सह तद्रक्षणादि देशकालोचितं चिन्तयेत् ॥ ३२९ ॥
भाषा-तब (अपराह्न में) इच्छानुसार (अन्तः पुर में) विहार करे
अथवा मन्त्रियों के साथ बैठे । पुनः अपनी सेनाओं का निरीक्षण करके सेना-
पतियों के साथ (देशकालोचित) विचार विमर्श करे ॥ ३२९ ॥
संध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् ।
गीतनृत्तैश्च६ भुञ्जीत पठेत्स्वाध्यायमेव च ॥ ३३० ॥
ततः सायंकाले संध्यामुपास्य, सामान्येन प्राप्तस्यापि पुनर्वचनं कार्याकुल-
त्वाद्विस्मरणार्थम् । अनन्तरं ये पूर्वदृष्टाः क्वचित्स्थाने निवेशितास्तेषां चाराणां
१. हिरण्यादिकं । २. गारे न्यसेत्ततः । ३. श्चारान्विश्वस्तान् ।
४. राज्यान्तं । ५. शासनहस्ताश्चेति । ६. नृत्तैश्च ।