सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

१८ वीरमित्रोदयस्य राजनीतिप्रकाशे
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥
योऽग्नेरतिसमीपमनवहितः समुपसर्पति तमेकमेवाग्निर्दह-
ति न तत्पुत्रादिकमिति । अन्यैस्तु दुःखेन मरणाद्युद्यतम् अ-
ग्निसमीपगामिनमिति व्याख्यातम् । एतद्व्याख्याद्वितयादपि
दुरुपसर्पिणं स्वापराधं ज्ञात्वापि बलात्तत्सद्दिग्ये प्रवृत्तमग्निरेकमेव
दहति तम्, अन्यायपथगामिनं ज्ञात्वा क्रुद्धो राजा तं तदीयकुलं
च पुत्रभ्रात्रादिरूपं पशुभिर्धनसञ्चयैश्च सहितं नाशयतीति व्या-
ख्यानं युक्तम् । एवमेकविषयतापि लभ्यते ।
कार्याण्यवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
कुरुते धर्मसिद्धयर्थं विश्वरूपं पुनः पुनः ॥
कार्यं सोऽवेक्ष्येति क्वचित्पाठः । कार्यम् अनुग्रहनिग्रहादि-
योग्यताम्, शक्तिं बलम्, देशं दूरनिकटादिकम्, कालं सुभि-
क्षदुर्भिक्षादिमवेक्ष्यात्मानं विश्वरूपं नानारूपं करोति । क्षणे
तुष्टः क्षणे रुष्टः । अशक्तौ क्षान्तः शक्तौ उन्मूलकः । स्वकार्या-
नुरोधेन शत्रुर्मित्रं उदासीनो वा भवति । अत एव—
कस्य राजा भवेन्मित्रं कानि मित्राणि राजनि ।
राजा मित्रं केन दृष्टं श्रुतं वा ।
इत्युक्तम् । तेन मैत्र्यादिनापि नावमन्तव्यः ।
यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥
श्रीकामेन श्रीप्राप्त्यै शत्रुमता शत्रुहननाय जीवितार्थिना
जीवस्थित्यै राजा सेव्यः । अत्र मेधातिथ्यादयः-पद्माशब्दः
श्रीपर्यायोऽपि महत्त्वप्रतिपादनाय, अर्थाद्वैय्यर्थं पद्माशब्दस्य ।
वस्तुतस्तु पद्मा लक्ष्मीः, श्रीः शरीरशोभा । तथा च-“श्रीश्च ते

राजप्रशंसा । १९
लक्ष्मीश्च पत्न्यौ"इत्यत्र व्याख्यातम्-श्रीः शरीरशोभा लक्ष्मीः
प्रसिद्धेति । यद्वा प्रसादे पद्मा, पराक्रमे श्रीर्विजयश्च । दिक्पा-
लरूपत्वात्तस्य तत्कार्यकारित्वमाह-
स एव,
इन्द्रस्यार्कस्य वातस्य यमस्य वरुणस्य च ।
सोमस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥
तेजोवृत्तम् इन्द्राद्यंशसदृशमाचरणम् ।
वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति ।
तथाऽभिवर्षेत्तद्राष्ट्रं कामैरिन्द्रव्रतं चरन् ॥
चतुरः श्रावणादीन् ।
अष्टौ मासान् यथाऽऽदित्यस्तोयं हरति रश्मिभिः ।
तथा हरेत्करं राष्ट्रात्सम्‍यगर्कव्रतं हि तत् ॥
अष्टौ मार्गशीर्षादीन् ।
प्रविश्य सर्वभूतानि यथा चरति मारुतः ।
तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥
यथा यमः प्रियेद्वेष्यौ प्राप्ते काले नियच्छति ।
तथा राज्ञा नियन्तव्यः सर्वस्तद्धि यमव्रतम् ॥
वरुणेन यथा पाशैर्बद्ध एव हि दृश्यते ।
तथा पापान्निगृह्णीयाद्व्रतमेतद्धि वारुणम् ॥
परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः ।
तथा प्रकृतयो यस्मिन् स चन्द्रव्रतिको नृपः ॥
प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु ।
दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥
यथा सर्वाणि भूतानि धरा धारयते समम् ।
तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥

१. प्रथम प्रकाश: राजा के गुण, राज्याभिषेक विधान, मन्त्री एवं अमात्य-परीक्षा

२० वीरमित्रोदयस्य राजनीतिप्रकाशे
यथा सर्वाणि स्थावरजङ्गमानि उत्कृष्टनिकृष्टानि पृथिवी धार-
यति तथा सर्वाणिकरदायिदीनानाथार्तादीनि रक्षणादिना धारय-
तः पृथिवीसम्बन्धि व्रतम् ।
एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः ।
स्तेनान् राजा निगृह्णीयात्स्वराष्ट्रे पर एव च ॥
अतन्द्रितोऽनलसः । स्तेनान् चौरान् । इयं च पूर्वोक्तदे-
वांशरूपता महाराजस्यैव ।
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।
अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च ॥
इतीयं नारदोक्तपञ्चरूपता तु कियन्माण्डलिकस्य भूपस्य ।
अत एव—
बृहत्पराशरेण,
हर्यश्ववह्न्यन्तकविश्वनाथशीतांशुरूपाणि हि बिभ्रतीह ।
सर्वेऽपि भूपास्त्विह पञ्चरूपास्तत्कथ्यमानं शृणुत द्विजेन्द्राः॥
इत्यत्र सामान्यवाचि सर्वपदमुपात्तम् । हर्यश्व इन्द्रः । अ-
ग्न्यादिकार्यकारित्वेन तत्तद्रूपतां द्रढयति—
नारदः,
कारणान्निर्निमित्तं वा यदा क्रोधवशं गतः ।
प्रजा दहति भूपालस्तदाग्निरभिधीयते ॥
बृहत्पराशरोऽपि,
अकारणात्कारणतोऽपि चैष प्रजा दहेत्कोपसमिद्धरोचिः ।
यदा तदैनं नृपनीतिविज्ञास्तनूनपातं प्रवदन्ति भूपम् ॥ इति ।
अकारणादिति दुष्टनृपविषयम् ।
नारदः,
यदा तेजः समालम्बेद्विजिगीषुरुदायुधः ।

राजप्रशंसा । २१
अभियाति परान् राजा तदेन्द्रः समुदाहृतः ॥
तथा बृहत्पराशरः,
यदा जिगीषुर्घृतशस्त्रपाणिस्त्विषं समालम्ब्य सचित्तसैन्यः ।
सर्वान्सपत्नानिह जेतुकामस्तदा स हर्यश्व इवेह भाति ॥ इति ।
नारदः,
विगतक्रोधसन्तापो हृष्टरूपो यदा नृपः ।
प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥
तथा बृहत्पराशरः,
समस्तशीतांशुगुणप्रयुक्तो यदा प्रजामेष शुभाय पश्येत् ।
प्रसन्नमूर्त्तिर्गतमत्सरः संस्तदोच्यते सोम इति क्षितीशः ॥
नारदः,
धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः ।
समः सर्वेषु भूतेषु तदा वैवस्वतो यमः ॥
तथा बृहत्पराशरः,
धर्मासनस्थः श्रुतशास्त्रदृष्ट्या शुभाशुभाचारविचारकृत्स्यात् ।
धर्मेषु दानं त्वथ कृत्स्नदण्डं तदाऽवनीशस्त्विह धर्मराजः ॥
नारदः,
यदा त्वर्थिगुरून् प्राज्ञान् भृत्यादीन् पृथिवीपतिः ।
अनुगृह्णाति दानेन तदा धनद उच्यते ॥
बृहत्पराशरोऽपि,
यदा त्वमात्यद्विजपावकादीन् प्रहृष्टचित्तश्च यथोचितेन ।
धनप्रदानेन करोति हृष्टान् भूभृत्तदाऽसौ द्रविणेशवत्स्यात् ॥
अग्न्यादिपञ्चरूपत्वमुक्त्वाऽनाद्यनन्तात्मकविष्णुरूपत्वमाह—
नारदः,
अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः ।

२२ वीरमित्रोदयस्य राजनीतिप्रकाशे
दीप्तत्वाच्च शुचित्वाच्च यद्यसौ न पथश्च्युतः ॥
पथश्च्युतो भ्रष्टाचारः ।
अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः ।
शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥
अशुचिरित्यादिः तस्मात्तं नावजानीयादित्यस्याग्रेतन-
स्यार्थवादः ।
तस्मात्तं नावजानीयान्नाक्रोशेन विशेषयेत् ।
वस्त्रालङ्कारादिभिस्तमपेक्ष्यात्मानं नाधिकं कुर्यात् ।
आज्ञया तस्य तिष्ठेत्तु मृत्युः स्यात्तद्व्यतिक्रमे ॥
आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
स यद्ब्रूयादसत्सद्वा स धर्मो व्यवहारिणाम् ॥
राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक् ।
न तस्याज्ञामतिक्रम्य प्रतिष्ठेरन्निमाः प्रजाः ॥
रक्षाधिकारादीशत्वाद्भूतानुग्रहदर्शनात् ।
यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः ॥
निर्गुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा ।
प्रजानां निर्गुणोऽप्येवं पूज्य एव नराधिपः ॥
राज्ञामाज्ञाभयाद्यस्मान्न च्यवन्ते पथः प्रजाः ।
व्यवहारस्ततो ज्ञेयः शंसतो राजशासनम् ॥
राजशासनं राजाज्ञाम् ।
स्थित्यर्थं पृथिवीपालैश्चारित्रविधयः कृताः ॥
चारित्रविधयः राजकृता भागादिव्यवस्थाः ।
चारित्रेभ्योऽप्यतः प्राहुर्गरीयो राजशासनम् ॥
तपःक्रीताः प्रजा राज्ञः प्रभुरासां नराधिपः ।
तस्मात्तद्वचसि स्थेयं वार्ता तासां तदाश्रया ॥

