विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
१८८ ॥ विष्णुस्मृतौ ९१ ॥
जलप्रदः सदा तृप्तो भवति । ३ । वृक्षारोपयितु-
र्वृक्षाः परलोके पुत्रा भवन्ति । ४ । वृक्षप्रदो वृक्षप्रसू-
नैर्देवान्प्रीणयति । ५ । फलैश्चातिथीन् । ६ । छायया
चाभ्यागतान् । ७ । दैवे वर्षत्युदकेन पितॄन् । ८ । सेतु-
कृत्स्वर्गमाप्नोति । ९ । देवायतनकारी यस्य देवस्या-
यतनं करोति तस्यैव लोकमाप्नोति । १० । सुधासिक्तं
कृत्वा यशसा विराजते । ११ । विचित्रं कृत्वा गन्धर्व-
लोकमाप्नोति । १२ । पुष्पप्रदानेन श्रीमान्भवति । १३ ।
अनुलेपनप्रदानेन कीर्त्तिमान्भवति । १४। दीपप्रदानेन
चक्षुष्मान्सर्वतोज्वलश्च । १५ । अन्नप्रदानेन बलवान्
। १६। देवनिर्माल्यापनयनाद्गोदानफलमाप्नोति । १७।
देवगृहमार्जनात्तदुपलेपनाद्ब्राह्मणोच्छिष्टमार्जनात्पाद-
शौचोदकल्पपरिचरणाच्च । १८ ।
XCI, 10. यस्य देवायतनं C¹,². 16. C¹,² add another Sûtra
here, धूपप्रदानेनोर्ध्वं गच्छति । 18. देवायतन० C¹,². पादादिशौचा-
दकल्पपरिचरणाच्च । C¹,²; ०कल्पपरिचारात् । V⁴. See the C.
3. तृषिताय जलदाता स्वर्गे युगशतं विटप्यारो भवेत् ।... 11. अन्य-
कृतमपि देवायतनं सुधयानुषिच्य यशस्वी भवति ॥ 12. यो देवायतनं
नीलपीतादिभिर्भित्तिश्चित्रयति सः... 18... तस्यैव गोमयादिनोपलेपनाद्विप्रो-
च्छिष्टपात्रं प्रक्षाल्य तत्क्षालनानुलेपनात्तस्यैव पादधावनाद्ग्लास्ये शुश्रूषा-
करणाच्च प्रत्येकं गोदानफलमाप्नोति ॥
॥ विष्णुस्मृतौ ९१ । ९२ ॥ १८९
कूपारामतडागेषु देवतायतनेषु च ।
पुनःसंस्कारकर्ता च लभते मौलिकं फलम् ॥ १९ ॥ ९१ ॥
सर्वदानाधिकमभयप्रदानम् । १ । तत्प्रदानेनाभी-
प्सितं लोकमाप्नोति । २ । भूमिप्रदानेन च । ३ ।
गोचर्ममात्रामपि भुवं प्रदाय सर्वपापेभ्यः पूतो भवति
। ४ । गोप्रदानेन स्वर्गलोकमाप्नोति । ५ । दशधेनुप्रदो
गोलोकान् । ६ । शतधेनुप्रदो ब्रह्मलोकान् । ७ । सुव-
र्णशृङ्गीं रौप्यखुरीं मुक्तालाङ्गूलां कांस्योपदोहां वस्त्रो-
त्तरीयां दत्त्वा धेनुरोमसंख्यानि वर्षाणि स्वर्गलोकमा-
प्नोति । ८ । विशेषतः कपिलाम् । ९ । दान्तं धुरंधरं
दत्त्वा दशधेनुप्रदो भवति । १० । अश्वदः सूर्यसालोक्य-
माप्नोति । ११ । वासोदश्चन्द्रसालोक्यम् । १२ । सुवर्ण-
दानेनाग्निसालोक्यम् । १३ । रूप्यदानेन रूपम् । १४ ।
तैजसानां पात्राणां प्रदानेन पात्रीभवति सर्वकामा-
XCII, 5. पात्रं भवेत् C¹,².
19. कूपादीनामुपहतानां यथावत्करणं पुनःसंस्कारः । तत्कर्ता मौलि-
कमाद्यकर्तुरेव फलं लभते ।... XCII, 1. चौरव्याघ्रादिभ्यो भीताना-
मभयदानम्... 7... नानाविधान्ब्रह्मलोकानाप्नोति ।... 10... दश-
धेनुदानफलमाप्नोति ।... 15. सुवर्णरूप्यादिपात्रदानेन धनपुत्रादिकामा-
नां पात्रं भवति ।...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
१६० ॥ विष्णुस्मृतौ ९२ ॥
नाम्। १५। घृतमधुतैलप्रदानेनारोग्यम्। १६। औ-
धप्रदानेन च। १७। लवणप्रदानेन च लावण्यम्। १८।
धान्यप्रदानेन तृप्तिम्। १९। सस्यप्रदानेन च। २०।
अन्नदः सर्वम्। २१। धान्यप्रदानेन सौभाग्यम्। २२।
तिलप्रदः प्रजामिष्टाम्। २३। इन्धनप्रदानेन दीप्ता-
ग्निर्भवति। २४। संग्रामे च सर्वजयमाप्नोति। २५।
आसनप्रदानेन स्थानम्। २६। शय्याप्रदानेन भार्याम्
। २७। उपानत्प्रदानेनाश्वतरीयुक्तं रथम्। २८। छत्र-
प्रदानेन स्वर्गम्। २९। तालवृन्तचामरप्रदानेनाध्व-
सुखित्वम्। ३०। वास्तुप्रदानेन नगराधिपत्यम्। ३१।
यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे।
तत्तद्गुणवते देयं तदेवाक्षय्यमिच्छता॥ ३२॥ ९२॥
16 om. C¹˒². After 22, C¹˒² insert the following clause,
which is really a quotation occurring in the C., अत्रोर्त्ति-
तानामन्येषां दानात्स्वर्गमवाप्नुयादिति। 25 om. V¹⁻³ C¹˒²; but
26 is marked २६ in V¹ ³.
