सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

यित्वाऽस्मिन् राष्ट्रेऽयमिदानीं राजेति जयं घोषयित्वा पूर्वराजा-
सनादन्यासनोपविष्टस्य मुख्यं मन्त्र्यादिकं नागरिकं च जनं द-
र्श्येताम् । ततः सर्वं जनं सत्कृत्य पूर्वराजबद्धान्मुक्त्वा स्वरा-
ष्ट्रेऽभयं घोषयित्वा तदासनगत एव प्रजाः परिपालयन् वर्षा-
न्तराभिषेककालप्रतीक्षया तिष्ठेत् । पूर्वस्मिन् जीवति द्वितीय-
स्याभिषेके स्नपनादिकालप्रतीक्षान्तमकृत्वा शुभे कालेऽभि-
षेक एव कार्यः ।
अथाभिषेकपूर्वकर्त्तव्यैन्द्रशान्तिप्रयोगः ।
शुभेऽह्नि यथाविभवं याज्ञवल्क्याद्युक्तप्रकारेण विनायकशान्तिं
नवग्रहमखं च कृत्वा उपकल्पितसमस्तसम्भारः सपत्नीको रा-
जा सांवत्सरादभिषेकदिनशुद्धिं विदित्वा तत्पूर्वदिवसे पुरोहि-
ताचार्यसांवत्सरादीन् सन्निधाप्य शुचौ देशेऽन्तर्जानुकर उपवि-
श्येष्टदेवगुरुद्विजकुलज्येष्ठान् नत्वा दर्भपाणिराचम्य प्राणाना-
यम्य तिथ्यादि सङ्कीर्त्य करिष्यमाणराज्याभिषेकाङ्गत्वेनैन्द्रीं
शान्तिं करिष्य इति सङ्कल्प्य, विजयबलपशुवृष्टिकामनया
परचक्रागमनिवृत्तिकामनया चैन्द्रीं शान्तिं करिष्य इति
काम्यायाम् । तत्र निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं स्वस्तिपु-
ण्याहवाचनं मातृकापूजनाभ्युदयिकश्राद्धाचार्यवरणानि च
तत्पूर्वाङ्गानि करिष्य इति सङ्कल्प्य यथाविभवं षोडशोपचारै-
र्गणपतिमभ्यर्च्य यथास्वगृह्यं स्वस्तिवाचनादि विधायैन्द्रीं शान्तिं
कर्तुमाचार्यं त्वामहं वृण इति पुरोहितं वृणुयात् ।
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः ।
तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥
इत्याचार्यवरणे मन्त्रः । मधुपर्कादिवस्त्रान्तम् । तत आ-

अभिषेकप्रयोगः । ६३
चार्योऽग्निस्थापनान्तं कृत्वा प्राच्यां कलशं संस्थाप्य तत्र य-
थाशक्ति सौवर्णीमैन्द्रीं प्रतिमां प्रतिष्ठाप्य यथाविभवं पूजयेत् ।
ततो ऽमृताशान्तिप्रकारेण चरुं श्रपयित्वा इन्द्र जुषस्वेतिसूक्तेन
प्रत्यृचं जुहुयात् । शेषममृतावत् ।
इत्यैन्द्रशान्तिप्रयोगः ।
अथाभिषेकप्रयोगः ।
तत्र पूर्वस्मिन् दिवसे नगरदेवायतने ध्वजपताकातोरणादि-
भिरलङ्कृत्य कृतोपवासः पुरोहितोऽभिषेकदिवसे स्नातोऽनुलि-
प्तः शुचिः शुक्लवासाः सोष्णीषो वेदिदेशे स्नातेन श्वेतवस्त्र-
माल्याद्यलङ्कृतेन सर्वाभरणभूषितेन राज्ञा तिथ्याद्युल्लेखपूर्व-
कं मम कृत्स्नस्य राष्ट्रस्य वश्यतासिद्ध्यर्थं सांवत्सरपुरोहिता-
भ्यां विष्णुधर्मोत्तरोक्तविधिनाऽऽत्मानमभिषेचयिष्य इति सङ्क-
ल्पयेत् । ततः सांवत्सरपुरोहितयोः ऋग्यजुरथर्वविदां विप्र-
क्षत्रियविशाममात्यानां छन्दोगस्य च विप्रामात्यस्य चैकैक-
स्य वान्यतमवेदविदो वरणे कृते अन्येषु चातुर्वर्ण्यमुख्येषु
सन्निधापितेषु होमदेशादुत्तरतः स्नानशालायां यथासम्भवं
सर्वतीर्थजलपूर्णं सर्वौषधीसर्वरत्नसर्वफलयुतं क्षीरिवृक्षक्षीर-
लतापल्लवोपेतं सर्वतस्त्रिगुणसितसूत्रेण वेष्टितं श्वेताम्बरवेष्टि-
तकण्ठं मालादिभिरलङ्कृतं शैवालमुखं नवं सौवर्णं कलशं मध्ये,
तत्समन्ततश्च यथास्थानं पञ्चगव्यमिश्रजलकलशं घृतपूर्णं हेम-
कुम्भं क्षीरपूर्णं रौप्यकुम्भं दधिपूर्णं ताम्रकुम्भं मधुकुम्भं कुशोदक-
कुम्भं शतच्छिद्रं सौवर्णम् अन्यांश्च नद्यादिजलपूर्णान् मृन्मयान्
कलशान् कलशस्थापनविधिना स्थापयेत् । यथासम्भवं पूर्वो-
क्तपर्वताग्रादिमृदः पूर्वोक्तलक्षणं सौवर्णाद्यन्यतमनिर्मितं भद्रासनं
१ सविस्तरोऽयं प्रयोगो नीतिमयूखे द्रष्टव्यः ।

