सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 207, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 207

॥ विष्णुस्मृतौ ९६ ॥ १८६
शङ्खकौ दन्तवेष्टावोष्ठौ ककुन्दरे वंक्षणौ वृषणौ वृक्कौ
श्लेष्मसंघातकौ स्तनौ उपजिह्वा स्फिजौ बाहू जङ्घे ऊरू
पिण्डिके तालूदरं वस्तिशीर्षौ चुबुकं गलगुण्डिके अव-
टुश्चेत्यस्मिञ्शरीरे स्थानानि । ९२ । शब्दस्पर्शरूपरस-
गन्धाश्च विषयाः । ९३ । नासिका लोचनत्वग्जिह्वाश्रो-
त्रमिति बुद्धीन्द्रियाणि । ९४ । हस्तौ पादौ पायूपस्थं
जिह्वेति कर्मेन्द्रियाणि । ९५ । मनो बुद्धिरात्मा चाव्य-
क्तमितीन्द्रियातीताः । ९६ ।
इदं शरीरं वसुधे क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञमिति तद्विदः ॥ ९७ ॥
क्षेत्रज्ञमपि मां विद्धि सर्वक्षेत्रेषु भामिनि ।
क्षेत्रक्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ॥ ९८ ॥ ९६ ॥
92. अवट० C^{1,2}; चवद्ध v. शरीरके V^{1-3} C^{1,2}v. 98. क्षेत्रं
क्षेत्रज्ञ० V^2 C^{1,2}v. See Bhag. Gîtâ XIII, 2 (क्षेत्रक्षेत्रज्ञयो-
र्ज्ञानम्).
92... अक्षिकूटे पक्ष्माणी । नेत्रनासासंधी इत्यन्ये । शष्कुली कर्ण-
शष्कुली ।... वृक्कौ पूर्वोक्तावेव श्लेष्मसंघातप्रवृद्धौ । स्तनाविति स्त्रीणामुच्यते ।
इदमित्यमेव व्याख्येयमन्यथा बाह्याङ्गाभिधानप्रस्ताव अन्तरंगयोर्वृक्कयोः पुन-
रभिधानमसंगतं स्यात् ।... ऊरू जानूपरिभागौ । पिण्डिके जङ्घोर्ध्वमांसलौ
भागौ । ...वस्तिशीर्षौ वस्तेर्मूत्राशयस्य शीर्षोवुपरि स्थितौ नलौ ।... अवटु-
र्घाटा । ...यस्मिञ्शरीरे प्राणस्थानानि ।... 96... इन्द्रियागोचरत्वा-
च्छ्रुत्यनुमानादिगम्याः । 97... तद्यो ग्रहीतुं वक्तुं च जानाति तमात्मान-
मात्मविदो योगिनः क्षेत्रज्ञमित्याहुः ।... 98... सर्वेषु जरायुजाण्डज-
स्वेदजोद्भिज्जेषु क्षेत्रेषु मामेव क्षेत्रज्ञं जानीहि ।...