वार्ता कृषिपाशुपाल्यादिवृत्तिः ।
मनुः,
यस्तु तं द्वेष्टि सम्मोहात्स विनश्यत्यसंशयम् ।
तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥
तं राजानम् । द्वेष्टि तदाज्ञाभङ्गं करोति । स विनश्यति रा-
जकृतवधभाग्भवतीत्यर्थः ।
बृहत्पराशरोऽपि,
आज्ञा नृपाणां परमं हि तेजो यस्तां न मन्येत स शस्त्रवध्यः।
श्रूयाच्च कुर्याच्च वदेच्च भूभृत्तदेव कार्यं भुवि सर्वलोकैः ॥
दुर्धर्षतीव्रांशुसमानदीप्तेर्भूयान्मनुष्यः परुषं नृपस्य ।
यस्तस्य तेजोऽप्यवमन्यमानः सद्यः स पञ्चत्वमुपैति पापात् ॥
योऽह्नाय सर्वं विदधाति पश्येत् शृणोति जानाति चकास्ति शास्ति ।
कस्तस्य चाज्ञां न बिभर्त्ति राज्ञः समस्तदेवांशभवः स यस्मात् ॥
अह्नाय शीघ्रम् ।
तस्माद्धर्मं यमिष्टेषु संव्यवस्येनराधिपः ।
अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥
यतः सर्वतेजोमयो राजा तस्माद्धेतोरिष्टेषु वल्लभेषु मन्त्रिपु-
रोहितादिषु यं धर्मं यां व्यवस्थां स्मृत्याचाराविरुद्धां व्यवस्येत्
निश्चित्य स्थापयेत् तां न विचालयेत् । सा तादृशी राज्ञ आज्ञा
अनतिक्रमणीया । अद्य सर्वैरुत्सवः कर्त्तव्यः मन्त्रिगृहे वि-
वाहो वर्तते तत्र सर्वैः सन्निधातव्यम्, तथा सौनिकैरद्य पश-
वो न हन्तव्याः न शकुन्तयो बन्धायितव्याः, नर्त्तका धनि-
कैरुपरोधनीया एतावन्त्यहानि । एवमनिष्टेष्वपि-एतेन सह सं-
सर्गो न विधेयः, एतस्य गृहे प्रवेशो न देयः । एवंविधो धर्मः
स्पृहादोषादिना राजादिष्टो नातिक्रमणीयः । न त्वग्निहोत्रादि-

२४ वीरमित्रोदयस्य राजनीतिप्रकाशे
धर्मव्यवस्थायै वर्णाश्रमिणां राजा प्रभवति स्मृत्यन्तरविरोधप्र-
सङ्गात् । अविरोधे चास्मिन् विषये वचनस्यार्थवत्त्वात् ।
बृहस्पतिः,
बलेन चतुरङ्गेण यतो रञ्जयति प्रजाः ।
दीप्यमानः स वपुषा तेन राजाऽभिधीयते ॥
बलने सेनया । चतुरङ्गेण हस्त्यश्वरथपादातेन ।
अङ्गिराः,
गुरुवद्येन भूपाळः पापं दण्डेन भूयसा ।
संस्करोत्यवनाच्चैव तेनासौ गुरुरुच्यते ॥
पापं पापकारिणम् । संस्करोति शुद्धं करोति । शुद्धं कृत्वा-
ऽवति च ।
बृहत्पाराशरे,
अथातो नृपतेर्धर्मम्-इत्युपक्रम्य ।
भूभृत् भूम्यां परो देवः पूज्योऽसौ परदेववत् ।
स विधाता च सर्वस्य रक्षिता शासिताऽपि सः ॥
परो देवः स्वाराध्यदेवः ।
महाभारते,
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते ।
परस्परं च खादन्ति सर्वथा धिगराजकम् ॥
इन्द्रमेव प्रवृणुते यद्राजानमिति श्रुतिः ।
यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता ॥
नाराजकेषु राष्ट्रेषु वस्तव्यमिति रोचये ।
नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहेत्युत ।
अथ चेदभिवर्तेत राज्यार्थं बलवत्तरः ॥
अराजकानि राष्ट्राणि हतवीर्याणि वा पुनः ॥

राजप्रशंसा । २५
न हि पापातपरतरमस्ति किञ्चिदराजकात् ।
स चेत्समनुपश्येत समग्रं कुशलं भवेत् ॥
श्रीरामायणे,
नाराजके जनपदे योगः क्षेमं प्रवर्त्तते ।
न चाप्यराजके सेना शत्रून् विषहते परान् ॥
अराजके राजरहिते । अलब्धलाभो योगः । लब्धस्य र-
क्षणं क्षेमम् । विषहते तन्निवारणक्षमा भवति ।
विपालाश्च यथा गावो यथा चातृणकं वनम् ।
विपाला रक्षकरहिताः ।
अजलाश्च यथा नद्यस्तथा राष्ट्रमराजकम् ॥
अन्धं तम इवेदं स्यान्नेह ज्ञायेत किञ्चन ।
राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी ।
गरुडपुराणे,
धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥
श्रीमहाभारते,
राजा प्रगल्भं पुरुषं करोति राजा कृशं बृंहयते मनुष्यम् ।
राजाभिपन्नस्य कुतः सुखानि राजाऽभ्युपेतं सुखिनं करोति ॥
राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च ।
यमाश्रिता लोकमिमं परं च जयन्ति सम्यक् पुरुषा नरेन्द्र ॥
राजाभिपन्नस्य राज्ञा अभिपन्नस्य कृताभियोगस्य ।
राजधर्मे,
बृहस्पतिरुवाच ।
राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते ।
प्रजा राजभयादेव न खादन्ति परस्परम् ॥
४

राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् ।
समुदीर्णम् सम्यक्कृतोदीरणं, समीचीनप्रकारेण स्वस्वदुः
खाद्याख्यायकम् । समुत्सुकम् दुःखवशेन देशग्रामादि परित्य-
क्तुमुत्कण्ठावन्तम् ।
प्रसादयति धर्मेण प्रसाधयंति राजते ॥
यथा ह्यनुदये राजन् भूतानि शशिसूर्ययोः ।
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ॥
यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः ।
निराक्रन्दे आक्रन्दतीत्याक्रन्दो निषेधस्तदभावे ।
विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः ॥
न मिथ्यातिक्रमेरंश्च विषह्यापि परस्परम् ।
नेति काकुः । विमध्यातिक्रमेरन् इति पाठस्तु सुगम एव ।
अभावमचिरेणैव गच्छेयुर्नात्र संशयः ॥
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः ।
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ॥
हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान् ।
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ॥
व्यायच्छमानान् कृतप्रयत्नान् ।
ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः ।
विष्वग्लोपः प्रवर्त्तेत यदि राजा न पालयेत् ॥
यानं वस्त्रमलङ्कारान् रत्नानि विविधानि च ।
हरेयुः सहसा पापा यदि राजा न पालयेत् ॥
पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु ।
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ॥
१ प्रसाध च विराजते इति मुद्रितभारतपुस्तके पाठः ।

राजप्रशंसा । २७
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् ।
क्लिश्नीयुर्वापि हिंस्युर्वा यदि राजा न पालयेत् ॥
वन्यबन्धपरिक्लेशो नित्यमर्थवतां भवेत् ।
ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ॥
अन्ताश्चाकाल एव स्युर्लोकोऽयं दस्युसाद्भवेत् ।
पतेयुर्नरकं घोरं यदि राजा न पालयेत् ॥
न योनिदोषो वर्त्तेत न कृषिर्न वणिक्पथः ।
योनिदोषः योनिदोषकृताऽव्यवहार्यता, दण्डादिश्च ।
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ॥
न यज्ञाः सम्प्रवर्त्तेयुर्विधिवत्स्वाप्तदक्षिणाः ।
न विवाहाः समाजो वा यदि राजा न पालयेत् ॥
न वृषाः सम्प्रवर्त्तेरन्नुन्मथ्येरंश्च गह्वराः ।
गह्वराः साहसिकाः ।
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ॥
त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् ।
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ॥
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः ।
तिष्ठेयुः अनुतिष्ठेयुः ।
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् ॥
ब्राह्मणाश्चतुरो वेदान्नाधीयीरंस्तपस्विनः ।
विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत् ॥
न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः ।
हतः धर्महीनैरविप्रैर्हतः अनुपदिष्टधर्मः । यद्वा इतः कि-
श्चित्पीडितो, विप्रहतो विशेषेण प्रहतः प्रपीडितः । धर्मसंश्लेषं
धर्मसम्बन्धम् ।

३० वीरमित्रोदयस्य राजनीतिप्रकाशे
राजाऽस्य जगतां हेतुर्वृद्धेर्दृष्टाभिसम्मतः ।
नयनानन्दजननः शशाङ्क इव तोयधेः ॥
यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा ।
अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥
कात्यायनः,
श्रोत्रिया विधवा बाला दुर्बलाश्च कुटुम्बिनः ।
एते राजवला राज्ञा रक्षितव्याः प्रयत्नतः ॥
अनाथस्य नृपो नाथस्त्वगृहस्य नृपो गृहम् ।
अपुत्रस्य नृपः पुत्रो ह्यपितुः पार्थिवः पिता ॥
कालिकापुराणे,
अपुत्रस्य नृपः पुत्रो निर्द्धनस्य धनं नृपः ।
अमातुर्जननी राजा ह्यतातस्य पिता नृपः ॥
अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः ।
अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा ॥
गरुडपुराणे,
अनायके न वस्तव्यं तथा च बहुनायके ।
स्त्रीनायके न वस्तव्यं तथा च शिशुनायके ॥
तथा,
अबलस्य बलं राजा वालस्य रुदितं वलम् ।
वलं मूर्खस्य मौनं तु तस्करस्यानृतं बलम् ॥
मार्कण्डेयपुराणेऽपि राज्ञःपञ्चरूपत्वमुक्तम्—
मदालसोपाख्याने ।
शक्रार्कयमसोमानां तद्वद्वायोर्महीपतिः ॥
रूपाणि पञ्च कुर्वीत महीपालनकर्मणि ।
यथेन्द्रश्चतुरो मासान् वार्योघेणैव भूत लम् ॥