17. औषधं रसक्वाथादि।.. 19. धान्यं वार्षिकं श्यामाकादि।..
20. सस्यानि हैमन्तिकवासन्तकानि.. 22. यान्यनुक्तानि धान्यानि
कुलत्थकोद्रवमण्डुकादीनि।.. 26.. राज्यस्थानमाप्नोति॥ 27..
पूर्वोक्तविधिना शय्यां दत्त्वोक्तलक्षणां भार्यां विन्देत।.. 30... ते दत्त्वा
मार्गे सुखी भवति।.. 31. वास्तु गृहं तद्दत्त्वा नगरप्रभुत्वमाप्नोति।..
32. यद्यस्य लोके प्रियं गृहेस्थस्य पुत्रदारादीनां वा यदभीष्टं तत्तदेवाक्षय्य-
मिदं मे ऽस्त्विति कामनया पात्रभूताय विप्राय देयम्॥
॥ विष्णुस्मृतौ ९३ ॥ १८१
अब्राह्मणे दत्तं तत्सममेव पारलौकिकम् । १ । द्वि-
गुणं ब्राह्मणब्रुवे । २ । सहस्रगुणं प्राधीते । ३ । अनन्तं
वेदपारगे । ४ । पुरोहितस्स्वात्मन एव पात्रम् । ५ ।
स्वसा दुहितृजामातरश्च । ६ ।
न वार्यपि प्रयच्छेत वैडालव्रतिके द्विजे ।
न बकव्रतिके विप्रे नावेदविदि धर्मवित् ॥ ७ ॥
धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः ।
वैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधिकः ॥ ८ ॥
अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्या विनीतश्च बकव्रतपरो द्विजः ॥ ९ ॥
ये बकव्रतिनो लोके ये च मार्जारलिङ्गिनः ।
ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥ १० ॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन्स्त्रीशूद्रदम्भनम् ॥ ११ ॥
XCIII, 6. दुहिता जामातारश्च पात्रम् । C¹, ². 7. पापे all.
See M. IV, 192. 9. नैष्कृतिकः V¹ (T. and C.)
XCIII, 1... तस्मिन्यावद्दत्तं तावदेव परलोक उपतिष्ठते ।... 3.
प्रकृष्टमधीतं यस्य यस्माद्वासौ प्राधीतः ।... 5. आत्मपुरोहित एव पात्रं
न परपुरोहितः ।... 6. स्वस्रादयोऽपि स्वस्यैव पात्रं न परस्य... 8...
हिंस्रो निर्दयः । सर्वद्रोग्धा सर्वाभिसंधिकश्च ।... 9... निकृतिः पर-
पीडनं तद्यस्यासौ तत्परो नैकृतिकः । यथा कथंचित्परपीडनेन स्वार्थसाधने
निरतः ।... 11. यः पापं कृत्वा तन्निमित्तं प्रायश्चित्तं धर्मापदेशेन धर्मव्या-
जेन करोति न प्रायश्चित्तव्यपदेशेन स तेन व्रतेन प्रायश्चित्तेन...
gitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgao
१६२ ॥ विष्णुस्मृतौ ९३ ॥ ९४ ॥
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १२ ॥
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
स लिङ्गिनां हरत्येनस्तिर्यग्योनौ प्रजायते ॥ १३ ॥
न दानं यशसे दद्यान्न भयान्नोपकारिणे ।
न नृत्यगीतशीलेभ्यो धर्मार्थमिति निश्चितम् ॥ १४ ॥ ९३ ॥
गृही वलीपलितदर्शने वनाश्रयो भवेत् । १ । अपत्यस्य
चापत्यदर्शने वा । २ । पुत्रेषु भार्यां निक्षिप्य तयानुग-
म्यमानो वा । ३ । तत्राप्यग्नीनुपचरेत् । ४ । अफाल-
कृष्टेन पञ्च यज्ञान्न हापयेत् । ५ । स्वाध्यायं च न
जह्यात् । ६ । ब्रह्मचर्यं पालयेत् । ७ । चर्मचीरवासाः
स्यात् । ८ । जटाश्मश्रुलोमनखांश्च बिभृयात् । ९ । त्रि-
षवणस्नायी स्यात् । १० । कपोतवृत्तिर्मासनिचयः
12. गृह्यते C1,2. चच द्वै C1,2; See M. IV, 199. 13. ॰वेषेण
C1,2. See M. IV, 200. XCIV, 2. ॰दर्शनेन. C1,2 XCV om. v.
13. न विद्यन्ते शिखासूत्रादीनि त्रैवर्णिकलिङ्गानि यस्यासावलिङ्गी ।...
वृत्तिं जीवनोपायमुपजीवति... 14. यशसे यशःकारिणे स्तावकाय ।
भयाद्वधकारिणे शत्रवे उपकारिणे मित्राय वृत्त्यर्थं नर्तनगानपरेभ्यश्च धर्म-
साधनं न दद्यात् ... XCIV, 9. जटाः शिरसि । श्मश्रु मुखे । लोमानि
कक्षोपस्थयोः । नखान्हस्तपादयोः ।... बिभृयात् ।
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
॥ विष्णुस्मृतौ ॥ ९४ । ९५ ॥ १९१
संवत्सरनिचयो वा ॥ ११ ॥ संवत्सरनिचयः पूर्वनिचित-
माश्वयुज्यां जह्यात् ॥ १२ ॥
ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन् ।
पुटेनैव पलाशेन पाणिना शकलेन वा ॥ १३ ॥ ९४ ॥
वानप्रस्थस्तपसा शरीरं शोषयेत् ॥ १ ॥ ग्रीष्मे पञ्च-
तपाः स्यात् ॥ २ ॥ आकाशशायी प्रावृषि ॥ ३ ॥ आर्द्र-
वासा हेमन्ते ॥ ४ ॥ नक्ताशी स्यात् ॥ ५ ॥ एकान्तर-
द्व्यन्तरत्र्यन्तराशी वा स्यात् ॥ ६ ॥ पुष्पाशी ॥ ७ ॥ फलाशी
॥ ८ ॥ शाकाशी ॥ ९ ॥ पर्णाशी ॥ १० ॥ मूलाशी ॥ ११ ॥
यवान्नं पक्षान्तयोर्वा सकृदश्नीयात् ॥ १२ ॥ चान्द्राय-
णैर्वा वर्तेत ॥ १३ ॥ अश्मकुट्टः ॥ १४ ॥ दन्तोलूखलिको
वा ॥ १५ ॥
तपोमूलमिदं सर्वं दैवमानुषकं जगत् ।
तपोमध्यं तपोऽन्तं च तपसा च तथा धृतम् ॥ १६ ॥
XCV, 16. देवमानुषजं $V^{1-4}$; दैवमानुजं $C^{1,2}$; दैविकस्य मानुषस्य
वा जगतः N. See M. XI, 235. दृतम् ॥ $C^{1,2}$.