"?
Wait, look at line 9 end:
"स्नानशालाया-"
Then line 10:
"मान्त्रैर्मृत्तिकादिभिः" ?
Wait, look at line 10:
First glyph: 'मा'!
Second glyph: 'न्त्रै'! With repha!
'मान्त्रैर्मृत्तिकादिभिः'???
YES! Look at the first glyph of line 10:
It is 'मा'!
Wait, does it have a 'म'?
Look at 'म' in 'मृदः' (line 11), 'मावोरिषत्' (line 12), 'मूर्द्धानं' (line 13).
In line 12: 'मावोरिषत्': 'मा' has a loop at bottom left, vertical, top bar, and 'ा' (aa-matra)!
Now look at the first character of line 10:
IT IS AN EXACT MATCH FOR 'मा'!
Wait, but does it have something on the left?
Wait, look at line 10, the very first character:
Is it 'मा' or 'झा' or 'आ'?
Wait, look at:
It has a loop at bottom left, then goes up, then a middle horizontal bar? No, it has a loop, goes right, then vertical: that is 'म'!
Wait, to the left of it, what is that?
Wait, is that a '

विष्णुधर्मोत्तोक्तराजाभिषेकप्रयोगः । ६५
अथ भद्रासनगतम्-“तेजोऽसि शुक्रम्”इति घृतपूरितेन हेमकुम्भे-
न पूर्वदिगवस्थितेन पूर्वतः स्थित्वा ब्राह्मणामात्योऽभिषिञ्चेत् ।
क्षीरपूर्णेन रौप्यकुम्भेन दक्षिणतः स्थित्वा क्षत्रियामात्य
“आप्यायस्व” इति सिञ्चेत् । “दधिक्राव्ण” इति दधिपूरितेन
ताम्रकुम्भेन पश्चिमादिगवस्थितेन पश्चिमतः स्थित्वा वैश्यामात्यो-
ऽभिषिञ्चेत् । “मधुवाता” इति त्र्यृचेन मधुपूर्र्णेन मृत्कुम्भे-
नोत्तरदिगवस्थितेनोत्तरतः स्थित्वा छन्दोगामात्येऽभिषि-
ञ्चेत् । स एव तत्रैव स्थित्वा कुशोदकपूरितेनान्यकुम्भेन
“देवस्य त्वा” इति सिञ्चेत् । तत्र पूरणे पूरयामि, अभिषेके
अभिषिञ्चामीति मन्त्रे वाक्यशेषः । ततः पुरोहितो वह्निं रक्ष-
ध्वमिति सदस्यान् सम्प्रेष्य सम्पातवन्तं सौवर्णं कलशमादाय
राजसमीपं गत्वा ब्राह्मणस्वरयुतैः शङ्खभेर्यादिशब्दयुतै राजसू-
यगतराजाभिषेकमन्त्रैरभिषिञ्चेत् । ते यथा-“सोमस्य त्वा द्यु-
म्नेनाभिषिञ्चाम्यग्नेर्भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण । क्षत्राणां
क्षत्रपतिरेद्ध्यति दिद्यून्पाहि” । “इमं देवा असपत्नं सुवद्धं महते
क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय। इमममुष्य
पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी राजा सोमोऽस्माकं ब्राह्म-
णानां राजा”इति याजुषाः । इममित्यत्र द्वितीयान्तं राजनाम ।
अमुष्येत्यत्र षष्ठ्यन्तं तत्पितृनाम । अमुष्या इत्यत्र षष्ठ्यन्तं
तन्मातृनाम। आर्ग्वेदिकास्तु “इमा आपः शिवतमा”इति तृचः ।
“देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम-
ग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि । बलाय श्रि-
यै यशसेऽन्नाद्याय”इति यजुः । भूर्भुवः स्वरिति व्याहृतय इति ।
एवमन्येऽपि तत्तच्छाखीया द्रष्टव्याः। ततः पुरोहितः कुण्डसमीपं
गच्छेत् । ततः सुगन्ध्युद्वर्त्तनद्रव्येणोद्वर्त्तिताङ्गं भद्रासनगतमेव रा-
९

