याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 187, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः १३१
मितश्च संमितश्चैव तथा शालकटङ्कटौ ।
कूश्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः ॥ २८५ ॥
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।
मितसंमितादिभिर्विनायकस्य नामभिः स्वाहाकारान्तैः प्रणवादिभिः ‘जुहु-
यात्’ इति गतेन संबन्धः । स्वाहाकारयोगाच्चतुर्थी विभक्तिः । अतश्च ॐमिताय
स्वाहा, ॐ संमिताय स्वाहा, ॐ शालाय स्वाहा, ॐ कटङ्कटाय स्वाहा,
ॐकूश्माण्डाय स्वाहा, ॐ राजपुत्राय स्वाहेति षण्मन्त्रा भवन्ति । अनन्तरं
लौकिकेऽग्नौ स्थालीपाकविधिना चरुं श्रपयित्वा एतैरेव षड्भिर्मन्त्रैस्तस्मिन्नेवाग्नौ
हुत्वा तच्छेषं बलिमन्त्रैरिन्द्राग्नियमनिरृतिवरुणवायुसोमेशानब्रह्मानन्तानां
नामभिश्चतुर्थ्यन्तैर्नमोन्वितैस्तेभ्यो बलिं दद्यात् ॥ २८५ ॥
अनन्तरं किं कुर्यादित्याह³—
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥ २८६ ॥
कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।
मत्स्यान्यक्कांस्तथैवान्मांसमेतावदेव तु ॥ २८७ ॥
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ।
मूलकं पूरिकापूपांस्तथैवोण्डेरकजः ॥ २८८ ॥
दध्यन्नं पायसं चैव ⁷गुडपिष्टं समोदकम् ।
एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ॥ २८९ ॥
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।
कृताकृताद्युपहारद्रव्यजातं विनायकस्योपाहृत्य संनिधानात्तज्जनन्यश्च शिरसा
भूमिं गत्वा—‘तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात्’
इत्यनेन मन्त्रेण विनायकं, —‘सुभगायै विद्महे काममालिन्यै धीमहि । तन्नो गौरी
प्रचोदयात्’ इत्यनेनाम्बिकां च नमस्कुर्यात् । तत उपहारशेषमास्तीर्णकुशे
शूर्पे निधाय चतुष्पथे निदध्यात्—‘बलिं गृह्णन्त्विमे देवा आदित्या वस-
वस्तथा । मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥ असुरा यातुधानाश्च
९पिशाचोरगमातरः । शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ जृम्भकाः
१. शालकंटंकटः । २. कुष्मा (श्मा ?)ण्डराज । ३. दित्याह
दद्यादित्यादिचतुर्भिः । ४. स्तथा चामान् । ५. विविधा । ६. पुष्पं
तथैव । तथैवोण्डेरकस्त्रजम् । ७. गुडमिश्रं । ८. अपरार्कासंमतमिदमर्धम् ।
९. तताऽम्बिकाम् । १०. पिशाचा मातरोरगाः ।