सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 184, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 184

१७६ ॥ विष्णुस्मृतौ ८३ ॥ ८४ ॥
अथ पङ्क्तिपावनाः । १ । त्रिणाचिकेतः । २ ।
पञ्चाग्निः । ३ । ज्येष्ठसामगः । ४ । वेदपारगः । ५ ।
वेदाङ्गस्याप्येकस्य पारगः । ६ । पुराणेतिहासव्याकरण-
पारगः । ७ । धर्मशास्त्रस्याप्येकस्य पारगः । ८ । तीर्थ-
पूतः । ६ । यज्ञपूतः । १० । तपःपूतः । ११ । सत्यपूतः
। १२ । मन्त्रपूतः । १३ । गायत्रीजपर्निरतः । १४ ।
ब्रह्मदेयानुसंतानः । १५ । त्रिसुपर्णः । १६ । जामाता
। १७ । दौहित्रश्चेति पात्रम् । १८ । विशेषेण च योगिनः
। १९ । अत्र पितृगीता गाथा भवति । २० ।
अपि स स्यात्कुलेऽस्माकं भोजयेद्यस्तु योगिनम् ।
विप्रं श्राद्धे प्रयत्नेन येन तृप्यामहे वयम् ॥ २१ ॥ ८३ ॥
न म्लेच्छविषये श्राद्धं कुर्यात् । १ । न गच्छेन्म्लेच्छ-
विषयम् । २ ।
LXXXIII, 18. पात्रम् om. C^{1,2}; दाता । v. Ap. has पात्रम्.
19—21, and LXXXIV, excepting a few fragments,
om. v. 21. जये C^{1,2}.
LXXXIII, 2. त्रिणाचिकेतं चयनं कृतवानसौ त्रिणाचिकेतः ।
त्रिणाचिकेतसंज्ञं यजुर्वेदभागं तद्व्रतपूर्वकमधीतेऽसौ वा ॥ 14. मन्त्रैर्विष्णवा-
दिदैवत्यैर्नित्यं जप्तैः पूतः ।... 15. ब्रह्मदेयं वेदाध्यापनं (०ध्ययनं V^{1-3})
तदुपलक्षितः संतानः परंपरा यस्येति । त्रिपुरुषव्यापकेति यावत् ॥ 16.
त्रिसुपर्णं यजुर्भागविशेषमधीतेऽसौ । तथा त्रिः सुपर्णां चितिं कृतवानसौ
वा ॥ LXXXIV, 1. वक्ष्यमाणदेशे म्लेच्छदेशे... 2. तीर्थयात्रां
विना म्लेच्छदेशं न गच्छेत् ।