13... पुटं पर्णद्रोणः । पलाशमस्यूतमेव पर्णम् । पाणिः पाशितलम् ।
शकलं घटादिकपालं तेन वाश्नीयात् ॥ XLV, 5. दिवाहृतस्यापि नक्ता-
मेव भोजनशीलः स्यात् ।... 6. एकं द्वे त्रीणि वा दिनान्यन्तरा त्यक्त्वा नक्तं
भुञ्जीत ।... 17. यद्दुश्चरं दुर्गेयं... यत्संकल्पितमपि बहुतरान्तराय सम्-
भावान्नावुमशक्यं यच्चासमानदेशकालतया दूरं यच्च दुःखतिसाध्यतया दुष्करं
तत्सर्वमपि तपसा साध्यते यतस्तपः फलस्यानतिक्रामानई न भवति ।...
25
१६४ ॥ विष्णुस्मृतौ ९५ । ९६ ॥
यद्दुश्वरं यद्दुरापं यद्दूरं यच्च दुष्करम् ।
सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम् ॥ १७॥ ९५ ॥
अथ त्रिष्वाश्रमेषु पक्वकषायः प्राजापत्यामिष्टिं कृत्वा
सर्वं वेदं दक्षिणां दत्त्वा प्रव्रज्याश्रमी स्यात् । १ । आ-
त्मन्यग्नीनारोप्य भिक्षार्थं ग्राममियात् । २ । सप्तागा-
रिकं भैक्षमद्यात् । ३ । अलाभे न व्यथेत । ४ । न
भिक्षुकं भिक्षेत । ५ । भुक्तवति जने अतीते पाचसंपाते
भैक्षमद्यात् । ६ । मृन्मये दारुपाचेऽलाबुपाचे वा
। ७ । तेषां च तस्याद्भिः शुद्धिः स्यात् । ८ । अभि-
पूजितलाभादुद्विजेत । ९ । शून्यागारनिकेतनः स्यात्
। १० । वृक्षमूलनिकेतनो वा । ११ । न ग्रामे द्वितीयां
राचिमावसेत् । १२ । कौपीनाच्छादनमात्रमेव वसन-
माद्यात् । १३ । दृष्टिपूतं न्यसेत्पादम् । १४ । वस्त्र-
पूतं जलमाद्यात् । १५ । सत्यपूतं वदेत् । १६ । मनः-
पूतमाचरेत् । १७ । मरणं नाभिकामयेत जीवितं च
XCVI, 5. भिक्षेत् । V¹⁻⁴.
XCVI, 1...सर्वं वेदं सर्वं धनम्... 2. भिक्षार्थमेव ग्रामं प्रविशे-
न्नान्यथा ॥ 4. सप्तानामपि मध्ये यत्र गृहे भिक्षा न लभ्यते तन्न...
6... अवशिष्टान्नाद्भैक्षं याचेत ।... 12. वर्षाभ्योऽन्यत्र ग्राम एकरात्रं
वसेत् ।... 15. वस्त्रेण पावितं जलं न गृह्णीयात्... 17. वैकल्पिकेषु सांश-
यिकेषु वा शुद्धादौ यत्र मनःप्रसादस्तदाचरेत् ॥ 18...चिरं जीवेय... इति ॥
॥ विष्णुस्मृतौ ९६ ॥ १६५
। १८ । अतिवादांस्तितिक्षेत । १९ । न कं च नाव-
मन्येत । २० । निराशीः स्यात् । २१ । निर्ममस्कारः । २२।
वास्यैकां तक्षतो बाहुं चन्दनेनैकमुक्षतः ।
नाकल्याणं न कल्याणं तयोरपि च चिन्तयेत् ॥ २३ ॥
प्राणायामधारणाध्याननित्यः स्यात् । २४ । संसार-
स्यानित्यतां पश्येत् । २५ । शरीरस्याशुचिभावम् । २६ ।
जरया रूपविपर्ययम् । २७ । शारीरमानसागन्तुकाव्या-
धिभिश्चोपतापम् । २८ । सहजैश्च । २९ । नित्यान्धकारे
गर्भे वसतिम् । ३० । मूत्रपुरीषमध्ये च । ३१ । शीतो-
ष्णदुःखानुभवनम् । ३२ । योनिसंकटनिर्गमान्महद्दुः-
खानुभवनम् । ३३ । बाल्ये मोहं गुरुपरवश्यताम् । ३४ ।
अध्ययनादनेकक्लेशम् । ३५ । यौवने च विषयाप्राप्ता-
वमार्गे तदवाप्तौ विषयसेवनान्नरके पतनम् । ३६ ।
36. तदप्राप्तौ V¹.
21. नमस्कृतो ऽप्याशिषं न प्रयुञ्जीत किंतु नारायणस्मरणं कुर्यात् । नमो
नारायणायेति गृहस्थः प्रणमेद्यतिम् । ब्रूयुर्नारायणेत्येवं यतयो ह्यभिवादिता
इति । भिक्षार्थमाशिषो न प्रयुञ्जीतेत्यन्ये ।... 22. नमस्कृतो न नमस्कुर्या-
त्किंतु नारायणं स्मरेदित्युक्तम् । भिक्षार्थं प्रणतिं न कुर्यादित्यन्ये ॥ 27...
