विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 183, कुल 392 में से
संदर्भ में पढ़ें॥ विष्णुस्मृतौ ८२ ॥ १७५
स्थांश्च । ४ । वैडालव्रतिकान् । ५ । वृथालिङ्गिनः । ६ ।
नक्षत्रजीविनः । ७ । देवलकांश्च । ८ । चिकित्सकान्
। ९ । अनूढापुत्रान् । १० । तत्पुत्रान् । ११ । बहुया-
जिनः । १२ । ग्रामयाजिनः । १३ । शूद्रयाजिनः । १४ ।
अयाज्ययाजिनः । १५ । व्रात्यान् । १६ । तद्याजिनः
। १७ । पर्वकारान् । १८ । सूचकान् । १९ । भृतकाध्या-
पकान् । २० । भृतकाध्यापितान् । २१ । शूद्रान्नपुष्टान्
। २२ । पतितसंसर्गान् । २३ । अनधीयानान् । २४ ।
संध्योपासनभ्रष्टान् । २५ । राजसेवकान् । २६ । नग्नान्
। २७ । पित्रा विवदमानान् । २८ । पितृमातृगुर्वग्नि-
स्वाध्यायत्यागिनश्चेति । २९ ।
ब्राह्मणापसदा ह्येते कथिताः पङ्क्तिदूषकाः ।
एतान्विवर्जयेद्यत्नाच्छ्राद्धकर्मणि पण्डितः ॥ ३० ॥ ८२ ॥
LXXXII, 25. संध्योपासनाननुष्ठान् । C¹,². 28 om. C¹,²;
T. and C. om V¹⁻²; विवदमानानपि । v. 30. विवर्जयेच्चैषा-
ञ्छ्राद्ध० C¹,²; विवर्जयेच्चापि श्राद्ध० v.
6. वृथा शास्त्रातिक्रमेण लिङ्गं संन्यास्याद्याश्रमचिह्नं येषां ते ।... 15.
अयाज्याः पतितादयः ।... 16. संस्कारहीनान् ॥ 22. निरन्तरं शूद्रान्न-
भोजिनः ॥ 24. येऽधीतमपि वेदं प्रत्यहं नाधीयन्ते तान् ॥ 30. ब्राह्म-
णेभ्यो ऽपसदा बहिष्कृता अत एव पङ्क्तिदूषकाः कथिताः पूर्वसूरिभिः ।...