राजप्रशंसा । ३१
आप्याययेत्तथा लोकान् परिहारैर्महीपतिः ।
परिहारैः दानैः ।
मासानष्टौ यथा सूर्य्यस्तोयं हरति रश्मिभिः ।
सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादि भूपतिः ॥
शुल्कं करः ।
यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।
तथा प्रियाप्रिये राजा दुष्टादुष्टे समो भवेत् ॥
पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः ।
एवं यत्र प्रजाः सर्वा निर्वृतास्तच्छशित्रतम् ॥
मारुतः सर्वभूतेषु निगूढश्चरते यथा ।
एवं नृपश्चरैश्चारैः पौरामात्यादिबन्धुषु ॥
न लोभार्थेन कामार्थैर्नार्थार्थैर्यस्य मानसम् ।
पदार्थैः क्षुभ्यते धर्मात्स राजा स्वर्गमृच्छति ॥
उत्पथग्राहिणो मूढान् स्वधर्माच्चलतो नरान् ।
यः करोति निजे धर्मे स राजा स्वर्गमृच्छ

३२ वीरमित्रोदयस्य राजनीतिप्रकाशे
अथ क्षत्रियस्य राज्याभिषेकानन्तरमेव प्रजापालनस्य क-
र्त्तव्यत्वेन राजाभिषेके कालो निरूप्यते ।
तत्राभिषेकस्य निषिद्धकालेऽकर्त्तव्यत्वेन प्रथमं निषिद्धका-
लाः प्रदर्श्यन्ते । तत्र —
काठकगृह्ये,
राजाऽभिषेकं काम्यं च न कुर्याद्भानुलाङ्गिते ।
भानुलाङ्गिते असङ्क्रान्तमासे ।
तथा,
मलमासे विवर्जयेत् । इत्युपक्रम्य—
राज्ञोऽभिषेकः प्रथमश्चूडाकरणमेखलाः ॥
अन्नप्राशनमारम्भो गृहाणां च प्रवेशनम् ।
विष्णुधर्मोत्तरे,
नाभिषेच्यो नृपश्चैत्रे नाधिमासे च भार्गव ।
न प्रसुप्ते तथा विष्णौ विशेषात्प्रावृषि द्विज ॥
न च भौमदिने राम चतुर्थ्यां च तथैव च ।
नवम्यां नाभिषेक्तव्यश्चतुर्दश्यां च भार्गव ॥
तथा,
नागं चतुष्पदं विष्टिं किंस्तुघ्नं शकुनिं तथा ।
करणानि न शस्यन्ते व्यतीपातादिनं तथा ॥
नक्षत्रमुल्काभिहतमुत्पाताभिहतं तु यत् ।
सोमसूर्यकुजाक्रान्तं परिदृष्टं च भार्गव ॥
तथा,
कुजहोरास्तथा नेष्टाः सर्वत्र कुलिकोऽस्य च ।
इति निषिद्धकालः ।

राजाभिषेके विहितकालाः । ३३
अथ राजाभिषेके विहितकाला निरूप्यन्ते ।
विष्णुधर्मोत्तरे,
इति सम्भृतसम्भारो राज्ञः सांवत्सरस्ततः ।
कालेऽभिषेचनं कुर्यात्तं कालं कथयामि ते ॥
इत्युपक्रम्य-
ध्रुवाणि वैष्णवं शाक्रं हस्तपुष्यौ तथैव च ।
नक्षत्राणि प्रशस्यन्ते भूमिपालाभिषेचने ॥
इतीति वक्ष्यमाणसम्पादितसामग्रीकः । सांवत्सरो ज्यो-
तिषिकः ।
सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि । इत्यमरात् ।
ध्रुवाणि रोहिणी उत्तरात्रयं च । वैष्णवं श्रवणः। शाक्रं ज्येष्ठा।
गरुडपुराणे,
रोहिण्यार्द्रा तथा पुष्यो धनिष्ठा चोत्तरात्रयम् ।
वारुणं श्रवणं चैव एते चोर्ध्वमुखाः स्मृताः ॥
एषु राज्याभिषेकं च पट्टबन्धं च कारयेत् ।
वारुणं शतभिषा । पट्टबन्धं वक्ष्यमाणलक्षणोपेतम् ।
विष्णुधर्मोत्तरे,
वृषोऽथ कीटसिंहौ च कुम्भो लग्ने प्रशस्यते ।
एतेषां जन्मलग्नाभ्यां यस्मादुपचयोऽस्त्यतः ॥
तारा द्वितीया षष्ठी तु चतुर्थी चाष्टमी तथा ।
नवमी च तथा शस्ता अनुकूलश्च चन्द्रमाः ॥
सौम्याः केन्द्रगता लग्नात् शुभाश्चैव त्रिकोणयोः ।
पापाश्चोपचयस्थाने शस्तो लग्ने दिवाकरः ॥
लग्ने नवांशे स्थितिरस्य वर्गे वर्गस्तथा तस्य महानुभाव ।
सूर्यस्य वर्गः सकलःप्रशस्तो राज्ञोऽभिषेके स नृपो ग्रहाणाम् ॥
५

२४ वीरमित्रोदयस्य राजनीतिप्रकाशे
स सूर्यो ग्रहाणां नृपः स्वामी ।
वृत्तशते,
जन्मेशलग्नेशदशेशसूर्ये भौमे बलिष्ठे क्षितिपाभिषेकः ।
ज्येष्ठाश्रवःक्षिप्रमृदुध्रुवेषु सौम्यग्रहस्याह्नि तिथावरिक्ते ॥
लग्ने चरे चोपचयस्थिते च शीर्षोदये च क्षितिपाभिषेकः
शस्तस्त्रिषष्ठायगतैश्च पापैः सौम्यैः षडन्त्यायविवर्जितैश्च ।
कश्यपः,
अथातः सम्प्रवक्ष्यामि भूपानामभिषेचनम् ।
सौम्यायने क्षते जीवे नास्तगे न च वृद्धके ॥
स्वलग्नराशिगे लग्ने तदंशे वा बलान्विते ।
पट्टबन्धनलग्नेशे तदंशेशे च नास्तगे ॥
सुहृत्त्रिकोणस्वक्षेत्रतुङ्गसंस्था ग्रहा यदि ।
यस्याभिषेके कुर्वन्ति स्थिरां कीर्तिं श्रियं सुखम् ॥
ब्रह्मपुराणे,
सुतिथौ च सुनक्षत्रे स्नानं नक्षत्रनामकम् ।
मुहूर्त्ते सुगुणोपेते सर्वोत्पातविवर्जिते ॥
स्थिरे राशौ शुभयुते केन्द्रे चोपचयान्विते ।
सुतिथौ चतुर्थीनवमीचतुर्दशीभिन्नतिथौ । सुनक्षत्रे “ध्रुवाणि
वैष्णवं शाक्रम्” इत्यादिना विहितनक्षत्रे । नक्षत्रनामकं स्ना-
नम्, विधायेतिशेषः । तच्च विष्णुधर्मोत्तरे जन्मनक्षत्रे विहितम-
ग्रेऽभिधास्यते । पुष्यस्नानं वा विधाय । मुहूर्ते सुगुणोपेत इत्य-
नेन गुरुशुक्रास्तादिरहितशुद्धमासादिरूपः काल उपलक्ष्यते ।
स्थिरे राशौ वृषसिंहवृश्चिककुम्भेषु । शुभयुते शुभग्रहयुते । के-
न्द्रे प्रथमचतुर्थसप्तमदशमभवने ।

राज्याधिकारिनिर्णयः । ३५
काश्मीरायां तु पार्वत्यां शङ्करात्मा महीपतिः ।
सर्वलक्षणसंयुक्तस्त्वभिषेच्यो नवस्तदा ॥
तदा पूर्वोक्ते काले, नवो महीपतिः, पार्वत्यां पर्वतभवायां,
काश्मीरायां श्रीपर्णी, तन्निर्मिते भद्रपीठे उपवेश्येत्यर्थः । अत
एवाग्रे अभिषेकसम्भारमध्ये श्रीपर्णीपीठमाहृतमस्ति ।
इति राजाभिषेके विहितकालाः ।
अथ राज्याधिकारिनिर्णयः ।
तत्रौरसो ज्येष्ठ एवाधिकारी । तदुक्तम्—
कालिकापुराणे,
राजेत्युपक्रम्य—
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयंदत्तश्च दासश्च षडिमे पुत्रपांसनाः ॥
दासः स्वोत्पन्नो दासीपुत्रः । रागादिना द्विजातीनामपि
दास्यामुत्पन्नस्य पुत्रस्य सम्भवात् ।
अभावे पूर्वपूर्वेषां परान् समभिषेचयेत् । इति ।
मनुः,
ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः ।
शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥ इति ।
आपस्तम्बोऽपि, ज्येष्ठो दायाद इति ।
इदं राज्ये विभागाभावस्य वक्ष्यमाणत्वात् राज्याविषय-
मिति बहुभिर्व्याख्यातम् ।
मनुरपि,
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।

