सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 187, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 187

विष्णुस्मृतौ ८५ ॥ १७६
सप्तार्षे । ३९ । विष्णुपदे । ४० । स्वर्गमार्गपदे । ४१ ।
गोदावर्याम् । ४२ । गोमत्याम् । ४३ । वेत्रवत्याम् । ४४ ।
विपाशायाम् । ४५ । वितस्तायाम् । ४६ । शतद्रुतीरे । ४७ ।
चन्द्रभागायाम् । ४८ । ईरावत्याम् । ४९ । सिन्धो-
स्तीरे । ५० । दक्षिणे पञ्चनदे । ५१ । औसजे । ५२ ।
एवमादिष्वन्येषु तीर्थेषु । ५३ । सरिद्वरासु । ५४ ।
सर्वेष्वपि स्वभावेषु । ५५ । पुलिनेषु । ५६ । प्रस्रवणेषु
। ५७ । पर्वतेषु । ५८ । निकुञ्जेषु । ५९ । वनेषु । ६० ।
उपवनेषु । ६१ । गोमयेनोपलिप्तेषु गृहेषु । ६२ । मनो-
ज्ञेषु । ६३ । अत्र च पितृगीता गाथा भवन्ति । ६४ ।
कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलीन् ।
नदीषु बहुतोयासु शीतलासु विशेषतः ॥ ६५ ॥
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
गयाशीर्षे वटे श्राद्धं यो नः कुर्यात्समाहितः ॥ ६६ ॥
52. औसजे V¹⁻⁴ N. ; चौजसे C¹⁻² v. 62. गोमयलिप्तेषु । C¹⁻².
39. सप्तार्षं सप्तर्षितीर्थम् ॥ 40. विष्णुपदं गयामध्यस्थितम् ॥ 41.
स्वर्गमार्गो रथमार्ग इति पदज्ञाना... 51. कृष्णवेणातुङ्गभद्राकोशानां
पञ्चानां नदीनां समाहारदेशे ॥ 52. औसजं शूर्पारकं दक्षिणदेशस्थं
तीर्थम् ॥ 55. स्वभावा रघुनाथश्रीकृष्णादीनां जन्मस्थानानि तेष्वपि सर्वेषु ॥
59. निकुञ्जा वृन्दावनवर्तीनि । भगवत्क्रीडास्थानानि लतागृहानि ॥ 63.
मनोज्ञास्तुलसीचत्वरादयः ॥ 65... शीतला हिमवत्प्रभवाः ।...