विपर्ययो वलीपलिताद्यभिभवस्तं च पश्येदिति सर्वत्र संबन्धनीयम् ॥ 28.
शारीरा व्याधयोऽर्शप्लीहादयः । मानसा मनोविच्छेदादयः । आगन्तुका
वातपित्तोद्रेकादयः ।... 32. तत्र गर्भाशये मातृभुक्तपीतशीतोष्णान्नपानादि-
जन्यं शीतोष्णानुभवदुःखं च ॥ 34... गुरूणां मातापित्रादीनाम् ।...
35. तत उपनीतस्य वेदाध्ययने गुरुशुश्रूषाध्ययनावधानाद्यनेकक्लेशम् ॥
36. तारुण्ये पुनः स्रक्चन्दनवनितादिप्राप्तावेकैकविषयाप्राप्तावनेकक्लेशम् ।
तेषामेव विषयाणां निषेधातिक्रमेण प्राप्तानां सेवने नरकपातं च ।...
१८६ ॥ विष्णुस्मृतौ ९६ ॥
अप्रियैर्वसतिं प्रियैश्च विप्रयोगम् । ३७ । नरके च
सुमहद्दुःखम् । ३८ । संसारसंसृतौ तिर्यग्योनिषु च
। ३९ । एवमस्मिन्सततयायिनि संसारे न किंचित्सुखम्
। ४० । यदपि किंचिद्दुःखापेक्षया सुखसंज्ञं तदप्यनित्यम्
। ४१ । तत्सेवाशक्तावलाभेन वा महद्दुःखम् । ४२ ।
शरीरं चेदं सप्तधातुकं पश्येत् । ४३ । वसारुधिरमांस-
मेदोऽस्थिमज्जाशुक्रात्मकम् । ४४ । चर्मावनद्धम् । ४५ ।
दुर्गन्धि च । ४६ । मलायतनम् । ४७ । सुखशतैरपि
धृतं विकारि । ४८ । प्रयत्नाद्धृतमपि विनाशि । ४९ ।
कामक्रोधलोभमोहमदमात्सर्यस्थानम् । ५० । पृथिव्यप्ते-
जोवाय्वाकाशात्मकम् । ५१ । अस्थिशिराधमनिस्नायु-
युतम् । ५२ । रजस्वलम् । ५३ । षट्त्वचम् । ५४ । अस्थ्नां
त्रिभिः शतैः पञ्चाधिकैर्धार्यमाणम् । ५५ । तेषां विभागः
। ५६ । सूक्ष्मैः सह चतुःषष्टिर्दशनाः । ५७ । विंशतिर्नखाः
40. सुखम् om. C^{1,2}. 48. वृत्तं C^{1,2}. 54. षट् त्वक्चेति C^{1,2};
om. v.
37... प्रियैः पुत्रकलत्रादिभिश्च वियोगः॥ 41... यत्किंचिद्दुःखा-
भावापेक्षया सुखत्वेन व्यवह्रियते... 42. तेषां वैषयिकसुखानां रोगादिना
विषयसेवाशक्तौ शक्तावपि दारिद्र्येण विषयालाभे वा महदेव दुःखम् ॥
48. पानभोजनादिजन्यैः सुखशतैर्धृतमपि पानभोजनादिभिरेव विकारि ।
तत्तद्गुरुलघुभावेन श्लेष्माजीर्णादिदुःखशताकुलमित्यर्थः ॥ 49. रसायनादि-
प्रयत्नैर्धृतमपि... 57. सूक्ष्माणि दन्तमूलभूतान्यस्थीनि स्थालाख्यानि
द्वात्रिंशत्तावन्त एव तदुत्पन्ना दन्तास्तैः सह...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
tized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalg
॥ विष्णुस्मृतौ ९६ ॥ १८७
। ५८। पाणिपादशलाकाश्च । ५६। षष्ठिरङ्गुलीनां पर्वाणि
। ६० । द्वे पार्ष्ण्योः । ६१ । चतुष्टयं गुल्फेषु । ६२ ।
चत्वार्यरत्न्योः । ६३ । चत्वारि जङ्घयोः । ६४ । द्वे द्वे
जानुकपोलयोः । ६५ । ऊर्वंसयोः । ६६ । अक्षतालू-
षकश्रोणिफलकेषु । ६७। भगास्थ्येकम् । ६८ । पृष्ठास्थि
पञ्चचत्वारिंशद्भागम् । ६६। पञ्चदशास्थीनि ग्रीवा । ७०।
जत्र्वेकम् । ७१ । तथा हनुः । ७२ । तन्मूले च द्वे
। ७३ । द्वे ललाटाक्षिगण्डे । ७४ । नासा घनास्थिका
। ७५ । अर्बुदैः स्थालकैश्च सार्धं द्वासप्ततिः पार्श्वकाः
। ७६ । उरः सप्तदश । ७७ । द्वौ शङ्खकौ । ७८ ।
चत्वारि कपालानि शिरसश्चेति । ७६ । शरीरेऽस्मि-
न्सप्त शिराशतानि । ८० । नव स्नायुशतानि । ८१ ।
धमनीशते द्वे । ८२ । पञ्च पेशीशतानि । ८३ । क्षुद्र-
66. द्वे द्वे । C¹,²; om. v. 71. जान्वेकं । C¹,². 76. स्थानकैश्च
C¹,²v.
