विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
१६४ ॥ विष्णुस्मृतौ ७३ ॥
क्रव्यादिति जपेत् । १५ । इतिहासपुराणधर्मशास्त्राणि
चेति । १६ । उच्छिष्टसंनिधौ दक्षिणाग्रेषु दर्भेषु पृथिवी
दर्वीरक्षतेत्येकं पिण्डं पित्रे निदध्यात् । १७ । अन्त-
रीक्षं दर्वीरक्षतेति द्वितीयं पितामहाय । १८ । द्यौर्दर्वि-
रक्षतेति तृतीयं प्रपितामहाय । १६ । येऽत्र पितरः
प्रेता इति वासो देयम् । २० । वीरान्नः पितरो धत्त
इत्यन्नम् । २१ । अत्र पितरो मादयध्वं यथाभागमावृ-
षायध्वमिति दर्भमूले करावघर्षणम् । २२। ऊर्जं वहन्ती-
रित्यनेन सोदकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वा
अर्घ्यपुष्पधूपालेपनान्नादिभक्ष्यभोज्यानि निवेदयेत् ।२३।
उदकपात्रं मधुघृततिलैः संयुक्तं च । २४ । भुक्तवत्सु
ब्राह्मणेषु तृप्तिमागतेषु मा मे क्षेष्टेत्यन्नं सतृणमभ्युक्ष्या-
न्नविकिरमुच्छिष्टायतः कृत्वा तृप्ता भवन्तः संपन्नमिति
पृष्टोदङ्मुखेष्वाचमनमादौ दत्त्वा ततः प्राङ्मुखेषु दत्त्वा
22. करावधर्षणं C¹,². 23. विकिरणां सेचनं ... च निवेदयेत् । C¹,²
24. उदकपात्रं च C¹,².
20... पिण्डोपरि वस्त्रं दद्यात् ॥ 22... पिण्डाधःस्थितदर्भमूले कर-
लेपावघर्षणं कुर्यात् ॥ 23... सोदकेन पिण्डशेषेण... विकिरणं सेचनं
गन्धादींश्च भोज्यान्तान्निवेदयेत् ॥ 24... चकारादञ्जनाभ्यञ्जनादी-
नि ।... 25... श्राद्धशेषमन्नं सतृणं कुशसहितं जलेनाभ्युक्ष्य तस्यान्नस्य
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
॥ विष्णुस्मृतौ ७३ ॥ १६५
ततश्च सुप्रोक्षितमिति श्राद्धदेशं संप्रोक्ष्य दर्भपाणिः सर्वं
कुर्यात् । २५ । ततः प्राङ्मुखाग्रतो यन्मे राम इति प्रद्-
क्षिणं कृत्वा प्रत्येत्य च यथाशक्ति दक्षिणाभिः समभ्य-
र्च्याभिरमन्तु भवन्त इत्युक्त्वा तैरूक्तोऽभिरताः स्म इति
देवाश्च पितरश्चेत्यभिजपेत् । २६। अक्षय्योदकं च नाम-
गोत्राभ्यां दत्त्वा विश्वे देवाः प्रीयन्तामिति प्राङ्मुखेभ्य-
स्ततः प्राञ्जलिरिदं तन्मनाः सुमना याचेत । २७ ।
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ २८॥
तथास्त्विति ब्रूयुः । २९ ।
अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नः सन्तु मा च याचिष्म कं च न ॥ ३०॥
इत्येताभ्यामाशिषः प्रतिगृह्य । ३१ ।
ब्राह्मणोच्छिष्टायतौ विकिरणं कृत्वा... श्राद्धदेशं प्रोक्षेत्। इदं च सर्वं
दर्भपाणिना कार्यम् ॥ २५. रामः काकः (Dev., Kâṭhakagṛihya-
bhâshya)... 27. यद्दत्तमन्नोदकादि तदक्षय्यमस्त्विति दैवे पित्र्ये च
नामगोत्राभ्यामुदकं दत्त्वा विश्वे देवाः प्रीयन्तामिति दैवे चोदकं दत्त्वा...
आशिषो याचेत । ता एवाह ॥ 28. नो ऽस्माकं कुले दातारो दानशीलाः
पुरुषा वेदाध्ययनाध्यापनाविच्छेदेन वर्धन्तां संततिश्च पुत्रपौत्रपरंपरा
वर्धताम्। ... देयं चान्नपानाद्यस्माकं कुले बहुलमस्त्विति याचेत ॥ 29.
ते च याचितास्तथास्त्विति प्रतिब्रूयुः ॥ 31. इ. युक्ताभ्यां... उ. न्नाभ्यामुक्ता
आशिषस्तथास्त्विति प्रतिवचनेन प्रतिगृह्य विप्रान्विसर्जयेत् ॥
१६६ ॥ विष्णुस्मृतौ ७३ ॥ ७४ । ७५ ॥
वाजे वाज इति ततो ब्राह्मणांश्च विसर्जयेत् ।
पूजयित्वा यथान्यायमनुव्रज्याभिवाद्य च ॥ ३२ ॥ ७३ ॥
अष्टकासु दैवपूर्वं शाकमांसापूपैः श्राद्धं कृत्वा न्वन्द-
ष्टकास्वष्टकावद्धौ दैवपूर्वमेवं हुत्व मात्रे पितामह्यै
प्रपितामह्यै च पूर्ववद्ब्राह्मणान्भोजयित्वा दक्षिणाभि-
श्चाभ्यर्च्यानुव्रज्य विसर्जयेत् । १ । ततः कर्षूः कुर्यात्
। २। तन्मूले प्रागुदगग्न्युपसमाधानं कृत्वा पिण्डनिर्वप-
णम् । ३ । कर्षूचयमूले पुरुषाणां कर्षू त्रयमूले स्त्रीणाम्
। ४ । पुरुषकर्षूत्रयं सान्नेनोदकेन पूरयेत् । ५ । स्त्रीक-
र्षूत्रयं सान्नेन पयसा । ६ । दध्ना मांसेन पयसा प्रत्येकं
कर्षूत्रयम् । ७ । पूरयित्वा जपेदेतद्वोऽह्यो भवतीभ्योऽस्तु
चाक्षयम् । ८ ॥ ७४ ॥
पितरि जीवति यः श्राद्धं कुर्यात्स येषां पिता कुर्या-
LXXIV, 1. कृत्वा om. C^{1,2}. कृत्वान्वष्टकावदग्निं कृत्वा दैवपूर्वं
मात्रे v. 8. एतद्वोऽह्यो om. C^{1,2}v. See the Kâth. Gṛihyas.
