याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 194, कुल 782 में से
संदर्भ में पढ़ें१३८ याज्ञवल्क्यस्मृतिः
दक्षिणामाह—
धेनुः शङ्खस्तथानड्वान् हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः ॥ ३०६ ॥
धेनुर्दोग्ध्री, शङ्खः प्रसिद्धः, अनड्वान् भारसहो¹ बलीवर्दः, हेम सुवर्णम्,
वासः पीतम्, हयः पाण्डुरः, कृष्णा गौः, ²आयसं शस्त्रादि, छागप्रसिद्धः, एता
धेन्वादयो यथाक्रममादित्याद्युद्देशेन ब्राह्मणानां दक्षिणाः स्मृताः उक्ता मन्वा-
दिभिः । एतच्च संभवे सति, असंभवे तु यथालाभं शक्तितोऽन्यदेव यत्किं-
चिद्देयम् ॥ ३०६ ॥
भाषा—(दूध देने वाली) गाय, शंख, (भार ढोने वाला) बैल,
सोना, पीला वस्त्र, पाण्डुवर्ण का घोड़ा, काली गाय, लोहे के शस्त्र आदि
और बकरा—ये क्रमशः इन ग्रहों के लिये (ब्राह्मण की) दक्षिणा होते हैं ॥
'शान्तिकामेनःविशेषेण सर्वे ग्रहाः पूजयितव्याः' (आ० २९५) इत्युक्तं,
तत्र विशेषमाह—
यश्च यस्य यदा ³दुःस्थ स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ ३०७ ॥
यस्य पुरुषस्य यो ग्रहो यदा दुःस्थोऽष्टमादिदुष्टस्थानस्थितः स तं ग्रहं तदा
यत्नेन विशेषेण पूजयेत् । यस्मादेषां ग्रहाणां ब्रह्मणा पूर्वं वरो दत्तः 'पूजिताः
सन्तो यूयमिष्टप्रापणेनानिष्टसनेन च पूजयितारं पूजयिष्यथ' इति ॥ ३०७ ॥
भाषा—जिस पुरुष के लिए जो प्रतिकूल (अष्टम आदि स्थान में
स्थित) हो वह उस-उस ग्रह की विधिपूर्वक पूजा करे । ब्रह्मा ने इन्हें वर
दिया है कि तुम्हारी पूजा किये जाने पर तुम लोग पूजा करने वाले को
सुखी और प्रसन्न करोगे ॥ ३०७ ॥
अविशेषेण द्विजानधिकृत्य शान्तिकपौष्टिकादीनि कर्माण्यनुक्रान्तानि,
तत्राभिषेकँगुणयुक्तस्य राज्ञो विशेषेणाधिकार इति दर्शयति—
ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनानि च ।
भावाभावौ च जगतस्तस्मात्पूज्यत मा ग्रहाः ॥ ३०८ ॥
[ ग्रहाणामिदमातिथ्यं कुर्यात्संवत्सरादपि ।
आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् ॥ ]
१. भारवाही । २. आयसमस्त्रादि, आयसं ताम्रादि । ३. दुष्टो ।
४. भिषेकयुक्तस्य ।