सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 200, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 200

gitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgao
१६२ ॥ विष्णुस्मृतौ ९३ ॥ ९४ ॥
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १२ ॥
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
स लिङ्गिनां हरत्येनस्तिर्यग्योनौ प्रजायते ॥ १३ ॥
न दानं यशसे दद्यान्न भयान्नोपकारिणे ।
न नृत्यगीतशीलेभ्यो धर्मार्थमिति निश्चितम् ॥ १४ ॥ ९३ ॥
गृही वलीपलितदर्शने वनाश्रयो भवेत् । १ । अपत्यस्य
चापत्यदर्शने वा । २ । पुत्रेषु भार्यां निक्षिप्य तयानुग-
म्यमानो वा । ३ । तत्राप्यग्नीनुपचरेत् । ४ । अफाल-
कृष्टेन पञ्च यज्ञान्न हापयेत् । ५ । स्वाध्यायं च न
जह्यात् । ६ । ब्रह्मचर्यं पालयेत् । ७ । चर्मचीरवासाः
स्यात् । ८ । जटाश्मश्रुलोमनखांश्च बिभृयात् । ९ । त्रि-
षवणस्नायी स्यात् । १० । कपोतवृत्तिर्मासनिचयः
12. गृह्यते C1,2. चच द्वै C1,2; See M. IV, 199. 13. ॰वेषेण
C1,2. See M. IV, 200. XCIV, 2. ॰दर्शनेन. C1,2 XCV om. v.
13. न विद्यन्ते शिखासूत्रादीनि त्रैवर्णिकलिङ्गानि यस्यासावलिङ्गी ।...
वृत्तिं जीवनोपायमुपजीवति... 14. यशसे यशःकारिणे स्तावकाय ।
भयाद्वधकारिणे शत्रवे उपकारिणे मित्राय वृत्त्यर्थं नर्तनगानपरेभ्यश्च धर्म-
साधनं न दद्यात् ... XCIV, 9. जटाः शिरसि । श्मश्रु मुखे । लोमानि
कक्षोपस्थयोः । नखान्हस्तपादयोः ।... बिभृयात् ।
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry