विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 197, कुल 392 में से
संदर्भ में पढ़ें॥ विष्णुस्मृतौ ९१ । ९२ ॥ १८९
कूपारामतडागेषु देवतायतनेषु च ।
पुनःसंस्कारकर्ता च लभते मौलिकं फलम् ॥ १९ ॥ ९१ ॥
सर्वदानाधिकमभयप्रदानम् । १ । तत्प्रदानेनाभी-
प्सितं लोकमाप्नोति । २ । भूमिप्रदानेन च । ३ ।
गोचर्ममात्रामपि भुवं प्रदाय सर्वपापेभ्यः पूतो भवति
। ४ । गोप्रदानेन स्वर्गलोकमाप्नोति । ५ । दशधेनुप्रदो
गोलोकान् । ६ । शतधेनुप्रदो ब्रह्मलोकान् । ७ । सुव-
र्णशृङ्गीं रौप्यखुरीं मुक्तालाङ्गूलां कांस्योपदोहां वस्त्रो-
त्तरीयां दत्त्वा धेनुरोमसंख्यानि वर्षाणि स्वर्गलोकमा-
प्नोति । ८ । विशेषतः कपिलाम् । ९ । दान्तं धुरंधरं
दत्त्वा दशधेनुप्रदो भवति । १० । अश्वदः सूर्यसालोक्य-
माप्नोति । ११ । वासोदश्चन्द्रसालोक्यम् । १२ । सुवर्ण-
दानेनाग्निसालोक्यम् । १३ । रूप्यदानेन रूपम् । १४ ।
तैजसानां पात्राणां प्रदानेन पात्रीभवति सर्वकामा-
XCII, 5. पात्रं भवेत् C¹,².
19. कूपादीनामुपहतानां यथावत्करणं पुनःसंस्कारः । तत्कर्ता मौलि-
कमाद्यकर्तुरेव फलं लभते ।... XCII, 1. चौरव्याघ्रादिभ्यो भीताना-
मभयदानम्... 7... नानाविधान्ब्रह्मलोकानाप्नोति ।... 10... दश-
धेनुदानफलमाप्नोति ।... 15. सुवर्णरूप्यादिपात्रदानेन धनपुत्रादिकामा-
नां पात्रं भवति ।...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry