वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 83, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ८१
शुक्तिमती सिनीवाली मण्डूणी कृपिका कपूः ॥
तापी पयोष्णी निर्विन्ध्या सिता च निषधावती ।
वेणा वैतरणी भीमा मन्दुश च तथा कुहूः ॥
तोया चैव महागौरी दुर्गतिर्मिङ्गिला तथा ।
गोदावरी भीमरथी कृष्णवेणाथ बञ्जरा ॥
तुङ्गभद्रा सुप्रकारा बाह्या कावेरिरेव च ।
कृतमाला ताम्रपर्णी पुष्पभद्रोत्पलावती ॥
नृसमा ऋषिकुल्या च इक्षुका त्रिदिवालया ।
लाङ्गुलिनी वंशधरी जम्बूश्च सुकलावती ॥
ऋषिका वरवेगा च मन्दगा मन्दवाहिनी ।
क्षमादेवी दया व्योमा पयोष्णी कालवाहिनी ॥
कम्पनो च विशाला च करतोया युवाहिनी ।
ताम्रारुणा वेत्रवती सुभद्रा चाश्ववत्यपि ॥
अहिणीका इमा चैव सुप्रकारा हिरण्मयी ।
आपगा लोपलाभासी सन्ध्या तु वडवा नदी ॥
महेन्द्रवाणा शाला च मीलिका वलयावती ।
नीलोद्धतकरा चैव बाहुदा वनवासिनी ॥
नन्दा चैवोपनन्दा च वरदा च सुवासिनी ।
एताश्चान्याश्च राजेन्द्र नद्यस्त्वां विविधोदकाः ॥
सर्वपापप्रशमनाः सर्वलोकस्य मातरः ।
स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव ॥
एतैर्यथोक्तैर्नृप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम् ।
ससागरां भुङ्क्ष्व चिरं च जीव धर्मे च ते बुद्धिरतीव चास्तु ॥
इत्यभिषेकमन्त्राः ।
११