वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 80, कुल 490 में से
संदर्भ में पढ़ें७८ वीरमित्रोदयस्य राजनीतिप्रकाशे
जीमृतानि च सर्वाणि तद्विकाराश्च सर्वशः ॥
उक्तानि चाप्यनुक्तानि विजयाय भवन्तु ते ।
लवणक्षीरतोयाश्च घृतमण्डोदकास्तथा ॥
दधिमण्डोदकाश्चैव सुरोदश्च नराधिप ।
तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः ॥
गर्भोदकश्च तोयैस्त्वामभिषिञ्चन्तु पार्थिव ।
चत्वारः सागराश्चैव स्वेन तोयेन पार्थिव ॥
समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते ।
पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ॥
तथा ब्रह्मसरः पुण्यं गयाशीर्षं तु पार्थिव ।
कालोदको नन्दिकुण्डस्तथैवोत्तरमानसः ॥
स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः ।
भृगुतीर्थं प्रभासञ्च तथैवामरकण्ठकः ॥
आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः ।
गोतीर्थं चाग्नितीर्थं च विमलः स्वर्ग एव तु ॥
जम्बूमार्गश्च विमलः पुण्यस्तन्दुलिकाश्रमः ।
कपिलस्य तथा तीर्थं तीर्थे वातिकखण्डिकौ ॥
महासरस्तथागस्त्यकुमारीतीर्थमेव तु ।
गङ्गाद्वारकुशावर्त्तौ बिल्वको नीलपर्वतः ॥
वाराहः पर्वतश्चैव तीर्थं कनखलं तथा ।
सुगन्धा च धराकुम्भा तथा शाकम्भरीति या ॥
भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमः ।
चमसोद्भेदकः पुण्यस्तथा विनशनं शुभम् ॥
अजतुङ्गश्च मोचश्च अश्वगन्धश्च पार्थिव ।
कालञ्जरः सकेदारो रुद्रकोटिस्तथैव च ॥