विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 190, कुल 392 में से
संदर्भ में पढ़ें१८२ ॥ विष्णुस्मृतौ ८६ ॥ ८७ ॥
भोजनं बहुसर्पिष्कं ब्राह्मणांश्चात्र भोजयेत् ॥ १८ ॥
उत्सृष्टो वृषभो यस्मिन्पिवत्यथ जलाशये ।
जलाशयं तत्सकलं पितॄंस्तस्योपतिष्ठति ॥ १९ ॥
शृङ्गेणोल्लिखते भूमिं यत्र क्वचन दर्पितः ।
पितॄणामन्नपानं तत्प्रभूतमुपतिष्ठति ॥ २० ॥ ८६ ॥
अथ वैशाख्यां पौर्णमास्यां कृष्णमृगाजिनं सुवर्णशृङ्गं
रौप्यखुरं मौक्तिकलाङ्गूलभूषितं कृत्वा आविके च वस्त्रे
प्रसारयेत् । १ । ततस्तिलैः प्रच्छादयेत् । २ । सुवर्णना-
भिं च कुर्यात् । ३ । अहतेन वासोयुगेन प्रच्छादयेत्
। ४ । सर्वगन्धरत्नैश्चालंकृतं कुर्यात् । ५ । चतसृषु दिक्षु
चत्वारि तैजसानि पात्राणि क्षीरदधिमधुघृतपूर्णानि नि-
धायाहिताग्नये ब्राह्मणायालंकृताय वासोयुगेन प्रच्छा-
20. अधितिष्ठति ॥ V⁴; उपतिष्ठति ॥ V¹⁻³ C¹,²v Ap. N. has
तिष्ठति in V⁴; उपतिष्ठति in V¹⁻³. LXXXVII, 1. सशृङ्गं
सखुरं V⁴ ; but see the C. वस्त्रे च C¹,²; च om. v.
6. तैजसपात्राणि C¹,²v.
18. श्राद्धयितुः... वेतनं प्रभूतघृतभोजनं च दद्यात् । एतत्कर्मसाद्गु-
ण्याय त्रीन्ब्राह्मणान्भोजयेत् ।... 19. तस्योत्स्रष्टुः पितॄनुपतिष्ठति...
LXXXVII, 1... दशसौवर्णिकहेमघटितशृङ्गद्वयं पञ्चपलारौप्य-
घटितचतुःखुरम् ।... 3. ...सुवर्णनाभिं नेत्रे च कुर्याद्रत्नसमन्विते । इति
स्कान्दात् ॥ 6. पूर्वादिचतुर्दिक्षु तैजसानि ताम्ररौप्य कांस्यसौवर्णानि...
पात्राणि... क्रमेण क्षीरादिभिश्चतुर्भिः पूर्णानि निधायाग्निहोत्रिणे विप्राय