सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 203, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 203

॥ विष्णुस्मृतौ ९६ ॥ १६५
। १८ । अतिवादांस्तितिक्षेत । १९ । न कं च नाव-
मन्येत । २० । निराशीः स्यात् । २१ । निर्ममस्कारः । २२।
वास्यैकां तक्षतो बाहुं चन्दनेनैकमुक्षतः ।
नाकल्याणं न कल्याणं तयोरपि च चिन्तयेत् ॥ २३ ॥
प्राणायामधारणाध्याननित्यः स्यात् । २४ । संसार-
स्यानित्यतां पश्येत् । २५ । शरीरस्याशुचिभावम् । २६ ।
जरया रूपविपर्ययम् । २७ । शारीरमानसागन्तुकाव्या-
धिभिश्चोपतापम् । २८ । सहजैश्च । २९ । नित्यान्धकारे
गर्भे वसतिम् । ३० । मूत्रपुरीषमध्ये च । ३१ । शीतो-
ष्णदुःखानुभवनम् । ३२ । योनिसंकटनिर्गमान्महद्दुः-
खानुभवनम् । ३३ । बाल्ये मोहं गुरुपरवश्यताम् । ३४ ।
अध्ययनादनेकक्लेशम् । ३५ । यौवने च विषयाप्राप्ता-
वमार्गे तदवाप्तौ विषयसेवनान्नरके पतनम् । ३६ ।
36. तदप्राप्तौ V¹.
21. नमस्कृतो ऽप्याशिषं न प्रयुञ्जीत किंतु नारायणस्मरणं कुर्यात् । नमो
नारायणायेति गृहस्थः प्रणमेद्यतिम् । ब्रूयुर्नारायणेत्येवं यतयो ह्यभिवादिता
इति । भिक्षार्थमाशिषो न प्रयुञ्जीतेत्यन्ये ।... 22. नमस्कृतो न नमस्कुर्या-
त्किंतु नारायणं स्मरेदित्युक्तम् । भिक्षार्थं प्रणतिं न कुर्यादित्यन्ये ॥ 27...
विपर्ययो वलीपलिताद्यभिभवस्तं च पश्येदिति सर्वत्र संबन्धनीयम् ॥ 28.
शारीरा व्याधयोऽर्शप्लीहादयः । मानसा मनोविच्छेदादयः । आगन्तुका
वातपित्तोद्रेकादयः ।... 32. तत्र गर्भाशये मातृभुक्तपीतशीतोष्णान्नपानादि-
जन्यं शीतोष्णानुभवदुःखं च ॥ 34... गुरूणां मातापित्रादीनाम् ।...
35. तत उपनीतस्य वेदाध्ययने गुरुशुश्रूषाध्ययनावधानाद्यनेकक्लेशम् ॥
36. तारुण्ये पुनः स्रक्चन्दनवनितादिप्राप्तावेकैकविषयाप्राप्तावनेकक्लेशम् ।
तेषामेव विषयाणां निषेधातिक्रमेण प्राप्तानां सेवने नरकपातं च ।...