६६ वीरमित्रोदयस्य राजनीतिप्रकाशे
जानं शतच्छिद्रेण सौवर्णेन वेदधर्मशास्त्राभिज्ञोऽन्यो ब्राह्मणो “या
ओषधीः” इति मन्त्रेण पिष्टसर्वौषध्युदकपूर्णकुम्भेन, “रथे तिष्ठन्”
इति मन्त्रेण गन्धपूर्णोदककुम्भेन, “आब्रह्मन्ब्राह्मण” इति यजुषा
व्रीह्यादिबीजोदकपूर्णेन, “पुष्पवती” इत्याथर्वणमन्त्रेण पुष्पपूर्णो-
दककुम्भेन, तेनैव मन्त्रेण तत्कालसम्भृतफलपूर्णकुम्भेन, “आशुः
शिशान” इतित्सूक्तेन सर्वरत्नपूर्णकुम्भोदकेन “ये देवाः पुरः सद”
इति यजुषा कुशपञ्चपल्लवपूर्णोदककुम्भेन राजानमभिषिञ्चेत् ।
ततोऽन्य ऋग्वेदवित् ब्राह्मणो गोरोचनापिष्टेन “गन्धद्वाराम्” इति
मन्त्रेण राज्ञो मूर्द्धानं कण्ठं च संस्पृशेत् । ततो मुख्या ब्राह्मणक्ष-
त्रियवैश्यशूद्राः पतिव्रताः पुत्रवत्यो नार्यो मूर्द्धावसिक्ताद्याश्च
यथासम्भवं समुद्रादिनानातीर्थाहृतैर्जलैरभिषिञ्चेयुः । शूद्राद्या-
स्तूष्णीम् । तत्रामात्यमुख्याश्छत्रचामरवेत्रादीनि राजचिह्नान्यु-
हरेयुः । तत्र वन्दिनश्च स्तुतिं कुर्युः । ब्राह्मणा मन्त्रघोषं, वाद-
काः शङ्खभेर्यादिघोषं च कुर्युः । ततः सांवत्सरो मुख्यं सौवर्णं
कलशमादाय ततो गृहीतेन कुशोदकेन “सुरास्त्वाम्” इत्या-
दिभिर्विष्णुधर्मोत्तरोक्तैर्मन्त्रैरभिषिञ्चेत् । सकलमन्त्राभिषेचनान्ते
अवशिष्टं कलशजलं कलशेनैव सर्वं मूर्ध्नि न्यसेत् ।
तथा च विष्णुधर्मोत्तरे,
श्रीराम उवाच ।
मन्त्रेण येन दैवज्ञः कुर्याद्राज्ञोऽभिषेचनम् ।
तमहं श्रोतुमिच्छामि त्वत्तो वरुणनन्दन ॥
पुष्कर उवाच ।
शृणुष्वावहितो मन्त्रं राम कल्मषनाशनम् ।
येनाभिषिक्तो नृपतिश्चिरं यशसि तिष्ठति ॥
राज्ञोऽभिषेकशब्दान्ते दैववित् कुशवारिणा ।

कुर्यान्मन्त्रान्ते कलशं न्यसेत् ॥
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥
रुद्रो धर्मो मनुर्दक्षी रुचिः श्रद्धा तु पार्थिव ।
भृगुरत्रिवसिष्ठश्च सनकश्च सनन्दनः ॥
सनत्कुमारश्च तथा भगवानथ चाङ्गिराः ।
पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ॥
एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः ।
प्रभाकरा बर्हिषदो अग्निष्वात्तास्तथैव च ॥
क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः ।
एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ॥
लक्ष्मीर्वैदी शची

६८ वीरमित्रोदयस्य राजनीतिप्रकाशे
कद्रूः क्रोधवशा प्राची विनता सुरभिस्तथा ।
एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः ॥
पत्नी तु बहुपुत्रस्य सपुत्रा या च भामिनी ।
समायात्वभिषेकाय विजयाय च पार्थिव ॥
कृशाश्वपत्नी च तथा सुप्रभा तु जया तथा ।
सुदर्शनस्तयोः पुत्रो विजयं च ददातु ते ॥
मनोरमा भानुमती विशाला या च बाहुदा ।
अरिष्टनेमिपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥
कृत्तिका रोहिणी देवी इला रुद्राणिरेव च ।
पुनर्वसुश्च पुष्यश्च तथाऽश्लेषा च पार्थिव ॥
मघा च फाल्गुनी पूर्वा उत्तरा च क्षितीश्वर ।
हस्तश्चित्रा तथा स्वाती विशाखा च तथा नृप ॥
अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप ।
आषाढा च तथा पूर्वा तथान्या चोत्तरा द्वया ॥
अभिजिश्च तथा श्रुत्या धनिष्ठा च तथैव च ।
तथा शतभिषा चैव पूर्वाभाद्रपदा च या ॥
उत्तरा रेवती राजन्नश्विनी भरणी तथा ।
एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः ॥
मृगी च मृगमन्दा¹ च श्वेता भद्रासना हरिः ।
पूता च कपिला दंष्ट्रा सुरसा² सरसा तथा ॥
एताः पुलस्त्यपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ।
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री तथा शुकी ॥
पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः ।
१ मृगचर्मा इत्यपि पाठः ।
२ सुरभा सुलभा इत्यपि पाठः ।

विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ६९
आयतिर्नियतिश्चैव रात्रिर्निद्रा च पार्थिव ॥
एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः ।
उमा सेना शची चैव धूमोर्णा निर्ऋतिस्तथा ॥
गौरी शिवा च बुद्धिश्च वलया चैव नन्दना ।
आनृक्या च तथा ज्योत्स्ना या च देवी वनस्पतिः ॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ।
महाकालश्च कालश्च मन्वन्तरयुगानि च ॥
संवत्सराणि सर्वाणि तथा चैवायनद्वयम् ।
ऋतवश्च तथा मासाः पक्षा रात्र्यहनी तथा ॥
सन्ध्याश्च तिथयश्चैव मुहूर्त्ताः करणानि च ।
एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥
आदित्यश्चन्द्रमा भौमो बुधजीवासितार्कजाः ।
ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ॥
स्वायम्भुवो मनुः पूर्वो मनुः स्वारोचिषस्तथा ।
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥
वैवस्वतोऽथ सावर्णो दक्षब्रह्मसुतावुभौ ।
धर्मपुत्रो रुद्रपुत्रो रौच्यो भौसश्च यो मनुः ॥
एतं त्वांभीषंश्चन्तु मनवस्तु चतुर्दश ।
विश्वगुर्विश्वपश्चित्रः स्वचित्तैश्च शिखी विभुः ॥
मनोजवस्तथौजस्वी बलिरङ्गतिमान्तिकौ ।
वृषश्च ऋतधामा च दिविस्पृक् शुचिरेव च ॥
एते त्वामभिषिञ्चन्तु देवपालाश्चतुर्दश ।
रेवन्तश्च कुमारश्च तथावर्चाः कुमारकः ॥
वीरभद्रश्च नन्दी च विश्वकर्मा पुरोजवः ।
१ सुशान्तः सुसुखी इत्यपि पाठः ।

७० वीरमित्रोदयस्य राजनीतिप्रकाशे
एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ॥
नासत्यौ देवभिषजौ भवेतां विजयाय ते ।
धरो रुद्रश्च सोमश्च आपश्चैवानलानिलौ ॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ महाप्रभाः ।
एते त्वामभिषिञ्चन्तु देवमुख्याः समागताः ॥
आत्मा ह्यायुर्मनो दक्षः पटुः प्राणस्तथैव च ।
हविष्यश्च गविष्ठश्च कृतः सत्यश्च पार्थिव ॥
अभिषिञ्चन्तु राजंस्त्वां देवा ह्याङ्गिरसो दश ।
क्रतुर्दक्षो वसुः सत्यः कालः कामो मुनिस्तथा ॥
धृतिमान्मनुजश्चैव रोचमानस्तथैव च ।
एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश ॥
अङ्गारकस्तथा शर्वो निर्ऋतिश्च तथा स्वरा ।
अजैकपादहिर्बुध्न्यः पुष्पकेतुस्तथा बुधः ॥
भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः ।
एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव ॥
भुवनो भावनश्चैव सुजन्यः सुजनस्तथा ।
क्रतुः सुवर्णवर्णश्च व्यजश्च व्यसुतस्तथा ॥
प्रसवश्चाव्ययश्चैव दत्तश्च मनुजाधिप ।
एते त्वामभिषिञ्चन्तु भृगवो नाम देवताः ॥
मनो मरुच्च प्राणश्च नरोऽपानश्च वीर्यवान् ।
चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा ॥
विधुश्चापि दिविश्रेष्ठस्तथान्यश्च जगद्धितः ।
एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव ॥
धाता मित्रोऽर्यमा पूषा शक्रोऽशो वरुणो भगः ।
त्वष्टा विवस्वान् सविता विष्णुर्द्वादशमः स्मृतः ॥

विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७१
एते त्वामभिषिञ्चन्तु काश्यपादितिसम्भवाः ।
एकद्वित्रिचतुर्ज्योतिः पञ्चज्योतिस्तथैव च ॥
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ।
इन्द्रश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तथा ॥
ऋतजित्सत्यजिच्चैव सुषेणः श्येनजित्तथा ।
अतिमित्रस्तथा मित्रः पुरुजिच्चापराजितः ॥
ऋतश्च ऋतवान् धाता वरुणो विधृतो ध्रुवः ।
विधारणो महातेजा वासवस्य परः सखा ॥
ईदृगन्यहशश्चैव एतादृगमिताशनः ।
क्रीडनश्च तथा शक्तिः सरभश्च महायशाः ॥
धातुरुग्रो मुनिर्भीमो ह्यभिमुक्तः क्षिपः सहः ।
द्युतिर्वपुरनाधृष्यो वासः कामो जयो विराट् ॥
एते त्वामभिषिञ्चन्तु मरुतश्च समागताः ।
देवा ह्येकोनपञ्चाशन्महाबलपराक्रमाः ॥
चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् ।
ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान् ॥
धृतराष्ट्रश्च सोमश्च सूर्यवर्चास्तथैव च ।
दुराधस्तृणपः कीर्णिर्नन्दिश्चित्ररथस्तथा ॥
कलिश्चाप्याङ्गिरा राजन् पर्जन्यो नारदस्तथा ।
वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ॥
विश्वावसुस्ताम्रकश्च तथा वसुरुचिश्च यः ।
एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते ॥
आहूतयः शोभयन्त्यश्च वेगवत्यस्तथैव च ।
आच्युवत्यस्तथोजैश्च तथा वेकुरयः शुभाः ॥
बभ्रवश्चामृतरुचो सुवश्चैव रुचस्तथा ।