59. करपादयोः पृष्ठे शलाकाकाराण्यङ्गुलीमूलभूतानि विंशतिरेवास्थीनि ॥
60. प्रत्येकं विंशत्यङ्गुलीनां त्रीणि त्रीणि पर्वाणीत्येवं षष्टिः पर्वास्थीनि ॥
67. अक्षः कर्णनेत्रयोर्मध्यभवः शङ्खाधोभागः ।... 75. नासा नासिका
सा च घनसंज्ञैकास्थिमती ॥ 76. पार्श्वका वङ्क्रयः ।... तासां वक्षसि
संध्यस्थीन्यर्बुदान्युभयतो दश दशेति विंशतिः ।... तासामेव पृष्ठतः संध्य-
स्थीनि स्थालका उभयतस्त्रयोदश त्रयोदशेति षड्विंशतिः ।... 80... शि-
राणां वातपित्तादिवाहिनीनाम्... 82. धमन्यः प्राणवाहिन्यो नाड्यतासां
द्वे शते ॥ 83. बाह्याभ्यन्तराणां मांसपेशीनां पञ्च शतानि ॥
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
१६८ ॥ विष्णुस्मृतौ ९६ ॥
धमनीनामेकोनत्रिंशल्लक्षाणि नव शतानि षट्पञ्चा-
शद्धमन्यः। ८४। लक्षद्वयं श्मश्रुकेशकूपानाम्। ८५।
सप्तोत्तरं मर्मशतम्। ८६। संधिशते द्वे। ८७। चतुः-
पञ्चाशद्रोमकोट्यः सप्तषष्टिश्च लक्षाणि। ८८। नाभिरोजो
गुदं शुक्लं शोणितं शङ्कौ मूर्धा कण्ठो हृदयं चेति
प्राणायतनानि। ८९। बाहुद्वयं जङ्घाद्वयं मध्यं शीर्षमिति
षडङ्गानि। ९०। वसा वपा अवहननं नाभिः क्लोमा
यकृत्प्लीहा क्षुद्रान्त्रं वृक्कौ वस्तिः पुरीषाधानमामा-
शयो हृदयं स्थूलान्त्रं गुदमुदरं गुदकोष्ठम्। ९१। कनी-
निके अक्षिकूटे शष्कुली कर्णौ कर्णपुत्रकौ गण्डौ भ्रुवौ
91. क्लोम V¹⁻⁴v; क्लोमो C¹⁻²v; क्लोमा N. यकृत् om. V⁴.
वृक्कौ C¹⁻².
84. स्थूलधमनीनां शाखाः क्षुद्रधमन्यस्तासामपि प्रशाखा धमन्यः। ...
85. मुखस्थानि रोमाणि श्मश्रूणि। शिरोजाः केशाः। कूपा रोमकूपाः
स्वेदस्रवणे सुषिराणि। ... 86. मर्माणि मृत्युक्षोभहेतुस्थानानि। ...
88... रोम्णां सूक्ष्मतरा भागाः। ... 89... तत्स्वरूपमुक्तं स्मृत्यन्तरे।
हृदि तिष्ठति यच्छुद्धमीषद्रक्तं सपीतकम्। ओजः शरीरे संख्यातं
तन्नाशान्नाश्यतीति। शेषं प्रसिद्धम्। ... 91. आन्तराण्याह। ...
क्लोमा मांसपिण्डो यकृत्कालखण्डस्तौ च दक्षिणकुक्षिस्थौ। प्लीहा मांस-
पिण्डो ऽवहननं च सव्यकुक्षिस्थौ। ... वृक्कौ हृदयसमीपस्थौ मांस-
पिण्डौ। ... पुरीषाधानं मलाशयः। ... स्थूलान्त्रं दीर्घान्त्रम्। ... गुद-
कोष्ठं बाह्याद्गुदवलयादन्तर्गुदवलये द्वे। एकत्वं जात्यभिप्रायेण। एष
आन्तरो विस्तारः। अङ्गान्तराण्याह ॥
॥ विष्णुस्मृतौ ९६ ॥ १८६
शङ्खकौ दन्तवेष्टावोष्ठौ ककुन्दरे वंक्षणौ वृषणौ वृक्कौ
श्लेष्मसंघातकौ स्तनौ उपजिह्वा स्फिजौ बाहू जङ्घे ऊरू
पिण्डिके तालूदरं वस्तिशीर्षौ चुबुकं गलगुण्डिके अव-
टुश्चेत्यस्मिञ्शरीरे स्थानानि । ९२ । शब्दस्पर्शरूपरस-
गन्धाश्च विषयाः । ९३ । नासिका लोचनत्वग्जिह्वाश्रो-
त्रमिति बुद्धीन्द्रियाणि । ९४ । हस्तौ पादौ पायूपस्थं
जिह्वेति कर्मेन्द्रियाणि । ९५ । मनो बुद्धिरात्मा चाव्य-
क्तमितीन्द्रियातीताः । ९६ ।
इदं शरीरं वसुधे क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञमिति तद्विदः ॥ ९७ ॥
क्षेत्रज्ञमपि मां विद्धि सर्वक्षेत्रेषु भामिनि ।
क्षेत्रक्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ॥ ९८ ॥ ९६ ॥
92. अवट० C^{1,2}; चवद्ध v. शरीरके V^{1-3} C^{1,2}v. 98. क्षेत्रं
क्षेत्रज्ञ० V^2 C^{1,2}v. See Bhag. Gîtâ XIII, 2 (क्षेत्रक्षेत्रज्ञयो-
र्ज्ञानम्).
92... अक्षिकूटे पक्ष्माणी । नेत्रनासासंधी इत्यन्ये । शष्कुली कर्ण-
शष्कुली ।... वृक्कौ पूर्वोक्तावेव श्लेष्मसंघातप्रवृद्धौ । स्तनाविति स्त्रीणामुच्यते ।
इदमित्यमेव व्याख्येयमन्यथा बाह्याङ्गाभिधानप्रस्ताव अन्तरंगयोर्वृक्कयोः पुन-
रभिधानमसंगतं स्यात् ।... ऊरू जानूपरिभागौ । पिण्डिके जङ्घोर्ध्वमांसलौ
भागौ । ...वस्तिशीर्षौ वस्तेर्मूत्राशयस्य शीर्षोवुपरि स्थितौ नलौ ।... अवटु-
र्घाटा । ...यस्मिञ्शरीरे प्राणस्थानानि ।... 96... इन्द्रियागोचरत्वा-
च्छ्रुत्यनुमानादिगम्याः । 97... तद्यो ग्रहीतुं वक्तुं च जानाति तमात्मान-
मात्मविदो योगिनः क्षेत्रज्ञमित्याहुः ।... 98... सर्वेषु जरायुजाण्डज-
स्वेदजोद्भिज्जेषु क्षेत्रेषु मामेव क्षेत्रज्ञं जानीहि ।...