32... ष्ठा सीमान्तमनुव्रज्य... LXXIv, 1... यथाश्रामं शाक-
मांसापूपैः ।... यथोक्तविधिना श्राद्धं कृत्वा परेद्युरन्वष्टकास्वष्टकावद्यस्या-
मष्टकायां येन पक्वेन होमस्तेनैवान्वष्टकास्वपि होमः ।... 8. एवं नवापि
कर्षूस्तत्तद्द्रव्येण पूरयित्वा एतद्वोऽह्य इत्यादि मन्त्रं जपेत् ॥
॥ विष्णुस्मृतौ ७५ ॥ १६७
त्तेषां कुर्यात् । १ । पितरि पितामहे च जीवति येषां
पितामहः । २ । पितरि पितामहे प्रपितामहे च जीव-
ति नैव कुर्यात् । ३ । यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं
निधाय पितामहात्परं द्वाभ्यां दद्यात् । ४ । यस्य पिता
पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पिता-
महप्रपितामहाय दद्यात् । ५ । यस्य पितामहः प्रेतः
स्यात्स तस्मै पिण्डं निधाय प्रपितामहात्परं द्वाभ्यां
दद्यात् । ६ ।
मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः ।
मन्त्रोहेण यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ ७ ॥ ७५ ॥
LXXV, 2. C¹,² add कुर्यात्तेषां पिता कुर्यात् । From the C.
3. त्रिषु जीवत्सु नैव कुर्यात् । C¹,². From the C. 4. प्रपितामहात्
C¹,² पूर्वं for परं v. 5, 6 om. v. 6. यस्य-पिण्डं om. V¹⁻³.
स्यात् om. V⁴. After 6, C¹,² add the following Sûtra, यस्य
पिता प्रपितामहश्च प्रेतौ स्यातां स पित्रे पिण्डं निधाय पितामहात्परं
द्वाभ्यां दद्यात् । See Sûtra 4.
LXXV, 3... पित्रादिषु त्रिषु जीवत्सु श्राद्धमेव न कुर्यात् ॥ 4.
मृतपितृको जीवत्पितामहकश्च पितृपिण्डं दत्त्वा प्रपितामहवृद्धप्रपितामहाभ्यां
पिण्डं दद्यात् ।... 6. यः जीवत्पितृप्रपितामहकः स पितामहपिण्डं दत्त्वा
वृद्धप्रपितामहतत्पितृभ्यः पिण्डं दद्यात् ।... 7... तत्र मातामहे जीवति
तत्पित्रादिभ्य एव ।... यथान्यायं प्रथमान्ते प्रथमान्तं द्वितीयान्ते द्वितीयान्त-
मित्यादि प्रकारेण मातामहशब्दस्योहेन कार्यम् ।... शेषाणां पितृव्यमा-
तुलभ्रात्रादीनां श्राद्धममन्त्रकमेव पिष्टपदवन्मन्त्ररहितमेव कुर्यात् ।...
१६८ ॥ विष्णुस्मृतौ ७६ । ७७ । ७८ ॥
अमावास्यास्तिस्रोऽष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्ठ-
पद्यूर्ध्वं कृष्णत्रयोदशी व्रीहियवपाकौ चेति । १ ।
एतांस्तु श्राद्धकालान्वै नित्यानाह प्रजापतिः ।
श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते ॥ २ ॥ ७६ ॥
आदित्यसंक्रमणम् । १ । विषुवद्वयम् । २ । विशेषे-
णायनद्वयम् । ३ । व्यतीपातः । ४ । जन्मर्क्षम् । ५ । अभ्यु-
दयश्च । ६ ।
एतांस्तु श्राद्धकालान्वै काम्यानाह प्रजापतिः ।
श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पते ॥ ७ ॥
संध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः ।
तयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ॥ ८ ॥
राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् ।
गुणवत्सर्वकामीयं पितॄणामुपतिष्ठते ॥ ६ ॥ ७७ ॥
सततमादित्येऽह्नि श्राद्धं कुर्वन्नारोग्यमाप्नोति । १ ।
सौभाग्यं चान्द्रे । २ । समरविजयं कौजे । ३ । सर्वान्का-
LXXVI, 1... व्रीहिपाकः शरत् । यवपाको वसन्तः ।...
LXXVII, 5. आत्मनः पुत्रस्य भार्यायाश्च जन्मनक्षत्रम् ।... 6.
