सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 215, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 215

॥ विष्णुस्मृतौ ९९ ॥ २०७
चन्द्रानने सूर्य्यसमानभासे
महाप्रभावे जगतः प्रधाने ॥ ३ ॥
त्वमेव निद्रा जगतः प्रधाना
लक्ष्मीर्धृतिः श्रीर्विरतिर्जया च ।
कान्तिः प्रभा कीर्तिरथो विभूतिः
सरस्वती वागथ पावनी च ॥ ४ ॥
स्वधा तितिक्षा वसुधा प्रतिष्ठा
स्थितिः सुदीक्षा च तथा सुनीतिः ।
ख्यातिर्विशाला च तथानसूया
स्वाहा च मेधा च तथैव बुद्धिः ॥ ५ ॥
आक्रम्य सर्वां तु यथा त्रिलोकीं
तिष्ठत्ययं देववरोऽसिताक्षि ।
6. ऽसिताङ्गि C¹'².
3... जगतो विश्वस्य प्रधाना प्रथमोद्देश्या प्रसवित्री प्रकृतिर्वेति ॥ 4.
जगतः चतुर्ष्वपि पुरुषार्थेषु प्रधाना मुख्योद्देश्या...मुक्तिः सुषुप्तिर्वा ।... विर-
तिर्मुमुक्षया विषयसुखेषु वैराग्यम् ।... कान्तिः स्त्रीपुरुषादिशरीरेषु सुन्द-
रता । प्रभा सूर्य्यचन्द्रमसोर्दीप्तिः ।... विभूतिर्धनधान्यादिसम्पद्धिः । सरस्वती
विदुषामर्थकल्पनाशक्तिः ।... पावनी प्रायश्चित्तादेः पापनाशनशक्तिस्त्वमेव ॥
5. स्वधा पितृतृप्तिः ।... वसुधा धनधारणशक्तिः ।... स्थितिः स्थानशक्तिः ।
सुदीक्षा यज्ञाधिकारसिद्धिः । सुनीतिः सामाद्युपायसिद्धिः । ख्यातिर्विशाला
सार्वजनीनी प्रसिद्धिः ।... स्वाहा देवतृप्तिः ।... 6. यथा त्रैलोक्यव्यापको
भगवांस्तथा तच्छक्तेस्तवापि त्रैलोक्यव्यापकत्वं सिद्धमेव शक्तिशक्तिमत्तोर-