२०० ॥ विष्णुस्मृतौ ९७ ॥
ऊरुस्थोत्तानचरणः सव्ये करे करमितरं न्यस्य तालु-
स्थाचलजिह्वो दन्तैर्दन्तानसंस्पृशन्खं नासिकाग्रं पश्य-
न्दिशश्चानवलोकयन्विभोः प्रशान्तात्मा चतुर्विंशत्या त-
त्त्वैर्व्यतीतं चिन्तयेत् । १ । नित्यमतीन्द्रियमगुणं शब्द-
स्पर्शरूपरसगन्धातीतं सर्वज्ञमतिस्थूलं । २ । सर्वगमति-
सूक्ष्मं । ३ । सर्वतःपाणिपादं सर्वतोऽक्षिशिरोमुखं सर्व-
तःसर्वेन्द्रियशक्तिम् । ४ । एवं ध्यायेत् । ५ । ध्याननिर-
तस्य च संवत्सरेण योगाविर्भावो भवति । ६ । अथ
निराकारे लक्ष्यबन्धं कर्तुं न शक्नोति तदा पृथिव्यप्तेजो-
वाय्वाकाशमनोबुद्ध्यात्माव्यक्तपुरुषाणां पूर्वं पूर्वं ध्यात्वा
तत्र लब्धलक्षस्तत्तत्परित्यज्यापरमपरं ध्यायेत् । ७ । एवं
पुरुषध्यानमारभेत । ८ । अत्राप्यसमर्थः स्वहृदयपद्म-
XCII, 7. तच्चलक्षस्तत्तत्परित्यज्य V¹⁻³; तच्चलक्षस्तत्परित्यज्य C¹,²;
लब्धलक्ष्यं परित्यजेत् v; लब्धलक्षस्तत्परित्यज्य Ap.
XCVII, 1... तथोत्ताने सव्ये करे दक्षिणकरमुत्तानं न्यस्य... ।
पूर्वापरादिदिशश्च... अनवलोकयन् ।... 2. एतानि विशेषणानि पुरु-
षस्य व्यतिरेकिहेतुतया तत्त्वभेदप्रतिपादकानि ।... 3. सर्वगं व्यापकमति-
सूक्ष्मं निराकारम् ।... 4. सर्वतः सर्वस्मिन्नपि प्रदेशे पाणिपादाक्षि-
शिरोमुखैर्युक्तं तथा सर्वतः सर्वेष्वपि शब्दादिषु विषयेषु सर्वेषां चक्षुरा-
दीन्द्रियाणां शक्तिर्ग्रहणसामर्थ्यं यस्य तादृशमित्यर्थः ।... 7. यदा निरा-
कारे ब्रह्मणि लक्ष्याग्रे बन्धमन्तःकरणस्थैर्यं कर्तुं न शक्नोति तदा पृथि-
व्यादिपुरुषान्तानां दशानां मध्ये पूर्वस्मिन्पूर्वस्मिन्ध्यानपरिपाकेनान्तःकरण-
स्थैर्यविषयतामानीते तत्तत्परिहारेणापरमपरं अन्तःकरणस्थैर्यविषयतामान-
येत् ।...बुद्धिर्विज्ञानात्मकं महत्तत्त्वम् । आत्माऽहंकारः । अव्यक्तं प्रधानम् ।...
? Wait, look at प्राthen the next character: Is itञ्? Let's compare letter 2 in line 11 with ञ in line 12 (पञ्चविंशकम्): In line 12: प ञ्च विं श क म्. In पञ्च: the ञpart has a hook to the left, a horizontal connector to the vertical ofच. In line 11: wait, does line 11 have a connector? Wait, look at line 11 again very closely: प्रा Then: a letter with a vertical line on the right, and on the left, a loop... wait, is thatत्रा? Wait, could it be प्राप्तापररात्रेषु? No, look at प्रा... wait, could it be: प्रा चा प र रा त्रे षु? Wait, let's look at the character between प्राandचा: Wait, is it a single character or two? Let's count characters in line 11: प्रा(1) ? (2) चा? Or is it प्राthenया? Wait! Look at प्रा`:
Wait, is
२०२ ॥ विष्णुस्मृतौ ६७ ॥
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १७ ॥
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १८ ॥
अविभक्तं च भूतेन विभक्तमिव च स्थितम् ।
भूतभव्यभवद्रूपं ग्रसिष्णु प्रभविष्णु च ॥ १९ ॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् ॥ २० ॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ २१ ॥ ६७ ॥
भावेन ।... असक्तमिति पाठे प्रकृत्यादावासक्तिरहितम् । सर्वं भूतादिग्रामं
बिभर्तीति सर्वभृत् ।... निर्गुणं गुणैः सत्त्वादिभिः शून्यं गुणानां सत्त्वादि-
कार्याणां ज्ञानसुखादीनां भोक्तृ साक्षिभूतम् ।... 18. भूतानां प्राणिनां
बहिर्भोग्यरूपेणान्तर्भोक्तृरूपेण च स्थितम् । अचरं वृक्षशैलादिरूपम् । चरं
जलपवनादिरूपम् । सूक्ष्मत्वादप्रकारत्वान्जिज्ञासाया अप्यगोचरम् । दूरस्थं
बुद्ध्याद्यविषयम् ।... चान्तिके हृत्पद्ममध्ये स्थितम् ।... 19. भूतग्रामेष्वा-