३६ वीरमित्रोदयस्य राजनीतिप्रकाशे
पितृणामनृणश्चैव स तस्मात्सर्वमर्हति ॥ इति ।
कालिकापुराणे तु ज्येष्ठौरसस्य राज्यं स्पष्टमेवाभिहितम्-
अथोपरिचरं राजा यौवराज्येऽभ्यषेचयत् ।
ज्यायांसमौरसं पुत्रं सर्वराजगुणैर्युतम् ॥ इति ।
रामायणेऽपि,
मन्थरां प्रति कैकयीवाक्यम्-
धर्मज्ञो गुणवान् दान्तः कृतज्ञः सत्यवाक् शुचिः ।
रामो राजसुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥
राजसुत इत्यौरसत्वज्ञापनार्थम् ।
तथा,
रामं प्रति दशरथवाक्यम्—
आदिष्टो ह्यसि मे ज्येष्ठः प्रसूतः सदृशो गुणैः ।
ज्येष्ठायामपि मे पत्न्यां सदृश्यां सदृशः सुतः ॥
तन्मत्तस्त्वं गुणज्येष्ठो रामनामाऽत्मजः प्रियः ।
त्वया तात प्रजा ह्येताः स्वगुणैरनुरञ्जिताः ॥
तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्स्यसि । इति ।
प्रसूत औरसः । अस्मादपि ज्येष्ठस्यौरसस्यैव राज्यमिति
गम्यते । ज्येष्ठायामिति । यदा एकदोत्पन्नयोर्ज्येष्ठ्यं न निर्णेतुं
शक्यते तदा ज्येष्ठापुत्रस्य प्राप्त्यर्थं, न तु महिष्या अन्यस्या
वा ज्येष्ठायाः पुत्रस्य कनीयसोऽपि प्राप्त्यर्थम् । यदा ज्येष्ठा-
या अनभिषिक्ताया वा पुत्रो ज्येष्ठस्तदा तस्यैव राज्यमित्या-
चारदर्शनात्,
सदृशस्त्रीषु जातानां पुत्राणामविशेषतः ।
न मातृतो ज्यैष्ठ्यमस्ति जन्मतौ ज्यैष्ठ्यमुच्यते ॥
इति मनुना स्पष्टमभिधानाच्च ।

राज्याधिकारिनिर्णये ज्यैष्ठ्यनिर्णयः । ३७
रामायणेऽपि,
जन्मज्येष्ठं प्रियं पुत्रं यौवराज्ये यदिप्सथ ।
इति ज्यैष्ठ्यस्य जन्मनैवोक्तत्वाच्च । एवं यमयोराप जन्मनैव
ज्यैष्ठ्यं न निषेकेण । निषेकज्यैष्ठ्ये तु अनेकपत्नीकस्यैकस्यां
पूर्वं निषेकः पश्चात्पुत्रजन्म, यस्यां पश्चान्निषेकः पूर्वं पुत्रजन्म,
तत्पुत्रयोर्मध्ये पूर्वपुत्रस्यैव राज्यं स्यात् । न चेष्टापत्तिः । आ-
चारविरोधात्, उक्तवचनविरोधाच्च ।
मनुरपि जन्मनैव ज्यैष्ठ्यमाह—
जन्मज्यैष्ठ्येन चाह्वानं सुब्रह्मण्यायामपि स्मृतम् ।
यमयोश्चैव गर्भेषु जन्मना ज्यैष्ठ्यमुच्यते ॥
सुब्रह्मण्याख्यो मन्त्रो ज्योतिष्टोम इन्द्रस्याह्वानार्थं प्रयुज्य-
ते । तत्र प्रथमं प्रथमपुत्रेण पितरमुद्दिश्याह्वानं क्रियते-“अमुक-
स्य पिता यजते” इति, तत्र जन्मज्येष्ठतामाहृत्यैवाहानम् । यस्य
च यजमानस्य यमजौ पुत्रौ तत्र गर्भे एककालनिषिक्तयोरपि
यमयोर्जन्मना ज्यैष्ठ्यमुच्यते, जन्मज्यैष्ठ्येन पुत्रस्य ज्येष्ठतामा-
हृत्याह्वानं क्रियते इति वाक्यार्थः । गर्भेष्विति बहुवचनं तु लोके
स्त्रीबहुत्वमपेक्ष्योक्तं द्रष्टव्यम् । तथा च—
स्मृत्यर्थतत्त्वे देवलः,
यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् ।
सन्तानः पितरश्चैव तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितम् ॥ इति ।
सन्तानो वंशः ।
ननु पूर्वं निषिक्तस्य पश्चादुत्पन्नस्य हिरण्यकशिपोः कथं
पूर्वं नामकरणम् । तथा च—
श्रीभागवते,
प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत ।