अभ्युदयः पुत्रजन्मादिः ।... 6... तत्र दत्तं श्राद्धं पितॄणां यावच्चन्द्रतार-
कावस्थानमुपतिष्ठते कर्तुश्च सर्वगुणातिशयवत्सर्वकामसाधनं भवतीति ॥
LXXVIII, 1. आदित्यवारे श्राद्धं सार्वकालिकारोग्यहेतुः ॥ 2. चन्द्र-
वारे सौभाग्यं जनप्रियत्वम् ॥
॥ विष्णुस्मृतौ ७८ ॥ १६६
मान्बोधे । ४ । विद्यामभीष्टां जैवे । ५ । धनं शौक्रे । ६ ।
जीवितं शनैश्चरे । ७ । स्वर्गं कृत्तिकासु । ८ । अपत्यं
रोहिणीषु । ९ । ब्रह्मवर्चस्यं सौम्ये । १० । कर्मसिद्धिं
रौद्रे । ११ । भुवं पुनर्वसौ । १२ । पुष्टिं पुष्ये । १३ ।
श्रियं सार्पे । १४ । सर्वान्कामान्पैत्ये । १५ । सौभाग्यं
भाग्ये । १६ । धनमार्यमणे । १७ । ज्ञातिश्रैष्ठ्यं हस्ते
। १८ । रूपवतः सुतांस्त्वाष्ट्रे । १९ । वाणिज्यसिद्धिं स्वातौ
। २० । कनकं विशाखासु । २१ । मित्राणि मैत्रे । २२ ।
राज्यं शाक्रे । २३ । कृषिं मूले । २४ । समुद्रयानसिद्धि-
माप्ये । २५ । सर्वान्कामान्वैश्वदेवे । २६ । श्रैष्ठ्यमभि-
जिति । २७ । सर्वान्कामाञ्छ्रवणे । २८ । लवणं वासवे
। २९ । आरोग्यं वारुणे । ३० । कुप्यद्रव्यमाजे । ३१ ।
गृहमाहिर्बुध्ने । ३२ । गाः पौष्णे । ३३ । तुरङ्गमा-
श्विने । ३४ । जीवितं याम्ये । ३५ । गृहं सुरूपाः स्त्रियः
प्रतिपदि । ३६ । कन्यां वरदां द्वितीयायाम् । ३७ ।
LXXVIII, 5. जीवे C^{1,2}v. 10. ब्रह्मवर्चः v. 14. सर्पे C^{1,2}.
15. पैत्रे C^{1,2}. 25—53 om. v.
10. सौम्यं मृगशिरः । तस्मिन्ब्रह्मवर्चस्यं ब्रह्मतेजः । ओजो वा ॥ 11.
कर्मणामैहिकानां सिद्धिः फलप्राप्तिः । शौर्यं वा । रौद्रमार्ड्रा ॥ 14. सार्प-
माश्लेषास्तत्र शोभाम्... 18. ज्ञातिषु सपिण्डेषु ज्ञातिश्रैष्ठत्वम् ॥ 29...
लवणं लवणक्रियासिद्धिः ।... 37. वरदामभीष्टप्रदाम् । कन्यां जामातृंच ॥
22
१७० ॥ विष्णुस्मृतौ ७८ । ७६ ॥
सर्वान्कामांस्तृतीयायाम् । ३८ । पशूंश्चतुर्थ्याम् । ३६ ।
सुरूपान्सुतान् पञ्चम्याम् । ४० । द्यूतविजयं षष्ठ्याम्
। ४१ । कृषिं सप्तम्याम् । ४२ । वाणिज्यमष्टम्याम् । ४३ ।
पशूनन्नवम्याम् । ४४ । वाजिनो दशम्याम् । ४५ । ब्रह्म-
वर्चस्विनः पुत्रानेकादश्याम् । ४६ । कनकरजतं द्वाद-
श्याम् । ४७ । सौभाग्यं त्रयोदश्याम् । ४८ । सर्वका-
मान्पञ्चदश्याम् । ४६ । शस्त्रहतानां श्राद्धकर्मणि चतु-
र्दशी शस्ता । ५० । अपि पितृगीते गाथे भवतः । ५१ ।
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
प्रावृट्काले ऽसिते पक्षे त्रयोदश्यां समाहितः ॥ ५२ ॥
मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् ।
॥ विष्णुस्मृतौ ७६ ॥ १७९
कुशाभावे कुशस्थाने काशान्दूर्वां वा दद्यात् । २ । वासो-
ऽर्थे कार्पासोत्थं सूत्रम् । ३ । दशां विवर्जयेद्यद्यप्यहत-
वस्त्रजा स्यात् । ४ । उग्रगन्धीन्यगन्धीनि कण्टकिजानि
रक्तानि च पुष्पाणि । ५ । शुक्लानि सुगन्धीनि कण्टकि-
जान्यपि जलजानि रक्तान्यपि दद्यात् । ६ । वसां मेदं च
दीपार्थे न दद्यात् । ७ । घृतं तैलं वा दद्यात् । ८ । जीवजं
सर्वधूपार्थे न दद्यात् । ९ । मधुघृतसंयुक्तं गुग्गुलुं दद्यात्
। १० । चन्दनकुङ्कुमकर्पूरागुरुपद्मकान्यनुलेपनार्थे । ११ ।
न प्रत्यक्षलवणं दद्यात् । १२ । हस्ते न च घृतव्यञ्जना-
दि । १३ । तैजसानि पात्राणि दद्यात् । १४ । विशेषतो
राजतानि । १५ । खड्गकुतपकृष्णाजिनतिलसिद्धार्थका-
क्षतानि च पवित्राणि रक्षोघ्नानि च निदध्यात् । १६ ।
- वास˚ । C$^{1,2}$. 5. कण्टकितानि V$^{1-4}$; कण्टकिजातानि C$^{1,2}$;
कण्टकिजानि Ap. See 6, and LXVI, 7, 8. Arrangement of
the following sections in v: LXXX, 2—14; LXXXI,
3—15; LXXIX, 13—42; LXXX, 1 (excepting प्रीयन्ते);
LXXX, 1, 15 — LXXXI, 23 (LXXXI, 3—15 being
repeated). 16. चेति दद्यात् । C$^{1,2}$.