२ वीरमित्रोदयस्य राजनीतिप्रकाशे
भीरवः शोचयन्त्यश्च दिव्या ह्यप्सरसां गणाः ॥
एतास्त्वामभिषिञ्चन्तु कामिन्यस्तरुणप्रियाः ।
अनुत्तमा सुरूपा च सुकेशी च मनोवती ॥
मेनका सहजन्या च पर्णाशा पुञ्जिकस्थली ।
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि ॥
प्रम्लोचाथाप्यनुम्लोचा रम्भा चैवोर्वशी तथा ।
पञ्चचूडा सामवती चित्रलेखा च पार्थिव ॥
मिश्रकेशी सुगन्धिश्च विद्युत्पर्णा तिलोत्तमा ।
अदृका लक्ष्मणा क्षेमा असिता रुचिका तथा ॥
सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा ।
पुण्डरीका सुदारा च सुराधा सुरसा तथा ॥
हेमा सरस्वती चैव कमला सूनृताऽभया ।
सुमुखी हंसपादी च वारुणी रतिलालसा ॥
एतास्त्वामभिषिञ्चन्तु राजन्नप्सरसः शुभाः ।
प्रह्लादश्च महातेजास्तथा राजन्विरोचनः ॥
बलिर्बाणस्तथान्ये च दितिपुत्राः समागताः ।
अभिषिञ्चन्तु दैत्याश्च दिव्येन ह्यम्भसा स्वयम् ॥
विप्रचित्तिमुखाः सर्वे दानवास्त्वां समागताः ।
अभिषिञ्चन्तु राजानं राज्यं कर्तुं सुसत्वराः ॥
हेत्यश्चैव प्रहेत्यश्च सलिलेन्द्रस्तथैव च ।
सुकेशी पौरुषेयश्च यज्ञहा पुरुषादकः ॥
विद्यत्सूर्यस्तथा व्यासो वधः श्वरसनस्तथा ।
एते त्वामाभिषिञ्चन्तु समागम्याथ राक्षसाः ॥
सिद्धार्थी मणिभद्रश्च सुमनो नन्दनस्तथा ।
कण्डूतिः पञ्चमश्चैव मणिमान् वसुमांस्तथा ॥

विष्णुधर्मोत्तरोक्ता अभिषेक मन्त्राः । ७३
सर्वानुभूतिः शङ्कुश्च पिङ्गाक्षश्चतुरस्तथा ।
यमो मन्दरसो भीमः पद्मचन्द्रः प्रभाकरः ॥
मेघवर्णश्च भव्यश्च प्रदोषश्च प्रभाकरः ।
भूतिमान् केतुमांश्चैव मौलिमांश्च सुदर्शनः ॥
श्वेतश्च विपुलश्चैव प्रद्युम्नश्च जयावहः ।
पद्मपक्षो वलाकश्च कुमुदश्च बलाहकः ॥
पद्मनाभः सुगन्धश्च सुवीरो विजयः कृतिः ।
पुर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ॥
एते त्वामभिषिञ्चन्तु राजवृद्धाश्च सत्तमाः ।
शङ्खः पद्मश्च राजेन्द्र मकरः कच्छपस्तथा ॥
महापद्मश्च नीलश्च खर्वः कुन्दो मुकुन्दकः ।
एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ॥
छागलाश्चैकवक्त्राश्च ये च सूचीमुखा नृप ।
दुष्पूरणा विषादाश्च ज्वलनाङ्गारकास्तथा ॥
कुम्भमात्राः प्रतुण्डाश्च उपवीरा उलूखलाः ।
अकर्णाश्चक्रखण्डाश्च तथा ये पात्रपाणयः ॥
पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा ।
एतास्त्वामभिषिञ्चन्तु पिशाचानां तु जातयः ॥
ब्रह्मचर्ये स्थिता दान्ताः सर्वज्ञाः सर्वदर्शनाः ।
नानाप्रकारवचना नानाबाहुशिरोधराः ॥
चतुष्पथपुराट्टालशून्यालयनिकेतनाः ।
त्रिपुरारिं भवं देवं ये गता मनुजेश्वर ॥
ते त्वामद्याभिषिञ्चन्तु गणा भूतपतेः स्वयम् ।
महाकालं पुरस्कृत्य नरसिंहं च मातरः ।
सर्वास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥
१०

७४ वीरमित्रोदयस्य राजनीतिप्रकाशे

ग्रहः स्कन्दो विशाखश्च नैगमेयस्तथैव च ।
अभिषिञ्चन्तु राजंस्त्वां सर्वे स्कन्दग्रहा इमे ॥
डाकिन्यो याश्च योगिन्यः खेचर्यो भूचरास्तथा ।
सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ॥
गरुडश्चारणश्चैव आरुणिश्च महाखगः ।
सम्पाती विनतश्चैव विष्णुर्गन्धकुमारकः ॥
एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते ।
अनन्तश्च महानागो वासुकिः शेषतक्षकौ ॥
सुपर्णारिश्च कुम्भश्च वामनोऽथाञ्जनोत्तमः ।
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥
एलापत्रश्च खण्डश्च कर्कोटकधनञ्जयौ ।
महाकर्णो महानीलो धृतराष्ट्रबलाहकौ ॥
कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ।
सोमनाथो दधिमुखः कालियः शालिंपिण्डकः ॥
बिल्वपादः पाण्डुरकनागश्चापूरणस्तथा ।
कपिलश्चाम्बरीषश्च कुमारश्चाप्यकच्छकः ॥
प्रह्लादः पुष्पदन्तश्च गन्धर्वश्च मनस्विकः ।
नहुषः खररोमा च शङ्खपालस्तथैव च ॥
पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः ।
नागास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥
कुमुदैरावतौ पद्मः पुष्पदन्तोऽथ वामनः ।
सुप्रतीकोऽञ्जनो नीलः पान्तु त्वां सर्वतो द्विपाः ॥
पैतामहस्तथा हंसो वृषभः शाङ्करस्तथा ।
दुर्गासिंहश्च पान्तु त्वां यमस्य महिषासनम् ॥
उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप ।

विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७५
कौस्तुभः शङ्खराजश्च पान्तु त्वां सर्वतः सदा ॥
चक्रं त्रिशूलं वज्रश्च नन्दकोऽस्त्राणि चाप्यथ ।
सर्वे ऽभिषेकं दत्त्वा च दिशन्तु विजयं ध्रुवम् ॥
धर्मश्च व्यवसायश्च सत्यं दानं तपस्तथा ।
यशो यज्ञास्तथैवायुर्ब्रह्मचर्यं दमः शमः ॥
एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव ।
दण्डः पिङ्गलकश्चैव मृत्युः कालान्तकावुभौ ॥
वालखिल्यास्तथा सर्वे भवन्तु विजयाय ते ।
दिग्धेनवश्चतस्रस्त्वां सुरभिश्च तथा नृप ॥
अभिषिञ्चन्तु सर्वाभिर्गोभिस्सार्द्धं नरेश्वर ।
वेदव्यासश्च वाल्मीकिः शमनोऽथ पराशरः ॥
देवलः पर्वतश्चैव दुर्वासा भागुरिः शुचिः ।
याज्ञवल्क्यः सजावालिर्जमदग्निः शुचिश्रवाः ॥
विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्विदूरथः ।
एकतश्च द्वितश्चैव त्रितो गौतमगालवौ ॥
शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः ।
बृहदश्वः कुविभवो जयजानुर्घटोदरः ॥
यवक्रीतोऽथ रैभ्यश्च आत्माधानश्च जैमिनिः ॥
ऋषिः सारङ्गवश्चैव तथागस्त्यो महातपाः ।
दुद्दुर्मुदुर्मिश्रश्चैव वृद्धबाहुर्महोदयः ॥
कात्यायनश्च कण्वश्च वलाकश्चेभनन्दनः ।
एते त्वामभिषिञ्चन्तु मुनयः पार्थिवोत्तम ॥
पृथुर्दिलीपो भरतो दुष्यन्तः शत्रुजिद्वली ।
मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः ॥
मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः ॥

आयुश्च नहुषश्चैव ययातिरपराजितः ॥
इक्ष्वाकुश्च यदुश्चैव पूरुर्भूरिश्रवास्तथा ।
अम्बरीषश्च नाभागो बृहदश्वो महाहनुः ॥
प्रद्युम्नश्चाथ सुद्युम्नो भूरिद्युम्नश्च सृञ्जयः ।
एते चान्ये च राजानस्तव राजन् दिवं गताः ॥
समायान्त्वभिषेकाय विजयाय तथा श्रिये ।
पर्जन्याख्यास्तथा भूप मेघाः सर्वे समागताः ॥
द्रुमाश्चौषधयो रत्नं बीजानि विविधानि च ।
सर्वे त्वामभिषिञ्चन्तु राजराज्ये सुसत्त्वराः ॥
पुरुषश्चाप्रमेयात्मा महाभूतानि यानि च ।
पृथिवी वायुराकाशमापो ज्योतिस्तथैव च ॥
मनो बुद्धिस्तथैवात्मा अव्यक्तं च महीपते ।
एते त्वामभिषिञ्चन्तु समेता वसुधाधिप ॥
रुक्मभौमः शिलाभौमः पातालो नीलमृत्तिकः ।
पीतरक्तासिताश्चैव श्वेतभौमस्तथैव च ॥
एते त्वामभिषिञ्चन्तु विजयाय महीपते ।
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महर्जनः ॥
तपः सत्यं च राजेन्द्र विजयाय भवन्तु ते ।
जम्बूः शाकः कुशः क्रौञ्चः शाल्मलिद्वीप एव च ।
प्लक्षश्च पुष्करश्चैव स्वस्वाम्यं प्रदिशन्तु ते ॥
उत्तराः कुरवः पुण्या रम्या हैरण्वतास्तथा ।
भद्राश्वः केतुमालश्च वर्षश्चैव इलावृतः ॥
हरिवर्षः किम्पुरुषो वर्षो भारतसंज्ञकः ।
एते त्वामभिषिञ्चन्तु समेत्य वसुधाधिप ॥
इक्षुद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।

विष्णुधर्मोत्तोरोक्ता अभिषेकमन्त्राः । ७७
नागद्वीपस्तथा सौम्यो गन्धर्वो वरुणस्तथा ॥
अयं च नवमस्तेषां स्वस्वाम्यं प्रदिशन्तु ते ।
हिमवान् हेमकूटश्च निषधो नील एव तु ॥
श्वेतशृङ्गो ऽगवान् मेरुर्माल्यवद्गन्धमादनौ ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा ॥
विन्ध्यश्च पारियात्रश्च सर्व एव महीधराः ।
समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप ॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च ।
अथर्ववेदो वेदास्त्वामभिषिञ्चन्तु पार्थिव ॥
इतिहासो धनुर्वेदो गान्धर्वश्चायुसंज्ञितः ।
सप्तोपवेदाश्च तथा विजयाय भवन्तु ते ॥
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः ।
छन्दोविचितिषष्ठानि विजयं प्रदिशन्तु ते ॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रं पुराणं च विद्यां ह्येताश्चतुर्दश ॥
साङ्ख्यं योगः पाञ्चरात्रो वेदाः पाशुपतं तथा ।
कृतान्तपञ्चकं चैव शास्त्राणि विविधानि च ।
गायत्री पापशमनी गङ्गादेवी महाशिवा ॥
गान्धारी च तथा विद्या विजयं प्रदिशन्तु ते ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥
ऋषयो मनवो गावो देवमातर एव च ।
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये ॥
स्थानानि च समस्तानि पुण्यान्यायतनानि च ।

७८ वीरमित्रोदयस्य राजनीतिप्रकाशे
जीमृतानि च सर्वाणि तद्विकाराश्च सर्वशः ॥
उक्तानि चाप्यनुक्तानि विजयाय भवन्तु ते ।
लवणक्षीरतोयाश्च घृतमण्डोदकास्तथा ॥
दधिमण्डोदकाश्चैव सुरोदश्च नराधिप ।
तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः ॥
गर्भोदकश्च तोयैस्त्वामभिषिञ्चन्तु पार्थिव ।
चत्वारः सागराश्चैव स्वेन तोयेन पार्थिव ॥
समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते ।
पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ॥
तथा ब्रह्मसरः पुण्यं गयाशीर्षं तु पार्थिव ।
कालोदको नन्दिकुण्डस्तथैवोत्तरमानसः ॥
स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः ।
भृगुतीर्थं प्रभासञ्च तथैवामरकण्ठकः ॥
आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः ।
गोतीर्थं चाग्नितीर्थं च विमलः स्वर्ग एव तु ॥
जम्बूमार्गश्च विमलः पुण्यस्तन्दुलिकाश्रमः ।
कपिलस्य तथा तीर्थं तीर्थे वातिकखण्डिकौ ॥
महासरस्तथागस्त्यकुमारीतीर्थमेव तु ।
गङ्गाद्वारकुशावर्त्तौ बिल्वको नीलपर्वतः ॥
वाराहः पर्वतश्चैव तीर्थं कनखलं तथा ।
सुगन्धा च धराकुम्भा तथा शाकम्भरीति या ॥
भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमः ।
चमसोद्भेदकः पुण्यस्तथा विनशनं शुभम् ॥
अजतुङ्गश्च मोचश्च अश्वगन्धश्च पार्थिव ।
कालञ्जरः सकेदारो रुद्रकोटिस्तथैव च ॥

विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः ।
महालयश्च राजेन्द्र वदर्याश्रम एव तु ।
नन्दा च सोमतीर्थं च सूर्यतीर्थं शतक्रतोः ॥
अश्विनोर्वरुणस्याथ वायोर्वैश्रवणस्य तु ।
ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य तु ॥
विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप ।
ऋषीणां च वसूनां च साध्यानां मरुतां तथा ॥
आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप ।
विश्वेदेवभृगूणां च तथाऽन्येषां तु मानद ॥
प्लक्षप्रस्रवणश्चैव सुषुम्ना च नराधिप ।
शालग्रामसरश्चैव वाराहो मानसस्तथा ॥
कामाश्रमस्त्रिकूटश्च चित्रकूटस्तथैव च ।
सपूर्वः ऋतुसारश्च तथा विष्णुपदं सरः ॥
कापिलं च तथा तीर्थं वासुकेस्तीर्थमेव च ।
सिन्धूत्तमस्तपोद्वारोऽप्यथ शूर्पारकुम्भकः ।
पुण्डरीकश्च राजेन्द्र गङ्गासागरसङ्गमः ॥
सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः ।
तथा कुम्भावसुन्दश्च मानसं तु तथा सरः ॥
तथा बिन्दुसरः पुण्यं सर अच्छोदकं तथा ।
धर्मारण्यं फल्गुतीर्थमविमुक्तं तथैव च ॥
लौहित्यश्च तथा पुण्यो बदरीपावनः शिवः ।
तीर्थं सप्तऋषीणां तु वह्नितीर्थं तु पार्थिव ॥
पुण्यवस्त्रापथो मेषच्छागलेशस्तु पार्थिव ।
पुष्पन्यासस्तथा चैव तीर्थं हंसपदं तथा ॥
अश्वतीर्थं च कर्णेशो मणिमन्थस्तथैव च ।
देविका इन्द्रमार्गश्च स्वर्णविन्दुस्तथैव च ॥

