सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 199, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 199

॥ विष्णुस्मृतौ ९३ ॥ १८१
अब्राह्मणे दत्तं तत्सममेव पारलौकिकम् । १ । द्वि-
गुणं ब्राह्मणब्रुवे । २ । सहस्रगुणं प्राधीते । ३ । अनन्तं
वेदपारगे । ४ । पुरोहितस्स्वात्मन एव पात्रम् । ५ ।
स्वसा दुहितृजामातरश्च । ६ ।
न वार्यपि प्रयच्छेत वैडालव्रतिके द्विजे ।
न बकव्रतिके विप्रे नावेदविदि धर्मवित् ॥ ७ ॥
धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः ।
वैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधिकः ॥ ८ ॥
अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्या विनीतश्च बकव्रतपरो द्विजः ॥ ९ ॥
ये बकव्रतिनो लोके ये च मार्जारलिङ्गिनः ।
ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥ १० ॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन्स्त्रीशूद्रदम्भनम् ॥ ११ ॥
XCIII, 6. दुहिता जामातारश्च पात्रम् । C¹, ². 7. पापे all.
See M. IV, 192. 9. नैष्कृतिकः V¹ (T. and C.)
XCIII, 1... तस्मिन्यावद्दत्तं तावदेव परलोक उपतिष्ठते ।... 3.
प्रकृष्टमधीतं यस्य यस्माद्वासौ प्राधीतः ।... 5. आत्मपुरोहित एव पात्रं
न परपुरोहितः ।... 6. स्वस्रादयोऽपि स्वस्यैव पात्रं न परस्य... 8...
हिंस्रो निर्दयः । सर्वद्रोग्धा सर्वाभिसंधिकश्च ।... 9... निकृतिः पर-
पीडनं तद्यस्यासौ तत्परो नैकृतिकः । यथा कथंचित्परपीडनेन स्वार्थसाधने
निरतः ।... 11. यः पापं कृत्वा तन्निमित्तं प्रायश्चित्तं धर्मापदेशेन धर्मव्या-
जेन करोति न प्रायश्चित्तव्यपदेशेन स तेन व्रतेन प्रायश्चित्तेन...