३८ वीरमित्रोदयस्य राजनीतिप्रकाशे
तं वै हिरण्यकशिपुं विदुर्बुधा यं तं हिरण्याक्षमसूत साग्रतः ॥
स्वदेहात् पितृदेहात् । प्राक् गर्भनिषेककाले । सा अदितिः ।
गर्भाधानकाले यथा प्राक्पश्चाद्भावस्तथोक्तः—
पिण्डसिद्धौ,
यदा विशेत् द्विधाभूतं वीजं पुष्पं परिक्षरत् ।
द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात् ॥
सूतिः प्रसवः । वेशविपर्ययात् वेशो वीजप्रवेशः, तद्विपर्ययात्
तद्वैपरीत्येन । यस्य पूर्वं निषेकः तस्य पश्चादुत्पत्तिः यस्य च
पश्चान्निषेकस्तस्य पूर्वमुत्पत्तिरिति चेत्, उच्यते । “जन्मना
ज्यैष्ठ्यमुच्यते” इति “तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितम्” इति मनु-
देवलवचनाभ्यां विरोधे “प्रजापतिर्नाम तयोरकार्षीत्” इति भाग-
वतवचनस्य सिद्धार्थमात्रबोधकस्य ज्यैष्ठ्यविधायकत्वमिति व-
क्तुमशक्यत्वात्, “सूतिर्वेशविपर्ययात्” इत्यस्यापि एकदा निषि-
क्तयोरुपरिभागानिषिक्तस्य पश्चान्निर्गम इति देशिक एव विपर्य-
योऽर्थः, न तु गर्भे पूर्वमुत्पन्नस्येत्येतावत्पर्यन्तमर्थः । एकस्यापि
सङ्कीर्णवीथीस्थितस्य गजादेः पराङ्मुखतयैव परावृत्तौ विप-
रीतो निर्गत इति प्रयोगात् । न च मनुवाक्ये गर्भेषु जन्मनेत्य-
न्वयो युक्तः, गर्भसम्भूतावपत्यजन्माभूदित्यप्रयोगात् । निर्गमे
च तादृशप्रयोगाद्देवलवाक्यैकवाक्यत्वाच्च पूर्वोक्तमेधातिथ्यादि-
कृतव्याख्यानस्यैवोचितत्वात् । इतरथा निषेकक्रमेण ज्येष्ठत्वे-
ऽनेकपत्नीकस्यैकस्यां पूर्वं निषिक्तो गर्भः शल्यीभूतोऽन्यस्यां
चानन्तरनिषिक्तः स्वकाले उत्पन्नस्तदपेक्षया शल्यवृद्ध्या विं-
शतिवर्षानन्तरोत्पन्नस्य ज्येष्ठत्वव्यवहारप्रसङ्गः । यदि चैकगर्भ
एव निषेकक्रमेण ज्यैष्ठ्यं न पृथग्गर्भे, भागवतवचनानुरोधादि-
त्युच्यते, तत्रोक्त एव मनुदेवलवचनाविरोधः । अस्तु वा तथा '

क्षेत्रजादे राज्यानधिकारः । ३९
तथापि को हि अयोगी तद्वेद यदुपर्यधो वा पूर्वं निषेक एकदैवो-
भयत्र वेति त्रितयस्यापि वक्तुं शक्यत्वात्। योगी हि प्रजापतिः
क्रमं विदित्वा नाम चकारेत्यस्यापि सुवचत्वात् । अत एव
यः प्राक्स्वदेहादित्येवोक्तम्, न तूपरिस्थितत्वादेराद्यसम्भूतौ
हेतुत्वेनोक्तिः, तस्माज्जन्मनैव ज्यैष्ठ्यमिति दिक् ।
अथौरसे कनीयस्यपि सति क्षेत्रजादीनां राज्यदाननिषे-
धः कालीपुराणे दर्शितः-
न क्षेत्रजादींस्तनयाञ्राजा राज्येऽभिषेचयेत् ।
पितॄणां शोधयन्नित्यमौरसे तनये सति ॥
शोधयन्, ऋणमिति शेषः । औरसे तनये सतीति तत्स-
न्तेतेरप्युपलक्षणम्। पुत्रेभ्यो राज्यं विभज्य न देयम्। तथा च-
रामायणे,
कैकयीं प्रति वाक्यम्-
न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।
स्थाप्यमानेषु सर्वेषु महानविनयो भवेत् ॥
तस्माज्ज्येष्ठेषु पुत्रेषु राज्यतन्त्राणि पार्थिवाः ।
आसञ्जन्त्यनवद्याङ्गि गुणवत्स्वितरेषु च ॥
तेषु ज्येष्ठेषु पुत्रेषु ज्येष्ठेष्वेव न संशयः ।
आसञ्जन्त्यखिलं राज्यं न भ्रातृषु कथंचन ॥ इति ।
गुणवत्स्वितरेष्विति ज्यायसि दोषसद्भावे कनीयसां मध्ये
एकस्य कस्यचित् राज्यदाने गुणवत्त्वं हेतुत्वेनोपन्यस्तम् । ज्ये-
ष्ठस्यान्धत्वादिदोषसद्भावे न राज्यभाक्त्वम् । तदुक्तम्-
महाभारते,
नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ।
तथा,