८० वीरमित्रोदयस्य राजनीतिप्रकाशे
आहल्यकं तथा तीर्थं तीर्थं चैरावतं तथा ।
ऐरावतीसमुद्भेदे तीर्थं भोगयशःपदम् ॥
करवीराह्वयं चैव नागमो वणिकस्तथा ।
पापमोचनिकश्चैव ऋणमोचनिकस्तथा ॥
उद्वेजनस्तथा पुण्यः सम्पूज्यः सरसीवरः ।
देवब्रह्मसरः पुण्यं सर्पिर्दधि तु पार्थिव ॥
एते चान्ये तु बहवः पुण्यसङ्कीर्तनाः शुभाः ।
तोयैस्त्वामभिषिञ्चन्तु सर्वपातकनाशनैः ॥
गङ्गा महानदी पुण्या ह्रदिनी ह्लादिनी तथा ।
पावनी च तथा सीता चक्षुः सिन्धुः सुनर्मदा ॥
सुप्रभा काञ्चनाक्षी च विशाला मानसी ह्रदा ।
सरस्वत्योधनादा च सुवेषा विमलोदका ॥
शिप्रा शोणश्च तर्षश्च सरयूर्गण्डकी तथा ।
अच्छोदा च विभागा च चन्द्रभागा इरावती ॥
वितस्ता देविका रम्भा कोशी देवह्रदा शिवा ।
तथा चेक्षुमती पुण्या कौशिकी यमुना तथा ॥
गोमती धूतपापा च बाहुदा च सरस्वती ।
निर्विन्ध्या च तृतीया च लोहितश्च महानदः ॥
वेदस्मृतिर्वेदमाता वेत्रघ्नी वरदा तथा ।
पर्णाशा वन्दना चैव सदानीरा कुमुद्वती ॥
पीता चर्मण्वती धूमा विदर्भा वेणुमत्यपि ।
अवन्ती च तथा कुन्ती सुरसा च पलाशिनी ॥
मन्दाकिनी दशार्णा च सिन्धुरेखा कुमुद्वती ।
तपती पिप्पला श्येनी करतोया पिशाचिका ॥
चित्रोत्पला चित्रवर्णा मञ्जुला वालुकामती ।

विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ८१
शुक्तिमती सिनीवाली मण्डूणी कृपिका कपूः ॥
तापी पयोष्णी निर्विन्ध्या सिता च निषधावती ।
वेणा वैतरणी भीमा मन्दुश च तथा कुहूः ॥
तोया चैव महागौरी दुर्गतिर्मिङ्गिला तथा ।
गोदावरी भीमरथी कृष्णवेणाथ बञ्जरा ॥
तुङ्गभद्रा सुप्रकारा बाह्या कावेरिरेव च ।
कृतमाला ताम्रपर्णी पुष्पभद्रोत्पलावती ॥
नृसमा ऋषिकुल्या च इक्षुका त्रिदिवालया ।
लाङ्गुलिनी वंशधरी जम्बूश्च सुकलावती ॥
ऋषिका वरवेगा च मन्दगा मन्दवाहिनी ।
क्षमादेवी दया व्योमा पयोष्णी कालवाहिनी ॥
कम्पनो च विशाला च करतोया युवाहिनी ।
ताम्रारुणा वेत्रवती सुभद्रा चाश्ववत्यपि ॥
अहिणीका इमा चैव सुप्रकारा हिरण्मयी ।
आपगा लोपलाभासी सन्ध्या तु वडवा नदी ॥
महेन्द्रवाणा शाला च मीलिका वलयावती ।
नीलोद्धतकरा चैव बाहुदा वनवासिनी ॥
नन्दा चैवोपनन्दा च वरदा च सुवासिनी ।
एताश्चान्याश्च राजेन्द्र नद्यस्त्वां विविधोदकाः ॥
सर्वपापप्रशमनाः सर्वलोकस्य मातरः ।
स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव ॥
एतैर्यथोक्तैर्नृप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम् ।
ससागरां भुङ्क्ष्व चिरं च जीव धर्मे च ते बुद्धिरतीव चास्तु ॥
इत्यभिषेकमन्त्राः ।
११