LXXIX, 3. वासोऽभावे तत्कार्ये कार्पाससंभवं सूत्रं देयम् ।... 9.
जीवजं नखशृङ्गादि ।... 13...आदिशब्दाद्दधिपायसादि च । हस्ते न देयं
किंतु दर्यादिना ।... 16...पार्श्वराजतताम्रपात्राणि... एतानि पवित्राणि ।
रक्षोघ्नानि वक्ष्यमाणानि ।...
१७२ ॥ विष्णुस्मृतौ ७९ । ८० ॥
पिप्पलीमुकुन्दककास्तृणशिग्रुसर्षपसुरसासर्जकसुवर्चलकू-
ष्माण्डालाबुवार्त्ताकुपालङ्क्येपोदकीतण्डुलीयककुसुम्भ-
पिण्डालुकमहिषीक्षीराणि वर्जयेत् । १७। राजमाषम-
सूरपर्य्युषितकृतलवणानि च । १८। कोपं परिहरेत्
। १९। नाश्रु पातयेत् । २०। न त्वरां कुर्य्यात् । २१।
घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्रा-
णि च प्रशस्तानि । २२। अत्र च श्लोको भवति । २३।
सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण च।
दत्तमक्षय्यतां याति फल्गुपात्रेण चाप्यथ ॥ २४ ॥ ७९ ॥
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः
प्रियङ्गुभिर्नीवारैर्मुद्गैर्गोधूमैश्च मासं प्रीयन्ते । १ । द्वौ
मासौ मत्स्यमांसेन । २ । त्रीन्हारिणेन । ३ । चतुरश्रौ-
रभ्रेण । ४ । पञ्च शाकुनेन । ५। षट्छागेन । ६। सप्त
रौरवेण । ७ । अष्टौ पार्षतेन । ८। नव गावयेन । ६ ।
दश माहिषेण । १० । एकादश तूपरेणाजेन । ११ ।
17. ॰पालङ्क्योपोदकी॰ C^{1, 2}. 24. खड्गेनो॰ C^{1, 2}. LXXX, 11.
एकादश कौर्मेण। C^{1, 2}.
18...कृतं कृत्रिमं लवणम् ।... 22: घृतादिशब्दादाज्यदधिपायसादि ।...
24. चौदुम्बरं ताम्रम् ।... LXXX, 1. मत्स्याः सिंहतुण्डादयः ।...
5. शकुनः पक्षी काकातिरिक्तादिर्भक्ष्यः ॥
अध्याय ३१-६० (ऋण-शोधन, उत्तराधिकार, अशुद्धि व श्राद्ध-विधान)
॥ विष्णुस्मृतौ ८० ॥ ८१ ॥ १७३
संवत्सरं गव्येन पयसा तद्विकारैर्वा । १२ । अत्र पितृ-
गीता गाथा भवति । १३ ।
कालशाकं महाशल्कं मांसं वार्ध्रीणसस्य च ।
विषाणवर्ज्या ये खङ्गास्तांस्तु भक्षामहे सदा ॥ १४ ॥ ८० ॥
नान्नमासनमारोपयेत् । १ । न पदा स्पृशेत् । २ ।
नावक्षुतं कुर्यात् । ३ । तिलैः सर्षपैर्वा यातुधानान्विस-
र्जयेत् । ४ । संदृष्टे न श्राद्धं कुर्यात् । ५ । न रजस्वलां
पश्येत् । ६ । न श्वानम् । ७ । न विड्वराहम् । ८ । न
ग्रामकुक्कुटम् । ९ । प्रयत्नाच्छ्राद्धमजस्य दर्शयेत् । १० ।
अश्नीयुर्ब्राह्मणाश्च वाग्यताः । ११ । न वेष्टितशिरसः
। १२ । न सोपानत्काः । १३ । न पीठोपर्हितपादाः । १४ ।
न हीनाङ्गाधिकाङ्गाः श्राद्धं पश्येयुः । १५ । न शूद्राः
। १६ । न पतिताः । १७ । तत्कालं ब्राह्मणं ब्राह्मणानु-
14. वार्द्धीणसस्य V¹⁻⁴ C¹˒² N. See, however, M, III, 271;
Y. I, 259; Apast. II, 17, 3; Gaut. XV, 15. खङ्गा च्याख्यैँ
तांस्तु भुंज्महे ॥ V¹⁻⁴ N. LXXXI, 3—22 om. V¹⁻³ C¹˒²;
but 23 is marked २३ in V¹⁻³, just as it is in V⁴. 13.
सोपानत्काः V⁴; सापान v.
LXXXI, 6. कर्ता भोक्ता चोदक्यां न पश्येत् । .. 18. श्राद्धकाले
समागतं ब्राह्मणं संन्यासिनं वा नियुक्ताश्चेदनुमन्येयुस्तदा तमपि भोजयेत् ॥
१७४ ॥ विष्णुस्मृतौ ८१ । ८२ ॥
मतेन वा भिक्षुकं भोजयेत् । १८ । हविर्गुणान्न ब्राह्मणा
ब्रूयुर्दात्रा पृष्टाः । १६ ।
यावदुष्णं भवत्यन्नं यावद्भुञ्जन्ति वाग्यताः ।
तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः ॥ २० ॥
सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद्भुक्तवतामग्रतो विकिरन्भुवि ॥ २१ ॥
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥ २२ ॥
उच्छेषणं भूमिगतमजिह्मस्याशठस्य च ।
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥ २३ ॥ ८१ ॥
दैवे कर्मणि ब्राह्मणं न परीक्षेत । १ । प्रयत्नात्पित्र्ये
परीक्षेत । २ । हीनाधिकाङ्गान्विवर्जयेत् । ३ । विकर्म-
18. पूजयेत् । V⁴. 22. रोगिणां कुलयोषिताम् । V⁴v. See N.'s
gloss, which seems to be an erroneous interpretation
of the reading त्यागिनां कुलयोषिताम्, which is found M.
