सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 204, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 204

१८६ ॥ विष्णुस्मृतौ ९६ ॥
अप्रियैर्वसतिं प्रियैश्च विप्रयोगम् । ३७ । नरके च
सुमहद्दुःखम् । ३८ । संसारसंसृतौ तिर्यग्योनिषु च
। ३९ । एवमस्मिन्सततयायिनि संसारे न किंचित्सुखम्
। ४० । यदपि किंचिद्दुःखापेक्षया सुखसंज्ञं तदप्यनित्यम्
। ४१ । तत्सेवाशक्तावलाभेन वा महद्दुःखम् । ४२ ।
शरीरं चेदं सप्तधातुकं पश्येत् । ४३ । वसारुधिरमांस-
मेदोऽस्थिमज्जाशुक्रात्मकम् । ४४ । चर्मावनद्धम् । ४५ ।
दुर्गन्धि च । ४६ । मलायतनम् । ४७ । सुखशतैरपि
धृतं विकारि । ४८ । प्रयत्नाद्धृतमपि विनाशि । ४९ ।
कामक्रोधलोभमोहमदमात्सर्यस्थानम् । ५० । पृथिव्यप्ते-
जोवाय्वाकाशात्मकम् । ५१ । अस्थिशिराधमनिस्नायु-
युतम् । ५२ । रजस्वलम् । ५३ । षट्त्वचम् । ५४ । अस्थ्नां
त्रिभिः शतैः पञ्चाधिकैर्धार्यमाणम् । ५५ । तेषां विभागः
। ५६ । सूक्ष्मैः सह चतुःषष्टिर्दशनाः । ५७ । विंशतिर्नखाः
40. सुखम् om. C^{1,2}. 48. वृत्तं C^{1,2}. 54. षट् त्वक्चेति C^{1,2};
om. v.
37... प्रियैः पुत्रकलत्रादिभिश्च वियोगः॥ 41... यत्किंचिद्दुःखा-
भावापेक्षया सुखत्वेन व्यवह्रियते... 42. तेषां वैषयिकसुखानां रोगादिना
विषयसेवाशक्तौ शक्तावपि दारिद्र्येण विषयालाभे वा महदेव दुःखम् ॥
48. पानभोजनादिजन्यैः सुखशतैर्धृतमपि पानभोजनादिभिरेव विकारि ।
तत्तद्गुरुलघुभावेन श्लेष्माजीर्णादिदुःखशताकुलमित्यर्थः ॥ 49. रसायनादि-
प्रयत्नैर्धृतमपि... 57. सूक्ष्माणि दन्तमूलभूतान्यस्थीनि स्थालाख्यानि
द्वात्रिंशत्तावन्त एव तदुत्पन्ना दन्तास्तैः सह...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry