सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 79, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 79

विष्णुधर्मोत्तोरोक्ता अभिषेकमन्त्राः । ७७
नागद्वीपस्तथा सौम्यो गन्धर्वो वरुणस्तथा ॥
अयं च नवमस्तेषां स्वस्वाम्यं प्रदिशन्तु ते ।
हिमवान् हेमकूटश्च निषधो नील एव तु ॥
श्वेतशृङ्गो ऽगवान् मेरुर्माल्यवद्गन्धमादनौ ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा ॥
विन्ध्यश्च पारियात्रश्च सर्व एव महीधराः ।
समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप ॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च ।
अथर्ववेदो वेदास्त्वामभिषिञ्चन्तु पार्थिव ॥
इतिहासो धनुर्वेदो गान्धर्वश्चायुसंज्ञितः ।
सप्तोपवेदाश्च तथा विजयाय भवन्तु ते ॥
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः ।
छन्दोविचितिषष्ठानि विजयं प्रदिशन्तु ते ॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रं पुराणं च विद्यां ह्येताश्चतुर्दश ॥
साङ्ख्यं योगः पाञ्चरात्रो वेदाः पाशुपतं तथा ।
कृतान्तपञ्चकं चैव शास्त्राणि विविधानि च ।
गायत्री पापशमनी गङ्गादेवी महाशिवा ॥
गान्धारी च तथा विद्या विजयं प्रदिशन्तु ते ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥
ऋषयो मनवो गावो देवमातर एव च ।
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये ॥
स्थानानि च समस्तानि पुण्यान्यायतनानि च ।