III, 245.
21. सार्ववर्णिकं सर्वजातीयमन्नमाद्यशब्दाच्छाकादिकमप्यादाय जलेना-
प्लाव्य भुक्तवतामग्रे भुवि न पात्रे विकिरन्पिण्डत्वेन पातयेत् ॥ 22. वि-
किरदेवता आह ।... योऽयमुक्तो विकिरो यच्च भोजनावशिष्टं विप्राणां
तदुभयमनुपनीतानां कुलस्त्रीणां च भक्तानां भागधेयम् ।... LXXXII,
4. श्रुतिस्मृतिविरुद्धं कर्म विकर्म ।...
॥ विष्णुस्मृतौ ८२ ॥ १७५
स्थांश्च । ४ । वैडालव्रतिकान् । ५ । वृथालिङ्गिनः । ६ ।
नक्षत्रजीविनः । ७ । देवलकांश्च । ८ । चिकित्सकान्
। ९ । अनूढापुत्रान् । १० । तत्पुत्रान् । ११ । बहुया-
जिनः । १२ । ग्रामयाजिनः । १३ । शूद्रयाजिनः । १४ ।
अयाज्ययाजिनः । १५ । व्रात्यान् । १६ । तद्याजिनः
। १७ । पर्वकारान् । १८ । सूचकान् । १९ । भृतकाध्या-
पकान् । २० । भृतकाध्यापितान् । २१ । शूद्रान्नपुष्टान्
। २२ । पतितसंसर्गान् । २३ । अनधीयानान् । २४ ।
संध्योपासनभ्रष्टान् । २५ । राजसेवकान् । २६ । नग्नान्
। २७ । पित्रा विवदमानान् । २८ । पितृमातृगुर्वग्नि-
स्वाध्यायत्यागिनश्चेति । २९ ।
ब्राह्मणापसदा ह्येते कथिताः पङ्क्तिदूषकाः ।
एतान्विवर्जयेद्यत्नाच्छ्राद्धकर्मणि पण्डितः ॥ ३० ॥ ८२ ॥
LXXXII, 25. संध्योपासनाननुष्ठान् । C¹,². 28 om. C¹,²;
T. and C. om V¹⁻²; विवदमानानपि । v. 30. विवर्जयेच्चैषा-
ञ्छ्राद्ध० C¹,²; विवर्जयेच्चापि श्राद्ध० v.
6. वृथा शास्त्रातिक्रमेण लिङ्गं संन्यास्याद्याश्रमचिह्नं येषां ते ।... 15.
अयाज्याः पतितादयः ।... 16. संस्कारहीनान् ॥ 22. निरन्तरं शूद्रान्न-
भोजिनः ॥ 24. येऽधीतमपि वेदं प्रत्यहं नाधीयन्ते तान् ॥ 30. ब्राह्म-
णेभ्यो ऽपसदा बहिष्कृता अत एव पङ्क्तिदूषकाः कथिताः पूर्वसूरिभिः ।...
१७६ ॥ विष्णुस्मृतौ ८३ ॥ ८४ ॥
अथ पङ्क्तिपावनाः । १ । त्रिणाचिकेतः । २ ।
पञ्चाग्निः । ३ । ज्येष्ठसामगः । ४ । वेदपारगः । ५ ।
वेदाङ्गस्याप्येकस्य पारगः । ६ । पुराणेतिहासव्याकरण-
पारगः । ७ । धर्मशास्त्रस्याप्येकस्य पारगः । ८ । तीर्थ-
पूतः । ६ । यज्ञपूतः । १० । तपःपूतः । ११ । सत्यपूतः
। १२ । मन्त्रपूतः । १३ । गायत्रीजपर्निरतः । १४ ।
ब्रह्मदेयानुसंतानः । १५ । त्रिसुपर्णः । १६ । जामाता
। १७ । दौहित्रश्चेति पात्रम् । १८ । विशेषेण च योगिनः
। १९ । अत्र पितृगीता गाथा भवति । २० ।
अपि स स्यात्कुलेऽस्माकं भोजयेद्यस्तु योगिनम् ।
विप्रं श्राद्धे प्रयत्नेन येन तृप्यामहे वयम् ॥ २१ ॥ ८३ ॥
न म्लेच्छविषये श्राद्धं कुर्यात् । १ । न गच्छेन्म्लेच्छ-
विषयम् । २ ।
LXXXIII, 18. पात्रम् om. C^{1,2}; दाता । v. Ap. has पात्रम्.
19—21, and LXXXIV, excepting a few fragments,
om. v. 21. जये C^{1,2}.
LXXXIII, 2. त्रिणाचिकेतं चयनं कृतवानसौ त्रिणाचिकेतः ।
त्रिणाचिकेतसंज्ञं यजुर्वेदभागं तद्व्रतपूर्वकमधीतेऽसौ वा ॥ 14. मन्त्रैर्विष्णवा-
दिदैवत्यैर्नित्यं जप्तैः पूतः ।... 15. ब्रह्मदेयं वेदाध्यापनं (०ध्ययनं V^{1-3})
तदुपलक्षितः संतानः परंपरा यस्येति । त्रिपुरुषव्यापकेति यावत् ॥ 16.
त्रिसुपर्णं यजुर्भागविशेषमधीतेऽसौ । तथा त्रिः सुपर्णां चितिं कृतवानसौ
वा ॥ LXXXIV, 1. वक्ष्यमाणदेशे म्लेच्छदेशे... 2. तीर्थयात्रां
विना म्लेच्छदेशं न गच्छेत् ।
॥ विष्णुस्मृतौ ८४ ॥ ८५ ॥ १७७
परनिपानेष्वपः पीत्वा तत्साम्यमुपगच्छतीति । ३ ।
चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते ।
स म्लेच्छदेशो विज्ञेय आर्यावर्तस्ततः परः ॥ ४ ॥ ८४ ॥
अथ पुष्करेष्वक्षयं श्राद्धम् । १ । जप्यहोमतपांसि
च । २ । पुष्करे स्नानमात्रात्सर्वपापेभ्यः पूतो भवति । ३ ।
एवमेव गयाशीर्षे । ४ । वटे । ५ । अमरकण्टकपर्वते । ६ ।
वराहपर्वते । ७ । यत्र क्वचन नर्मदातीरे । ८ । यमु-
नातीरे । ९ । गङ्गायां विशेषतः । १० । कुशावर्त्ते । ११ ।
विन्दुके । १२ । नीलपर्वते । १३ । कनखले । १४ ।
कुब्जाम्रे । १५ । भृगुतुङ्गे । १६ । केदारे । १७ । महा-
——————————
LXXXV, 1. पुष्करेषु श्राद्धम् । C¹,²; पुष्करेषु द्यक्षाद्धम् । v.
4. गयाशीर्षे and 5 om. v. 5. अक्षय्यवटे C¹,². From the C.
12. विल्बके C¹,²v. See the C. 15. कुजाम्बे । C¹,².
——————————
3. परे चातुर्वर्ण्यबहिष्कृता म्लेच्छास्तेषां निपाने जलाशये स्नात्वा पीत्वा
तत्साम्यं प्राप्नोति ।... साम्यं च यावज्जीवाभ्यासविषयम् । सकृत्... आप-
स्तम्बेनोक्तं ज्ञेयम् ।... LXXXV, 5...अक्षय्यवटे ॥ 7. वराहाकारे
पर्वतविशेषे ॥ 11. कुशावर्त्तस्त्र्यम्बकगिरिस्थो गोदावरीप्रभवः ॥ 12.
बिन्दुको दक्षिणदेशस्थतीर्थविशेषः । बिल्वक इति पाठेऽपि तत्रैव सः ॥
14. कानखलमुत्तरपर्वतस्थं त्र्यम्बकस्थं च ॥ 15. कुब्जाम्रमुत्कलदेशस्थं क्षेत्रं
गङ्गाद्वारस्थं वा ॥ 16. भृगुतुङ्गोऽमरकण्टकसमीपस्थो विन्ध्यपादः ॥ 17.
केदार उत्तरपर्वतस्थः ॥
23
१७८ ॥ विष्णुस्मृतौ ८५ ॥
लये । १८ । नडन्तिकायाम् । १६ । सुगन्धायाम् । २० ।
शाकम्भर्याम् । २१ । फल्गुतीर्थे । २२ । महागङ्गायाम्
। २३ । चिह्नलिकाग्रामे । २४ । कुमारधारायाम् । २५ ।
प्रभासे । २६ । यत्र क्वचन सरस्वत्यां विशेषतः । २७ ।
गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ।
सततं नैमिषारण्ये वाराणस्यां विशेषतः ॥ २८ ॥
अगस्त्याश्रमे । २९ । कण्वाश्रमे । ३० । कौशिकायाम्
। ३१ । सरयूतीरे । ३२ । शोणस्य ज्योतिषायाश्च संगमे
। ३३ । श्रीपर्वते । ३४ । कालोदके । ३५ । उत्तरमा-
नसे । ३६ । वडवायाम् । ३७ । मतङ्गवाप्याम् । ३८ ।
24. चिह्नलिकाश्रमे C¹, ². See the C. 28 is divided into
five Sûtras by N.; but the Mitâksharâ quotes it as a
Śloka.
18. महालयः पर्वतविशेषः ॥ 19. नडन्तिका [नडिन्तिका] नद्यभियु-
क्तेभ्यो ज्ञेया ॥ 20. सुगन्धा नदी सौगन्धिकनगरसमीपस्था ॥ 22. फल्गु-
तीर्थं गयास्थम् ॥ 24. चिह्नलिकाग्रामः शालग्रामः । तण्डुलिकाश्रम इति
वा पाठः ॥ 25. काश्मीरदेशे क्रौञ्चपर्वते कुमारशक्तिप्रहारेण जलधारा
निर्गतास्ति सा कुमारधारा तस्याम् । दक्षिणसमुद्र इषुपातक्षेत्रे वा ॥ 26.
द्वारकासमीपे प्रभासतीर्थम् ॥ 29. अगस्त्याश्रमः पुष्करसमीपे सरस्वती-
तीरे ।... दक्षिणदेशे स्वामिख्याने वा ॥ 30. कण्वाश्रमो मालिनीतीरे ॥
33...तयोः संगमो विन्ध्यमध्ये । शोणज्योतीरथयोरिति पाठेऽपि तत्रैव ॥
34. श्रीपर्वतो दक्षिणदेशस्थः श्रीशैले मल्लिकार्जुनस्थानम् ॥ 35. कालो-
दकं वामनतीर्थविशेषः ।... 36. उत्तरमानसं केदारोत्तरपर्वतस्थम् ॥ 37.