विभक्तमात्यन्तिकभेदरहितं कार्याणां प्रतिभासिकभेदेन च भिन्नमिवाव-
भासमानम् । भूतमतीतकालं भव्यं भविष्यत्कालं भवद्वर्तमानकालं तेषां
समाहारे। भूतभव्यभवत्तद्रूपं जगतः ग्रसिष्णु संहारकं प्रभविष्णूत्पादकं
चेति विज्ञेयम् ॥ 20. ज्योतिषां चन्द्रसूर्यादीनां परप्रकाशकानामपि
ज्योतिः प्रकाशकम् ।... अत एव तमसोऽज्ञानात्परं तन्निवृत्तौ प्रकाश-
मानम् ।... ज्ञानं ज्ञानरूपं चिद्रूपत्वात् । तदेव च घटपटाद्याकारेण
ज्ञेयम् । ज्ञानगम्यं ज्ञायते तेनेति ज्ञानं योगस्तेन गम्यत इति ।...धिष्ठितं
अवस्थितम्... छान्दसोलोपात् ।... 21... ज्ञानं ज्ञायते तेनेति व्युत्पत्या
ज्ञानसाधनं योगः । ज्ञेयं...ब्रह्म ध्येयम् । एतच्च सर्वं मद्भक्तो विशेषेण ज्ञात्वा
मद्भक्तो मद्भावायोपपद्यते योग्यो भवतीति ॥
॥ विष्णुस्मृतौ ९८ ॥ २०३
इत्येवमुक्ता वसुमती जानुभ्यां शिरसा च नमस्कारं
कृत्वोवाच । १। भगवंस्त्वत्समीपे सततमेवं चत्वारि
महाभूतानि कृतालयान्याकाशः शङ्खरूपी वायुश्चक्र-
रूपी तेजश्च गदारूप्यम्भोऽम्भोरुहरूपि अहमप्यनेनैव
रूपेण भगवत्पादमध्ये परिवर्तनी भवितुमिच्छामि
। २ । इत्येवमुक्तो भगवांस्तथेत्युवाच । ३ । वसुधापि
लब्धकामा तथा चक्रे । ४ । देवदेवं च तुष्टाव । ५ । ओं
नमस्ते । ६ । देवदेव । ७ । वासुदेव । ८ । आदिदेव
। ९ । कामदेव । १० । कामपाल । ११ । महीपाल
। १२ । अनादिमध्यनिधन । १३ । प्रजापते । १४ ।
सुप्रजापते । १५ । महाप्रजापते । १६ । ऊर्जस्यते
XCVIII, 1. The older part of v ends with त्वत्. Two
leaves are added at the end, in large modern chara-
cters ; they contain a mere repetition of the last page
of the old MS. up to the end of XCVII. 11 om. C¹,².
XCVIII, 2. पञ्चानामपि महाभूतानां भगवदेकाधारतायामविशेषा-
दाकाशादीनां चतुर्णां शङ्खादिचतुष्टयरूपेण भगवद्व्यवस्थानसिद्धौ ममैव
किमिति वैलक्षण्यमिति तत्परिहाराय मयापि त्वय्येवावस्थेयमिति प्रार्थना ॥
4...पूर्णकामा पृथिव्यपि तथैवान्वतिष्ठत् ॥ 9. देवानामादिरित्यादिख्या-
नम्... 10. कामैरभिलाषैः सृष्टिस्थितिसंहारकैर्दीव्यतीति कामदेवः ।
धर्मादिचतुष्टयं वाञ्छद्भिः काम्यत इति कामः स चासौ देवश्चेति वा ॥
14. प्रजानां देवासुरमनुष्यादीनां पतिरन्तर्यामी ॥
२०१ ॥ विष्णुस्मृतौ ९८ ॥
। १७ । वाचस्पते । १८ । जगत्पते । १९ । दिवस्पते
। २० । वनस्पते । २१ । पयस्पते । २२ । पृथिवीपते
। २३ । सलिलपते । २४ । दिवपते । २५ । महत्पते
। २६ । मरुत्पते । २७ । लक्ष्मीपते । २८ । ब्रह्मरूप
। २९ । ब्राह्मणप्रिय । ३० । सर्वग । ३१ । अचिन्त्य
। ३२ । ज्ञानगम्य । ३३ । पुरुहूत । ३४ । पुरुष्टुत । ३५ ।
ब्रह्मराय । ३६ । ब्रह्मप्रिय । ३७ । ब्रह्मकायिक । ३८ ।
महाकायिक । ३९ । महाराजिक । ४० । चतुर्महा-
राजिक । ४१ । भास्वर । ४२ । महाभास्वर । ४३ ।
सप्त । ४४ । महाभाग । ४५ । स्वर । ४६ । तुषित
। ४७ । महातुषित । ४८ । प्रतर्द्दन । ४९ । परिनि-
र्भित । ५० । अपरिनिर्मित । ५१ । वशवर्तिन् । ५२ ।
19. जगतां... चलनादिक्रियाहेतुः ॥ 21... पतिः प्ररोचकः ॥ 22.
पयसो बालादिजीवनहेतोः स्तन्यस्य पतिः प्रवर्त्तकः ॥ 23. पृथियाः पतिः
बीजप्ररोहणशक्तिः ॥ 25. दिशां दिग्भागानां पतिः प्रागादिव्यवहारहेतुः ॥
26. महतो महत्तत्त्वस्य... 28. लक्ष्म्याः पतिः प्रदाता ॥ 29. ब्रह्मा
निर्वचनीयं रूपं यस्य ॥ 30. ब्राह्मणा वेदविदः प्रिया दयिता यस्य ।...
ब्राह्मणानां वा प्रियः ॥ 34. पुरुभिर्बहुभिर्यज्ञैर्हूत व्याहूतः ॥ 35. पुरु-
भिर्बहुभिर्वेदैः स्तुतः ॥ 37. वेदानां प्रियः । वेदाः प्रिया यस्येति वा ॥ 39.
अपरिच्छिन्नमूर्तिः ॥ 44... सप्तभक्तिकां साम... यद्वा सप्त लोका ऊर्ध्वमधश्च
यस्येत्यर्थादित्यादच् ॥ 47... तुषितो भक्तसमर्पितैः कर्मभिः ॥ 48.