वडवा तीर्थविशेषो दक्षिणदेशस्थः ॥ 38 मतङ्गवापी गयादक्षिणभागस्था ॥
विष्णुस्मृतौ ८५ ॥ १७६
सप्तार्षे । ३९ । विष्णुपदे । ४० । स्वर्गमार्गपदे । ४१ ।
गोदावर्याम् । ४२ । गोमत्याम् । ४३ । वेत्रवत्याम् । ४४ ।
विपाशायाम् । ४५ । वितस्तायाम् । ४६ । शतद्रुतीरे । ४७ ।
चन्द्रभागायाम् । ४८ । ईरावत्याम् । ४९ । सिन्धो-
स्तीरे । ५० । दक्षिणे पञ्चनदे । ५१ । औसजे । ५२ ।
एवमादिष्वन्येषु तीर्थेषु । ५३ । सरिद्वरासु । ५४ ।
सर्वेष्वपि स्वभावेषु । ५५ । पुलिनेषु । ५६ । प्रस्रवणेषु
। ५७ । पर्वतेषु । ५८ । निकुञ्जेषु । ५९ । वनेषु । ६० ।
उपवनेषु । ६१ । गोमयेनोपलिप्तेषु गृहेषु । ६२ । मनो-
ज्ञेषु । ६३ । अत्र च पितृगीता गाथा भवन्ति । ६४ ।
कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलीन् ।
नदीषु बहुतोयासु शीतलासु विशेषतः ॥ ६५ ॥
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
गयाशीर्षे वटे श्राद्धं यो नः कुर्यात्समाहितः ॥ ६६ ॥
52. औसजे V¹⁻⁴ N. ; चौजसे C¹⁻² v. 62. गोमयलिप्तेषु । C¹⁻².
39. सप्तार्षं सप्तर्षितीर्थम् ॥ 40. विष्णुपदं गयामध्यस्थितम् ॥ 41.
स्वर्गमार्गो रथमार्ग इति पदज्ञाना... 51. कृष्णवेणातुङ्गभद्राकोशानां
पञ्चानां नदीनां समाहारदेशे ॥ 52. औसजं शूर्पारकं दक्षिणदेशस्थं
तीर्थम् ॥ 55. स्वभावा रघुनाथश्रीकृष्णादीनां जन्मस्थानानि तेष्वपि सर्वेषु ॥
59. निकुञ्जा वृन्दावनवर्तीनि । भगवत्क्रीडास्थानानि लतागृहानि ॥ 63.
मनोज्ञास्तुलसीचत्वरादयः ॥ 65... शीतला हिमवत्प्रभवाः ।...
digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgad
१८० ॥ विष्णुस्मृतौ ८५ ॥ ८६ ॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ६७॥ ८५ ॥
अथ वृषोत्सर्गः । १ । कार्त्तिक्यामाश्वयुज्यां वा । २ ।
तत्रादावेव वृषभं परीक्षेत । ३ । जीवद्वत्सायाः पय-
स्विन्याः पुत्रम् । ४ । सर्वलक्षणोपेतम् । ५ । नीलम् । ६ ।
लोहितं वा मुखपुच्छपादशृङ्गशुक्लम् । ७ । यूथस्याच्छा-
दकम् । ८ । ततो गवां मध्ये सुसमिद्धमग्निं परिस्तीर्य
पौष्णं चरुं पयसा श्रपयित्वा पूषा गा अन्वेतु न इह
रतिरिति च हुत्वा वृषमयस्कारस्त्वङ्कयेत् । ९ । एक-
स्मिन्पार्श्वे चक्रेणापरस्मिन्पार्श्वे शूलेन । १० । अङ्कितं
च हिरण्यवर्णा इति चतसृभिः शं नो देवीरिति च
स्नापयेत् । ११ । स्नातमलंकृतं स्नातालंकृताभिश्चतसृभि-
र्वत्सतरीभिः सार्धमानीय रुद्रान्पुरुषसूक्तं कूष्माण्डीश्च
LXXXVI, 9. रतिर् all; रडिर् Ap. and Kâṭh. Gṛihyas.
11. देवीति V¹⁻⁴ C¹⁻²v; देवीरिति N. Ap. See Rigv. X, 9, 4.
67. बहूनां पुत्राणां मध्ये एकेनापि गयाश्राद्धकरणे पितृमुक्तिर्भवति...
LXXXVI, 5... लक्षणान्यङ्गानि तैः सर्वैर्युक्तम् ।... 9... गवां मध्ये
गोष्ठ इति देशविधिः ।... आहुतित्वयं हुत्वा... 10. दक्षिणबाहौ
चक्रेण वामस्फिजि त्रिशूलेन... 12... रुद्रानमस्ते रुद्र मन्यव इत्येका-
दशानुवाकान् ।...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
॥ विष्णुस्मृतौ ८६ ॥ १८१
जपेत् । १२ । पिता वत्सानामिति वृषभस्य दक्षिणे
कर्णे पठेत् । १३ । इमं च । १४ ।
वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ।
वृणोमि तमहं भक्त्या स मे रक्षतु सर्वतः ॥ १५ ॥
एतं युवानं पतिं वो ददामि
तेन क्रीडन्तीश्चरत प्रियेण ।
मा हास्महि प्रजया मा तनूभि-
र्मा रधाम द्विषते सोम राजन् ॥ १६ ॥
वृषं वत्सतरीयुक्तमैशान्यां कारयेद्दिशि ।
होतुर्वस्त्रयुगं दद्यात्सुवर्णं कांस्यमेव च ॥ १७ ॥
अयस्कारस्य दातव्यं वेतनं मनसेप्सितम् ।
- वत्सेति V¹⁻⁴ C¹,²v Ap.; पिता वत्सेति काठकीयो मन्त्रः N.
See Kâṭh XIII, 9; Kâṭh. Gṛihyas., etc. 16. ददाम्य०
and चरथ V¹⁻⁴ C¹,²v Ap. The Kâṭh. Gṛihyas. has the
same readings; but the Atharva and Taittirîya
(III, 3, 9, 1) Saṁhitâs [see also the Gṛihyasûtras of
Pâraskara (III, 9, 6) and Sâṅkhâyana (III, 11, 14)]
have ददामि तेन and चरत महामाह C¹,².
16... हे राजन्... वयं प्रजया संतत्या तनूभिस्तच्छरीरैश्च मा
हास्महि मा ह्रासक्ता भवेम द्विषते शत्रवे च मा रधाम मा वश्या
भवेम ॥ (हे सोम राजन्वयं प्रजया ॰पुत्रादिकया मा हास्महि प्रजया
शून्या मा भूम... तथा तनूभिः शरीरैर्मा हास्महि दीर्घायुषः स्यामे-
त्यर्थः ।... Devapâla).
१८२ ॥ विष्णुस्मृतौ ८६ ॥ ८७ ॥
भोजनं बहुसर्पिष्कं ब्राह्मणांश्चात्र भोजयेत् ॥ १८ ॥
उत्सृष्टो वृषभो यस्मिन्पिवत्यथ जलाशये ।
जलाशयं तत्सकलं पितॄंस्तस्योपतिष्ठति ॥ १९ ॥
शृङ्गेणोल्लिखते भूमिं यत्र क्वचन दर्पितः ।
पितॄणामन्नपानं तत्प्रभूतमुपतिष्ठति ॥ २० ॥ ८६ ॥
अथ वैशाख्यां पौर्णमास्यां कृष्णमृगाजिनं सुवर्णशृङ्गं
रौप्यखुरं मौक्तिकलाङ्गूलभूषितं कृत्वा आविके च वस्त्रे
प्रसारयेत् । १ । ततस्तिलैः प्रच्छादयेत् । २ । सुवर्णना-
भिं च कुर्यात् । ३ । अहतेन वासोयुगेन प्रच्छादयेत्
। ४ । सर्वगन्धरत्नैश्चालंकृतं कुर्यात् । ५ । चतसृषु दिक्षु
चत्वारि तैजसानि पात्राणि क्षीरदधिमधुघृतपूर्णानि नि-
धायाहिताग्नये ब्राह्मणायालंकृताय वासोयुगेन प्रच्छा-
20. अधितिष्ठति ॥ V⁴; उपतिष्ठति ॥ V¹⁻³ C¹,²v Ap. N. has
तिष्ठति in V⁴; उपतिष्ठति in V¹⁻³. LXXXVII, 1. सशृङ्गं
सखुरं V⁴ ; but see the C. वस्त्रे च C¹,²; च om. v.
6. तैजसपात्राणि C¹,²v.
18. श्राद्धयितुः... वेतनं प्रभूतघृतभोजनं च दद्यात् । एतत्कर्मसाद्गु-
ण्याय त्रीन्ब्राह्मणान्भोजयेत् ।... 19. तस्योत्स्रष्टुः पितॄनुपतिष्ठति...
LXXXVII, 1... दशसौवर्णिकहेमघटितशृङ्गद्वयं पञ्चपलारौप्य-
घटितचतुःखुरम् ।... 3. ...सुवर्णनाभिं नेत्रे च कुर्याद्रत्नसमन्विते । इति
स्कान्दात् ॥ 6. पूर्वादिचतुर्दिक्षु तैजसानि ताम्ररौप्य कांस्यसौवर्णानि...
पात्राणि... क्रमेण क्षीरादिभिश्चतुर्भिः पूर्णानि निधायाग्निहोत्रिणे विप्राय
॥ विष्णुस्मृतौ ८७ । ८८ । ८६ ॥ १८३
दिताय दद्यात् । ६ । अत्र च गाथा भवन्ति । ७ ।
यस्तु कृष्णाजिनं दद्यात्सखुरं शृङ्गसंयुतम् ।
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैरलंकृतम् ॥ ८ ॥
ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥ ६ ॥
कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥ १० ॥ ८७ ॥
अथ प्रसूयमाना गौः पृथिवी भवति । १ । तामलं-
कृतां ब्राह्मणाय दत्त्वा पृथिवीदानफलमाप्नोति । २ ।
अत्र गाथा भवति । ३ ।
सवत्सरोमतुल्यानि युगान्युभयतोमुखीम् ।
दत्त्वा स्वर्गमवाप्नोति श्रद्दधानः समाहितः ॥ ४ ॥ ८८ ॥
मासः कार्त्तिकोऽग्निदैवत्यः । १ । अग्निश्च सर्वदेवानां
मुखम् । २ । तस्मात्तु कार्त्तिकं मासं बहिःशायी गाय-
त्रीजपनिरतः सकृदेव हविष्याशी संवत्सरकृतात्पापा-
त्पूतो भवति । ३ ।
LXXXIX, 3. V⁴ inserts जितेन्द्रियो after बहिःशायी; but
this word must have crept in from 4.
वस्त्रयुग्मेनाच्छादितायोदकपूर्वं च पुच्छे दद्यात् ।... ९... चतुरुदधिवेला-
वलयिता पृथ्वी... LXXXVIII, 4. सवत्साया गोर्यावन्ति रोमाणि
तत्समसंख्यानि युगानि...