धर्मव्यतिरेकेणापि नित्यतुष्टः ॥ 49. प्रलये सर्वलोकान्प्रकर्षेण तर्दति
हिनस्तीति वा ॥ 50. परितः प्रपञ्चाकारेण निर्मितः ॥ 51. ब्रह्मादिभिः ॥
52. भक्तानां वशे वर्तितुं शीलमस्य ॥
॥ विष्णुस्तवौ ८८ ॥ २०५
यज्ञ । ५३ । महायज्ञ । ५४ । यज्ञयोग । ५५ । यज्ञ-
गम्य । ५६ । यज्ञनिधन । ५७ । अजित । ५८ । वैकुण्ठ
। ५९ । अपार । ६० । पर । ६१ । पुराण । ६२ । लेख्य
। ६३ । प्रजाधर । ६४ । चित्रशिखण्डधर । ६५ । यज्ञ-
भागहर । ६६ । पुरोडाशहर । ६७ । विश्वेश्वर । ६८ ।
विश्वधर । ६९ । शुचिश्रवः । ७० । अच्युतार्चन । ७१ ।
घृतार्चिः । ७२ । खण्डपरशो । ७३ । पद्मनाभ । ७४ ।
पद्मधर । ७५ । पद्मधाराधर । ७६ । हृषीकेश । ७७ ।
एकशृङ्ग । ७८ । महावराह । ७९ । द्रुहिण । ८० ।
अच्युत । ८१ । अनन्त । ८२ । पुरुष । ८३ । महापु-
रुष । ८४ । कपिल । ८५ । सांख्याचार्य । ८६ । विष्व-
क्सेन । ८७ । धर्म । ८८ । धर्मद । ८९ । धर्माङ्ग । ९० ।
धर्मवसुप्रद । ९१ । वरप्रद । ९२ । विष्णो । ९३ ।
जिष्णो । ९४ । सहिष्णो । ९५ । कृष्ण । ९६ । पुण्ड-
68. विश्वक् C¹,².
53. यज्ञो वै विष्णुरिति श्रुतेः।.. 54. महान्यज्ञो यस्य देवा यज्ञ-
मतन्वतेत्यादि श्रुतिप्रसिद्धम् ॥ 57. यज्ञानां निधनं समाप्तिर्यस्मिन्सम्-
र्पणेन ।.. 61. मनोबुद्धीन्द्रियातीतः... 63. लेखेभ्यो देवेभ्यो हितः...
70. शुची श्रुत्याकर्णनशीले श्रवसी यस्येति । शुचीनि श्रवांसि नामानि
यस्येति वा ॥ 72. घृतेनार्चिस्तेजो यस्य ॥ 75. पद्मं करे धरतीति ॥
80. द्रुह्यत्यसुरेभ्यो धार्मिकेभ्यो ऽधार्मिकेभ्यो वेति द्रुहिणः॥ 84. महानपरि-
च्छिन्नः पुरुषः ॥ 85. कपिलो वर्तते नामतश्च महामुनिः ।...
An exact, line-by-line Markdown transcription of the page:
२०६ ॥ विष्णुस्मृतौ ९८ । ९९ ॥
रीकाक्ष । ९७ । नारायण । ९८ । परायण । ९९ ।
जगत्परायण । १०० । नमो नम इति । १०१ ।
स्तुत्वा त्वेवं प्रसन्नेन मनसा पृथिवी तदा ।
उवाच संमुखं देवीं लब्धकामा वसुंधरा ॥ १०२ ॥ ९८ ॥
दृष्ट्वा श्रियं देवदेवस्य विष्णो-
र्गृहीतपादां तपसा ज्वलन्तीम् ।
सुतप्तजाम्बूनदचारुवर्णां
पप्रच्छ देवीं वसुधा प्रहृष्टा ॥ १ ॥
उन्निद्रकोकनदचारुकरे वरेण्ये
उन्निद्रकोकनदनाभिगृहीतपादे ।
उन्निद्रकोकनदसद्मसदास्थितीते
उन्निद्रकोकनदमध्यसमानवर्णे ॥ २ ॥
नीलाञ्जनेत्रे तपनीयवर्णे
शुक्लाम्वरे रत्नविभूषिताङ्गि ।
102. देवं C$^{1,
॥ विष्णुस्मृतौ ९९ ॥ २०७
चन्द्रानने सूर्य्यसमानभासे
महाप्रभावे जगतः प्रधाने ॥ ३ ॥
त्वमेव निद्रा जगतः प्रधाना
लक्ष्मीर्धृतिः श्रीर्विरतिर्जया च ।
कान्तिः प्रभा कीर्तिरथो विभूतिः
सरस्वती वागथ पावनी च ॥ ४ ॥
स्वधा तितिक्षा वसुधा प्रतिष्ठा
स्थितिः सुदीक्षा च तथा सुनीतिः ।
ख्यातिर्विशाला च तथानसूया
स्वाहा च मेधा च तथैव बुद्धिः ॥ ५ ॥
आक्रम्य सर्वां तु यथा त्रिलोकीं
तिष्ठत्ययं देववरोऽसिताक्षि ।
6. ऽसिताङ्गि C¹'².
3... जगतो विश्वस्य प्रधाना प्रथमोद्देश्या प्रसवित्री प्रकृतिर्वेति ॥ 4.
जगतः चतुर्ष्वपि पुरुषार्थेषु प्रधाना मुख्योद्देश्या...मुक्तिः सुषुप्तिर्वा ।... विर-
तिर्मुमुक्षया विषयसुखेषु वैराग्यम् ।... कान्तिः स्त्रीपुरुषादिशरीरेषु सुन्द-
रता । प्रभा सूर्य्यचन्द्रमसोर्दीप्तिः ।... विभूतिर्धनधान्यादिसम्पद्धिः । सरस्वती
विदुषामर्थकल्पनाशक्तिः ।... पावनी प्रायश्चित्तादेः पापनाशनशक्तिस्त्वमेव ॥
5. स्वधा पितृतृप्तिः ।... वसुधा धनधारणशक्तिः ।... स्थितिः स्थानशक्तिः ।
सुदीक्षा यज्ञाधिकारसिद्धिः । सुनीतिः सामाद्युपायसिद्धिः । ख्यातिर्विशाला
सार्वजनीनी प्रसिद्धिः ।... स्वाहा देवतृप्तिः ।... 6. यथा त्रैलोक्यव्यापको
भगवांस्तथा तच्छक्तेस्तवापि त्रैलोक्यव्यापकत्वं सिद्धमेव शक्तिशक्तिमत्तोर-